Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 119
________________ परिशिष्ट-१ पदार्थसंकलन २२५ १०० मित्रादिदृष्टिगतानां प्रवृत्तिः, परार्थप्रधाना, शुद्धबोधसाधनवती, विनिवृत्ताग्रहा, मैत्र्यादिबन्धुरा, गंभीरोदाराशयवती, चारिसंजीवनीचारलीत्या लाभकरी च । १०१ अथ मूलविषयप्रवेशः । १०२ दृष्टिरिति वस्तुगत श्रद्धासहितो बोधः । १०३ सः अष्टप्रकारः । १०४ मित्रा, तारा, बला, दीप्रा, स्थिरा, कान्ता, प्रभा, परा, इति तद्भेदाः । १०५ मित्रादृष्टिबोधः तृणाग्निकणोपमः । १०६ अभीष्टकार्यसिद्धिानेन भवति । १०७ सम्यक्प्रयोगकालपर्यन्तं तस्य अवस्थानाभावात् । १०८ स बोधोऽल्पवीर्यः, न तेन पटुसंस्काराधानम् । १०९ विकलोऽत्र प्रयोगः । ११० भावेन वंदनादिर्न भवति । १११ तारादृष्टिबोधो गोमयाग्निकणसमानः । ११२ अत्रापि स्थितिवीर्ययोरभावः, प्रयोगकाले न स्मृतिपाटवम्, प्रयोगस्य तु वैकल्य मेव । ११३ बलादृष्टिबोधः काष्ठाग्निकणतुल्यः । ११४ अत्र स्थितिवीर्ययोरिषद्भावः । ११५ स्मृतिपाटवं चात्र सम्यग् । ११६ प्रयोगसमये स्मृतिसद्भावात् अर्थप्रयोगमात्रप्रीत्या यत्नलेशभावः । ११७ दीप्रादृष्टिबोधो, दीपप्रभासमानः । ११८ अत्रोदने स्थितिवीर्ये । ११९ प्रयोगसमये स्मृतिरविशिष्टा । १२० वन्दनादौ तु द्रव्यप्रयोगः । १२१ प्रथमगुणस्थानकस्य प्रकर्षोऽयम् । १२२ स्थिरा तु भिन्नग्रन्थिवतः । बोधोऽयं रत्नसमानः । १२३ तद्भावः अप्रतिपाती, प्रवर्धमानो, निरुपायः, परपरितापविधुरः, परितोषहेतुः प्रायश: प्रणिधानादियोनिः । १२४ कान्तादृष्टिबोधः ताराभासमानः । १२५ प्रकृत्या स्थिर एवासौ । योगदृष्टिसंग्रह १२६ अत्रानुष्ठानं निरतिचारम् । १२७ तत् शुद्धोपयोगानुसारि, विशिष्टाप्रमादसचिवं, विनियोगप्रधान, गम्भीरोदाराशयं च । १२८ प्रभादृष्टिबोधः सूर्यसमानः । १२९ सर्वदा सद्ध्यानहेतुरसौ । १३० नेह विकल्पावसरः । १३१ प्रशमसारमिह सुखम् । १३२ अत्र शास्त्राणां न कार्यम् । १३३ अनुष्ठाने समाधिनिष्ठम् । १३४ एतदृष्टिवतः समीपे वैरादिनाशः । १३५ परानुग्रहकारिता सततम् । १३६ विनये च औचित्ययोगः । १३७ सत्क्रिया च अवन्ध्या ।। १३८ परादृष्टिबोधः चन्द्रसमानः । १३९ सर्वदा सद्ध्यानरूप एव । १४० मनो विकल्पविरहितम् । १४१ तेन सुखमनुत्तरम् । १४२ सकलसिद्धत्वान्न प्रतिक्रमणादि । १४३ परोपकारः सर्वदा । १४४ क्रिया च अवन्ध्या । १४५ एताः दृष्टयः क्रमशः इक्षुणा, इक्षुरसेण, कक्कबेन, तद्गुडेन, खण्डेन, शर्करया, मत्स्यंडेन, वर्षोलकेन चोपमीयन्ते । १४५ माधुर्यमासु संवेगभावस्य । १४६ अभव्यानां तन्नास्तीति ते नलादिकल्पाः । १४७ अष्टासु दृष्टिषु अष्टानां योगाङ्गानां योजना, अष्टानां दोषाणां निरासः, अष्टानां च गुणानां समुद्भवः ।। १४८ प्रथमायां यमो योगाङ्गम्, खेदो निरस्तदोषः, अद्वेषस्तु गुणोऽस्ति । १४९ द्वितीयायां नियमो योगाङ्गम्, उद्वेगो निरस्तदोषः, जिज्ञासा च गुणोऽस्ति । १५० तृतीयायाम् आसनानि योगाङ्गम, क्षेपो निरस्तदोषः, शुश्रूषा च गुणोऽस्ति । १५१ चतुर्थी प्राणायामो योगाङ्गम्, उत्थानं निरस्तदोषः, श्रवणं च गुणोऽस्ति ।

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131