Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
परिशिष्ट- १ पदार्थसंकलन
९२ वृत्तिसंक्षयस्तु स्थिरता योगस्य ।
९३ मनोगुप्तिस्त्रिधा ।
९४ कल्पनाजालविमुक्तं मनः प्रथमा ।
९५ समतायामवस्थितं मनो द्वितीया ।
९६ आत्मभावनिर्लीनं मनः तृतीया ।
९७ समितिगुप्तिविस्तर एव योगः ।
९८ तेन वचनकायगुप्तियुगलमपि योगेऽवतीर्णम् । ९९ समितिगुप्तिविहीनो न कोऽपि योगः ।
१०० अध्यात्मादियोग उपायः, वृत्तिसंक्षयस्तु योगः ।
१०१ एवं च पञ्चमगुणस्थानाद् अर्वाग् उपायरूपो योगः ।
१०२ पञ्चमात् पुनः सानुबन्धा योगप्रवृत्तिः ।
१
२
३
४
५
६
७
योगविवेकद्वात्रिंशिका
८
अध्यात्मादिको मुख्यो योगः ।
अधुना तदवान्तरभेदविचारः ।
त्रिविधो योगः ।
इच्छायोगः शास्त्रयोगः सामर्थ्ययोगश्च ।
बहुकालव्यापिनि प्रधाने कर्मण्यादृते प्रमादिन एकं किञ्चित् कर्म अविकलमपि यदि स्यात्तथापि तद् इच्छायोगे समाविशति ।
विकथादिप्रमादविकलस्य तीव्र श्रद्धावतः तीव्रबोधतश्च कालादिभिरविकलं यदनुष्ठानं स शास्त्रयोगः ।
यदवाप्तिर्मोक्षशास्त्रदर्शितदिशा भवति, प्रकृष्टवीर्यवत्त्वात्, यत्पुनः शास्त्रवर्णनगोचरं नास्ति तदनुष्ठानं सामर्थ्ययोगः ।
९
यदि सामर्थ्ययोगः शास्त्रवचनवर्ण्यः स्यात् तदा तदवगत्या सर्वज्ञत्वमेव लभ्येत । १० सर्वसिद्धिकारणज्ञानं शास्त्रैरेव भवति इति मतं चेत् तदा तज्ज्ञानस्य उत्कृष्टत्वमपेक्षितम्, तदर्थं च उत्कृष्टचारित्रमपेक्षितम् ।
२१७
धर्मकरणेच्छावतः श्रुताभ्यासवतश्च विकथादिप्रमादवशाद् यः कालादिविकलो धर्मः स इच्छायोगः ।
२१८
११ सर्वज्ञता व्याप्यधर्मः सर्वसिद्धिउपायस्तु व्यापको धर्मः ।
१२ वस्तुतस्तु सामर्थ्ययोगः प्रातिभज्ञानगम्यः ।
१३ प्रातिभं हि ज्ञानं न श्रुतज्ञानं तेन सामर्थ्यस्य श्रुतगम्यत्वं नापद्यते ।
१४ क्षपक श्रेणिगतस्य धर्मव्यापारस्य स्वानुभवमात्रवेद्यमिदं प्रातिभं केवलोदयपूर्व
कालीनम् ।
१५ इदं न क्षायिकमिति श्रुतमित्यपि नास्ति ।
१६ केवलज्ञानपूर्ववर्तित्वादेवास्य श्रुतभिन्नत्वम् ।
१७ अत्रारूणदृष्टान्तः ।
१८ अरूणोदयो न रात्रिर्नापि दिवसः । तथेदं न श्रुतं नापि केवलमिति ।
१९
इदं तत्त्वतः संव्यवहार्यं नास्ति, तेन श्रुतं नास्ति ।
२०
श्रुतात् परवर्ति केवलाच्च पूर्ववर्ति ज्ञानमिदम् । २१ पातंजलादयो ज्ञानमेनं ऋतम्भरादिनाम्ना व्यवहरन्ति ।
२२ प्रातिभस्य सामर्थ्ययोगगमकत्वं सर्वैः स्वीकृतम् ।
२३ सोऽयं सामर्थ्ययोगेः द्वेधा ।
२४ धर्मसंन्यासः योगसंन्यासश्च ।
२५ मोहनीयादिक्षयोपशमनिवृत्ताः क्षान्त्यादयो धर्माः ।
२६ कायोत्सर्गादिकर्माणि तु योगाः ।
२७
२८
योगदृष्टिसंग्रह
धर्मसंन्यासो द्वितीयापूर्वकरणे भवति तात्त्विकः ।
क्षपक श्रेणिगतयोगिनः क्षायोपशमिकधर्माणां निर्वृत्या क्षायिको भावोऽवाप्यते । स एव धर्मसंन्यासः ।
अतात्त्विकस्तु धर्मसंन्यासः प्रव्रज्याकालेऽपि ।
असत्प्रवृत्तिलक्षणस्य धर्मस्य परिहाराद् ।
२८
२९
३० भवविरक्तिमत्त्वादिदमुपपद्यते ।
३१ योगसंन्यासः शैलेशी अवस्थाप्रान्ते कायादियोगानां सर्वथापरिहाररूपः ।
३२ योगानामभावादेव अयोगिगुणस्थानमिदम् ।
३३
३४ तात्त्विकोऽतात्त्विकश्च ।
३५ यो योगो न तात्त्विकः स तदाभासः (अथं य द्वेधा तद्योग्यतारूप: तदाभासरूपश्च ।)
पुनरपि योगस्य भेदत्रयम् ।

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131