Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 117
________________ परिशिष्ट-१ पदार्थसंकलन २२१ योगावतारद्वात्रिंशिका १ जेनेतरयोगस्य जैने समवतारोऽभिप्रेतः । २ तदर्थं प्रथमं तद्योगनिरूपणम् । ३ योगः द्विधा । संप्रज्ञातः, असंप्रज्ञातश्च । ५ यत्र भाव्यस्य (=विषयस्य) स्वरुपं संशयविपर्ययानध्यवसायरहितत्वेन प्रज्ञायते स संप्रज्ञातो योगः । ६ स चतुर्विधः । सवितर्कः, सविचारः, सानन्दः, सास्मितश्च । ८ पञ्चभूतेषु, पञ्चेन्द्रियेषु च विषयेषु पूर्वापरार्थानुसंधानविरहात् शब्दार्थोल्लेखवैधुर्याच्च या भावना प्रवर्तते सा निवितर्क: समाधिः । १० रजस्तमसोर्लेशेनानुविद्धं मनो यदा भाव्यते तदा भावनाविषयस्य सुखस्य, तद्रूप सत्त्वस्य उद्रेकाद, चिच्छक्तेश्च गुणभावाद् सानन्दः समाधिर्भवति । ११ एतत्समाधिवन्तो विदेहा भण्यन्ते । १२ तेषां देहाहंकारो नास्ति । १३ बहिर्विषयावेशस्य निवृत्तिश्च वर्तते । १४ ते च प्रधानस्य पुरुषतत्त्वस्य आविर्भावकाः । १५ रजस्तमोलेशेनापि अनाक्रान्तं सत्त्वं यत्र भाव्यते स सास्मितः समाधिः । १६ अत्र चिच्छक्ति: मुख्या, सत्त्वं गौणम् । १७ शुद्धसत्त्वं न्यग्भवति, चितिशक्तिश्च समुदेति, सत्तामात्रावशेषा च वर्तते तेन सास्मितात्वम् । १८ अहंकारः अस्मिता चेति भिन्नं तत्त्वम् । १९ अन्तःकरणं यदाऽहम् इत्युल्लेखेन विषयं संवेदयति सोऽयमहंकारः । २० अन्तर्मुखीभूतं चित्तं प्रकृतिलीनं सद्, निजसत्तामेव संवेदयति सा अस्मिता । २१ सास्मितसमाधौ बद्धरागाः परमात्मानवेक्षिणो हि चित्ते प्रकृतौ लयंगते प्रकृतिलया उच्यन्ते । २२ अत्र समापत्तित्रयमपि संयोज्यम् । २३ गृहीत-समापत्तिः प्रथमा । २२२ योगदृष्टिसंग्रह २४ सास्मितसमाधिपर्यन्ते परं पुरुषं ज्ञात्वा भावनायां विवेकख्यातिर्यदा भवति तदा गृहीतृसमापत्तिः । २५ सानन्दसमाधिपर्यन्ते तद्वदेव ग्रहणसमापत्तिः । २६ निविचारसमाधिपर्यन्ते तु तद्वदेव ग्राह्यसमापत्तिः । २७ वस्तुतस्तु ग्राह्य-ग्रहणगृहीतृक्रमेण समापत्तिर्भवति । २८ गाह्यस्य, ग्रहणस्य च भावनां विना न गृहीतः केवलस्य भावना संभवति । २९ निर्मलं स्फटिकं यस्य संपर्के याति तस्य तत्स्थमिव, तदेकाग्रमिव, तदञ्जनमिव तन्मयं भवति । तदेवं चित्तं भाव्यमानविषयेन यदैकरागं भवति तदा समापत्तिः प्रसज्यते । ३० चित्तस्य निर्मलत्वं भावनीयवस्तुषु ताप्यमापादयति । ३१ समापत्तिश्चतुर्भेदा । ३२ शब्दतः, अर्थतः, ज्ञानतः विकल्पतश्च ॥ ३३ तत्र शब्दः श्रोत्रेन्द्रिग्राह्यः प्रसिद्धः । ३४ शब्दैरेवार्थप्रतिभासं जात्यादिज्ञानम् । ३५ शब्दप्रतिपाद्यम्, अर्थनिर्भासमानं ज्ञानम् । ३६ सत्त्वप्रधाना बुद्धिवृत्तिः विकल्पः । ३७ अयं शब्दज्ञानानुपाती वस्तुशून्यश्चार्थः । ३८ एते यत्र संकीर्णा अवभासन्ते परस्पराध्यासेन, सा चतुर्विधा सवितर्का समापत्तिः । ३९ स्थूलभूतादिविषया सवितर्का । ४० सूक्ष्मतन्मात्रेन्द्रियादिकमर्थं शब्दार्थविकल्पसहितत्वेन देशकालधर्मावच्छेदेन च गृहंती सविचारा । ४१ केवलं धर्मितया गृहंती निर्विचारा । ४२ गुणानां परिणामे चत्वारिं पर्वाणि भवन्ति । ४३ विशिष्टलिङ्ग, तच्च भूतानि । ४३ अविशिष्यलिङ्गं तच्च तन्मात्रेन्द्रियाणि । ४४ लिङ्गमात्रे, तच्च बुद्धिः । ४५ अलिङ्ग, तच्च प्रधानम् । ४६ एतच्चतुष्टयम्, अलिङ्गपर्यन्तम् पर्व सूक्ष्मविषयत्वेन सिद्धम् । ४७ निर्विचारो समाधिः सूक्ष्मविषयो भवतीति तात्पर्यम् ।

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131