Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
परिशिष्ट- १ पदार्थसंकलन
२२७ १५२ पञ्चम्यां प्रत्याहारो योगाङ्गम्, भ्रान्तिः निरस्तदोषः, बोधश्च गुणोऽस्ति । १५७ षष्ठ्यो धारणा योगाङ्गम्, अन्यमुद् निरस्तदोषः, मीमांसा च गुणोऽस्ति । १५८ सप्तम्यां ध्यानं योगाङ्गम्, रुग् निरस्तदोषः, प्रतिपत्तिश्च गुणोऽस्ति । १५९ अष्टम्यां समाधिः योगाङ्गम्, आसंगो निरस्तदोषः, प्रवृत्तिः गुणोऽस्ति । १६० आद्याश्चतस्रः प्रतिपातयुता मताः । १६१ दुर्गतिहेतुकर्मोदयाद् भ्रंशयोगोऽत्र सम्भवति । १६१ सर्वेषां पातो नास्ति । १६२ अन्याश्चतस्रः प्रतिपातविरहिता मताः । १६३ यदपि पञ्चमदृष्टिवतः श्रेणिकादे: दुर्गतिपतनं दृश्यते, तत् प्रकृतदृष्टिलाभादग्बद्धैः
कर्मभिरिति मन्तव्यम् । १६४ तस्यापि पातस्य दृष्टिविघातसामर्थ्याभावाद् न स वास्तवः पातः । १६५ योगस्यान्तिमं फलं निर्वाणम् । १६६ स्वर्गजन्म तु निर्वाणादितरदिति तज्जन्मनोऽपि पतनाशङ्का न कार्या । १६७ स्वर्गजन्म तु निशि विश्रामस्थले निद्रायापनमिव न मूललक्षबाधकम् । १६८ मित्रादिषु दृष्टिषु मिथ्यात्वे सत्यपि तस्य मार्गाभिमुखत्वं मोक्षयोजकं भवति । १६८ निसर्गेण श्रेयस्कारी, क्रोधादिविकारविकलः, शान्तस्वभावः, दम्भहीनः, संतोषी च
मिथ्यादृष्टिरवश्यं मोक्षमार्गे प्रयाति ।
२२८
योगदृष्टिसंग्रह भावेऽपि न खेदमनुभवति । १० अत्र यमाः पञ्च । ११ अहिंसा, सत्यम्, अचौर्यम्, ब्रह्मचर्य, निष्परिग्रहश्च । १२ एते सर्वदेशकालादिसम्बन्धेन गृह्यन्ते । १३ सर्वासु चित्तभूमिसु च पाल्यन्ते । १४ हिंसादिकानां वितर्काणां बाधनेन, योगाङ्गम् । १५ तेषामेव प्रतिपक्षाणां भावनाद् वितर्कबाधा भवति । १६ वितर्काणामुत्थानं यत्र बाध्यते, उपहतिश्च यत्र भवति ते बाधकाः । १७ अनयैव रीत्या योग: सुकरो भवति । १८ अहिंसादयो न साक्षाद् उपकारिणः, न वा उत्तरोत्तरोपकारवन्तः, किन्तु हिंसादि
कानामपनायकाः । १९ वितर्काः सप्तविंशतिः । २० क्रोधो लोभो मोह इति त्रयम् । २१ प्रत्येकं कृता कारिता अनुमोदिता इति नवकम् । २२ सर्वेऽपि मृदुभावाः मध्यभावाः अधिमात्राश्चेति सप्तविंशतिः । २३ अमी वितर्का दुःखम्, अज्ञानं च फले जनयन्ति । २४ अयमेव भावो विभाव्यमानो यमानां फलमस्ति । २५ अहिंसाऽभ्यासवतां समीपे वैरत्यागो भवति सहजविरोधिनामपि । २६ अकृतेऽपि सत्कर्मणि तत्फलं लभ्यते, सत्याभ्यासवताम् । २७ अस्तेयाऽभ्यासवतां निरपेक्षस्यापि रत्नादिलाभः । २८ ब्रह्मचर्याऽभ्यासवतां प्रकृष्टवीर्यलाभात् शरीरेन्द्रियमन:प्रकर्षः । २९ अपरिग्रहाभ्यासवतस्तु पूर्वजन्मादिबोधः । ३० अपरिग्रहस्तु न केवलं भोगसाधनत्यागरुपः परन्तु निजशरीरानुरागाभावोऽपि । ३१ तद्विना न ज्ञानोद्गमः । ३२ अयमेतादृशो यमप्रधानो जीव: जिनप्रवचनाद् योगबीजमुपादत्ते । ३३ जिनेषु कुशलं चित्तम्, मनोयोगेन जिनेषु नमस्कारः, वचोयोगेन जिनेषु प्रणामादि च
काययोगेन एतानि योगबीजानि । ३४ असंशुद्धं च योगबीजं यथाप्रवृत्तिकरणे सम्भवति । ३५ इह तु मोक्षयोजकानुष्ठानकारणमिति संशुद्धं योगबीजमिति निरुपणम् ।
मित्राद्वात्रिंशिका
१ मित्रादृष्टिप्रस्तावः । २ मित्रायां दर्शनं स्वल्पम् । ३ योगाङ्गं तु यमः । ४ स च इच्छादिकः ।
खेददोषस्यात्र विलयः । ६ खेदे देवकार्ये गुरुकार्ये ऽन्यकार्ये वा व्याकुलता भवति । कार्यजनिता श्रान्तता ।
कार्यकरणे परितोषो नानुभूयते तेन खेदः । ८ मित्रायां कार्यकरणे खेदो नास्ति, परितोषभावात् । ९ रोगसम्भवेऽपि यथा भवाभिनन्दिनो भोगाद् न व्युपरमन्ते तथा कार्येषु परिश्रम

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131