Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
परिशिष्ट- १ पदार्थसंकलन
३६ तथाभव्यतायाः परिपाकाद् इदं चरमावर्ते भवति ।
३७ मिथ्यात्वमान्द्याच्च गुणोन्मेषः । स चायम् ।
३८ धर्मकरणे अतिशयम् उपादेयताबुद्धिः, आहारादिसञ्ज्ञासु उदयबाधः फलानाम् अपेक्षानिर्वृतिः ।
३९ इदमेव बीजाधानं निजस्थानैकरागं यदि भवति तर्हि तत्स्थानस्थितिकारकं भवति । गौतमप्रभोर्यथा वीरविभुरागः ।
४०
असङ्गभावस्तु जनयत्युत्तरोत्तरपरिणामप्रवाहम् ।
४१
४२ ग्रन्थिभेदविकलस्यापि चरमयथाप्रवृत्तकरणवतः शुद्धयोगबीजोपादानेनापूर्वी मोदानु
भावः ।
४३ सरागस्यापि यतेर्यथा वीतरागदशासम आनन्दलाभः ।
४४ तथैव ग्रन्थिवतोऽपि प्रकर्षवान् आत्मानन्दः ।
४५ योगबीजोपादानमानसं भवसागरे मनागुन्मज्जनानुभूतिः ।
भवशक्तेर्या उत्कर्षवती सीमा तद्नाशनम् ।
४६
४६ ग्रन्थिपर्वते च वज्रप्रहारसमम् ।
४७ आचार्यादिगुणवत्सु चाचार्यादिषु एतदेव कुशलचित्तादि संशुद्धं योगबीजम् ।
४८ निजप्रशंसादिभावनाया अत्र परिहारः ।
४९ चित्तोत्साहपूर्वकं वैयावृत्त्यं भावयोगिषु ।
५० भवादुद्वेगः ।
५१ निर्दोषाहारौषधादिदानाभिग्रहः ।
२२९
५२ तथा अर्हदागमानुसारिशास्त्राणां विधिपूर्वकं लेखनादि ।
५३ लेखनम्, पूजनम्, दानं पात्रेषु श्रवणं सद्गुरुद्वारा, वाचना, विधिना ग्रहणम्,
अवगतस्य भव्येषु प्रकाशना, स्वाध्यायः, चिन्तनं, भावना च शास्त्राणामत्र क्रियते ।
५४ योगबीज श्रवणे च तथेति प्रतिपत्तिरूत्तमा ।
५५. नाऽत्र शङ्कालेशावकाशः ।
५६ अत्यन्तं समादरो बीजश्रुतौ ।
५७ अभ्युदयादिफलेषु औत्सुक्याभावः ।
५८ अवञ्चकयोगाद् योगबीजलाभः ।
शरस्य लक्षभेद इव अवञ्चकस्य बीजदानं फलम् ।
५९
६० सत्प्रणामादेरन्तरङ्गो हेतुर्भावमलाल्पता ।
२३०
६१ मलतीव्रतायां सत्सु सत्त्वधियो नोत्पत्तिः ।
६२ रोगस्याल्पता क्रियादिकं निष्पादयति तथा कर्मणामल्पता योगबीजादिकं निष्पादयति ।
६३ चरमयथाप्रवृत्तकरणे कर्मणामल्पतामातन्वती स्वभावव्यवस्था वस्तुतस्तु अपूर्वा वर्तते ।
६८
मिथ्यादृशोऽपि गुणस्थानपदं यदुक्तं तस्य योजना मित्रायां नूनं घटते । ६९ ग्रन्थान्तरेषु मित्रादृष्टिरेव मिथ्यादृष्टिगुणस्थानकपदप्रयोजिकेति निरुक्तम् ।
७० अत्र व्यक्तत्वं घनमले सति न सम्भवेत् ।
७१ दुष्टा धीस्तु व्यक्ताऽपि दुःखदैव ।
७२ तेन गुणस्थानीभूतमिथ्यात्वं मंदमिथ्यात्वं तस्य प्रयोजिकेयं मित्रादृष्टिरिति सुमतम् ।
७३ योगमूलेन यमेन धर्मरुचिः तद्वृद्धिश्च भवति ।
७४ अपुनबंधकदशावशात् शुद्धेरुत्कर्षः, अशुद्धेश्चापकर्षः अत्र गुणरुपेण प्रवर्तते ।
७५ गुणानामाभासस्तु दोषपक्षपातसद्भावान्न हितकरः ।
७६ कल्याणतत्त्वानवबोधिनः सकाशात् दृश्यमानरुपेण गुणलाभो यो वर्तते सोऽपि परिशान्तज्वरसमानोऽभ्यन्तरेऽनिवृत्तदोषः ।
७७ मुग्धमनसां सद्योगाद गुणलाभ:, असद्द्योगाद् दोषप्रभवः ।
७८ तेन सद्योगजनितयोगलाभः श्रेयान् ।
७९ योग एव सर्वगुणप्रधानः ।
१
२
३
४
योगदृष्टिसंग्रह
५.
६
७
८
९
तारादित्रयद्वात्रिंशिका
तारादृष्टिः ।
अत्र दर्शनं मनाक् स्पष्टम् । पूर्वदृष्ट्यपेक्षया ।
नियमाः प्रशस्ताः ।
परलोकसम्बद्धप्रशस्तानुष्ठानेषु समादरभावोऽत्र ।
उद्वेगदोषाभावादसौ भवति ।
तत्त्वविषये जिज्ञासागुणः ।
नियमाः पञ्च ।
शौचः, संतोष:, स्वाध्यायः तपः, देवताप्रणिधानञ्च ।
जलादिभिः देहादिक्षालनं बाह्यशौचः ।

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131