Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 118
________________ २२४ योगदृष्टिसंग्रह परिशिष्ट-१ पदार्थसंकलन २२३ ४८ निविचारतायाः प्रकर्षे सिद्धे शुद्धसत्त्वम्, अध्यात्म प्रसीदति । ४९ अत्र क्लेशवासनाविरहिता स्थितिः । ५० अध्यात्मप्रसादाच्च ऋतंभरा प्रज्ञा लभ्यते । ५१ ऋतंभरा पुनः आगमानुमानाभ्यां सविशेषविषयेति अधिका । ५२ ऋतंभरातः तत्त्वसंस्कारो जायते । ५३ स च संस्कार: स्वेतराणां व्युत्थानजानां समाधिजनितानां च संस्काराणां बाधकः । ५४ सर्वासां चित्तवृत्तीनां स्वकारणे प्रविलयाद् असंप्रज्ञातः समाधिः । ५५ अत्र हि केवलं संस्काराणामुदयः । ५६ अत्र वितर्कादिचिन्तात्यागो भवति । ५७ तस्य च पुनःपुनः अभ्यासो भवति । ५८ निरन्तराभ्यासाच्चासम्प्रज्ञातः समाधिः । ५९ तस्माच्च कैवल्यलाभः । ६० एषो जैनेतरयोगसारः । ६१ समवतारस्तस्यैवं भवति । ६२ अध्यात्मभावनाध्यानेषु सम्प्रज्ञातः । ६३ यथाप्रकर्ष लक्षणसिद्धेः । ६४ तात्त्विकी समापत्तिरपि, अध्यात्मादि-योगः । ६५ सा आत्मनः भावनाविषयत्वं विना न घटते । ६६ जीवात्मनि परमात्मसमापत्तिः, परमात्मत्वेन अभेदानुभवात्मकध्यानाद्, जीवात्मनः अन्तरङ्गभूतायाः स्वशक्त्याः तथापरिणमनाद् । ६७ परमात्मशक्तिरन्तर्वतिनी ध्याने प्रकटीभवतीति भावः । ६६ बाह्यात्मा चान्तरात्मा च परमात्मा चेति त्रयम् । ६९ प्रथमः कायचेष्टाजनकप्रयत्नवान् अहंप्रतीतिगोचरः । ७० ध्येयश्च द्वितीयः । ७१ ध्यानभाव्यस्तृतीयः । ७२ मिथो भिन्नाइमे । ७३ एको ध्याता, एको ध्येयः । ७४ तस्माद् ध्यानपरिणामः । ७५ तेन तात्त्विकमतात्त्विकं च एकत्वभानम् । ७६ तत्रातात्त्विकपरिणामनिर्वृत्तिः, तात्त्विकपरिणामस्य लाभश्च समापत्तिः । ७७ अन्येषां मतम् । ७८ मिथ्यादृष्टयो मिश्रगुणस्थानवर्तिनो बाह्यात्मानः । ७९ सम्यग्दृष्टयः क्षीणमोहगुणस्थानस्था अन्तरात्मानः । ८० केवलिनश्च अयोगिगुणस्थानस्थिताः परमात्मानः । ८१ बाह्यात्मदशायां भाविकालसम्बन्धेन शेषोभयसम्बन्धः । ८२ अन्तरात्मदशायां भाविकालसम्बन्धेन परमात्मनः, भूतपूर्वकत्वेन च बाह्यात्मनः सम्बन्धः । ८३ परमात्मदशायां तु बाह्यात्मान्तरात्मनोः भूतपूर्वकत्वेनैव सम्बन्धः । ८४ आत्मेतरस्य विषयस्य समापत्तिरिति भावस्योत्पत्तिः । ८५ आत्मनः समापत्तिरिति परमात्मदलस्य द्रव्यस्य तात्त्विकः सहजशुद्धश्च भावः । ८६ तीर्थंकरमात्मव्यतिरिक्तं यो स्वात्मनः शुद्धस्वभाव-केवलज्ञानादिपर्यायैजानाति स स्वात्मानमेव जानाति इति यदुक्तं तद् ध्यानद्वारा समापत्तिमेव दर्शयति । ८७ वृत्तिसंक्षययोगश्च असंप्रज्ञातसमाधिः । ८८ सयोगिनोऽयोगिनो वा केवलिनोः मनोविकल्पपरिस्पन्दरुपाणां वृत्तीनां क्षयः । ८९ वृत्तिसंक्षयाच्च पापानामकरणनियमो नियतः । ९० ग्रन्थिभेदे सति यथा सततिकोटिकोट्यादिस्थितिकं कर्म न बध्यते तथा वृत्तिसंक्षये नरकादिहेतुकं कर्म न बध्यते । ९२ तत्त्वज्ञानेन दु:खानामत्यन्तविमुक्तिरिति पापाकरणनियमस्यानवकाश इति न वाच्यम् । ९३ तत्वज्ञानेन मिथ्याज्ञाननाशः, तन्नाशादेव च पापानामकरणम् । ९४ पापानामकरणेन च वृत्तिसंक्षयः । ९५ एवं विविधा योगाः । ९६ तेषां कारणं क्षयोपशमभेदः । ९७ एकमेव दृश्यम्, समेघायां रात्रौ भिन्नं दृश्यते, निर्मघायां च भिन्नम् । समेघे दिवसे भिन्नं दृश्यते, निर्मेघे दिने च भिन्नम् । सग्रहस्य भिन्नं दृश्यते, निर्ग्रहस्यापि भिन्नम् । चित्तविभ्रमवतो भिन्नं दृश्यते, तद्विकलस्यापि भिन्नम् । अर्भकस्य भिन्नं दृश्यते, अनर्भकर्लस्यापि भिन्नम् । सोऽयं भेदो न असहजः । ९८ एवमेव विविधभूमिकासु योगदर्शनानां भेद इति प्रतिपत्तव्यम् । ९९ मित्रादिषु दर्शनभेदोऽयं भवति । स्थिरादिषु स नास्ति ।

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131