Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
परिशिष्ट- १ पदार्थसंकलन
२१९
३६ अयं तद्योग्यतारूपोऽतात्त्विको योग: अपुनबंधकस्य सम्यग्दृष्टेश्च व्यवहारेण वर्तते । (तदाभासरूपोऽभव्यादीनां भवाभिनन्द्यादीनां वा)
३७ स अध्यात्मरूपो भावनारूपश्च तात्त्विकः ।
३८ निश्चयेन तु चारित्रवतामेवायम् ।
३९ (उपचारेण) अतात्त्विकस्तु सकृद्बन्धकानां द्विर्बन्धकानां च ।
४०
अत्र हि परिणामो न शुद्धः ।
४१ अस्य फलमपि अनर्थरूपमेव ।
४२ इह च वेषादिमात्रमेव योगलक्षणम् ।
४३ अन्तरङ्गस्तु भावलेशोऽपि नास्ति ।
४४ तात्त्विके योगे चारित्र्यमुत्तरोतरशुद्धि ध्रुवं पुष्णाति ।
४५ ध्यानादिकं चारित्र्यस्य शुद्धिजनकम् ।
४६ पुनरपि योगस्य भेदद्वयम् ।
४७ सापायो निरपायश्चेति द्विधायोगः ।
४८ सापायो निरनुबन्धः, निरपायो सानुबन्धः ॥ अपाय इति योगबाधकं क्लिष्टं कर्म ।
४९
५० विशिष्टानुष्ठानादिभिरपि न तन्नाशः ।
५१ सापाययोगः साश्रवो भवति ।
५२ देवाद्यनेकजन्महेतुभूतकर्मानुबन्धीति भावः ।
५३ अनाश्रवे तु योगे वर्तमानमेव जन्म, न पुनरागन्तुकभवः ।
५४ सांपरायिककर्मबन्धाभावात् अनाश्रवे कर्माश्रवनिषेधः स्वीकार्यः ।
५५ निश्चयप्रापकव्यवहारेणेदं बोध्यम् ।
५६ पुनरपि योगस्य भेदद्वयम् ।
५७ शास्त्रेण नाधीयते, शास्त्रेणाधीयते चेति ।
५८ गोत्रयोगिनां निष्पन्नयोगिनां च न शास्त्रेणाधीयते ।
५९ गोत्रयोगिनां शास्त्रेणोपकाराभावात् ।
६० निष्पन्नयोगिनां च शास्त्रप्रयोजनाभावात् ।
६१ कुलयोगिनां प्रवृत्तचक्राणां तु शास्त्रेणाधीयते ।
६१ योगिनां कुले जातानां योगिधर्मसङ्गतानां च सत्प्रवृत्तिमतां कुलयोगित्वं मतम् ।
६२ कुलयोगिनः सर्वत्रद्वेषि गुरुप्रमुखपूज्यजनप्रियाः दातुचित्ता, विनीताः
२२०
ग्रन्थिभेदेन सम्यग्बोधवन्तः, चारित्र्येण च जितेन्द्रियाः ।
६३ प्रवृत्तचक्रास्तु इच्छायमप्रवृत्तियमसंयुक्ताः ।
६८ तेषां स्थिरयमसिद्धियमप्राप्तिवांछा ।
६९ सदुपायप्रवृत्ताश्च ते शुश्रूषाग्रहणधारणाविज्ञानोहापोहगुणैः संयुताः ।
७० योगावञ्चकलाभेन ये क्रियावञ्चकफलावञ्चकभाजो भवन्ति ते योगप्रयोगाधिकारिणः ।
७१ इह योगविचारे योगप्रक्रियामूलस्य यमस्यापि विचार आवश्यकः ।
७२ स चतुर्धा इच्छा, प्रवृत्तिः स्थिरः सिद्धिश्चेति ।
७३ योगप्राप्तिनिबन्धमवञ्चकत्वमपि त्रिधा ।
योगदृष्टिसंग्रह
७४ योगः, क्रिया, फलञ्चेति ।
७५ यमवतां कथायां प्रीतिः तद्युता च यमस्येच्छा इच्छायमः ।
७६ यमानां पालनं प्रशमगुणसन्निधानं प्रवृत्तियमः ।
७७ प्रवृत्तियमस्य पालनं कालादिविकलं नास्तीति तद्भिद्यत इच्छायमात् ।
७८ इच्छायमे तथाविधसाधुचेष्टा वर्तते यथा तद्वत: तात्त्विकः पक्षपातो द्रव्यक्रिया
मतिशेते ।
"
७९ प्रवृत्तियमो यदि भावविकलः तदा स इच्छायोगाद् हीनः अथ भावसहितः तदा इच्छायोगाद् उत्तमः |
८० संविग्नपाक्षिकानां चारित्र्यं न परिपूर्ण तथापि तेषां गणना प्रवृत्तचक्रे यदि क्रियते तदा तेषां प्रवृत्तियम एव मन्तव्यः ।
८१
प्रवृत्तियमे शास्त्रयोगनियतत्वमस्तीति कृत्वा ।
८२
यत्र अतिचारसंभावनाऽभावात् तच्चिन्तारहिता यमसेवा स स्थिरयमः । स्वयंसाधितयोगानां परेषु विनियोजकत्वं यत्र सिद्ध्यति स सिद्धियमः ।
८३
८४ चतुर्थस्यास्य शक्तिरविचिन्त्या ।
८५
अत्र परार्थसाधनं शुद्धात्मभावात् संपद्यते ।
८६
अथ अवञ्चकत्रयम् ।
८७ सतां कल्याणकारिणां कल्याणकारी योग: योगावञ्चकम् ।
८८ सतामेव प्रणामादिकल्याणक्रिया क्रियावञ्चकम् ।
८९ सद्भ्यो धर्मावाप्तिरुत्तरोत्तरफलवती फलावञ्चकम् ।
९० एवमस्यां द्वात्रिंशिकायां, इच्छादियोगत्रयम्, तात्त्विकादियोगत्रयम्, सापायादियोगद्वयम् शास्त्रसाध्यादियोगद्वयम् इति चतुर्धा योगविचारः प्रस्तुतः ।

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131