Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 88
________________ सदृष्टिद्वात्रिंशिका १६३ १६४ योगदृष्टिसंग्रह धर्मप्रभवत्वाद्भोगो न दुःखदो भविष्यतीत्यन्ताह-यद् यस्मात् पुण्यपापयोः द्वयोहि फलम् अनात्मधर्मत्वात् तुल्यं, व्यवहारतः सुशीलत्वकुशीलत्वाभ्यां द्वयोविभेदेऽपि निश्चयतः संसारप्रवेशकत्वेन कुशीलत्वाविशेषात् ॥५॥ इति (पातं. २-५४) कीदृशोऽयमित्याह-एतदायत्तताफलः इन्द्रियवशीकरणैकफलः । अभ्यस्यमाने हि प्रत्याहारे तथायत्तानीन्द्रियाणि भवन्ति यथा बाह्यविषयाभिमुखतां नीयमानान्यपि न यान्तीति । तदुक्तं-"ततः परमा वश्यतेन्द्रियाणामिति" (पातं. २-५५) ॥२॥ अतो ग्रन्थिविभेदेन विवेकोपेतचेतसाम् । त्रपायै भवचेष्टा स्याद् बालक्रीडोपमाऽखिला ॥३॥ धर्मादपि भवन् भोगः प्रायोऽनर्थाय देहिनाम् । चन्दनादपि सम्भूतो दहत्येव हुताशनः ॥६॥ अत इति । अतः प्रत्याहारात् । ग्रन्थिविभेदेन विवेकोपेतचेतसां भवचेष्टाऽखिला=चक्रादिसुखरूपापि बालक्रीडोपमा बालधूलिगृहक्रीडातुल्या, प्रकृत्यसुन्दरत्वास्थिरत्वाभ्यां पायै स्यात् ॥३॥ तत्त्वमत्र परं ज्योतिस्विभावकमूर्तिकम् । विकल्पतल्पमारूढः शेषः पुनरुपप्लवः ॥४॥ धर्मादिति । धर्मादपि भवन् भोगो देवलोकादौ । प्रायो बाहुल्येन । अनर्थाय देहिनां तथाप्रमादविधानात् । प्रायोग्रहणं शुद्धधर्माक्षेपिभोगनिरासार्थं, तस्य प्रमादबीजत्वायोगात्, अत्यन्तानवद्यतीर्थकरादिफलशुद्धेः पुण्यशुद्धयादावागमाभिनिवेशाद्धर्मसारचित्तोपपत्तेरिति । सामान्यतो दृष्टान्तमाह-चन्दनादपि तथाशीतप्रकृतेः सम्भूतो दहत्येव हुताशनः । दहनस्य दाहस्वभावापरावृत्तेः । प्राय एतदेवं, न दहत्यपि कश्चित्सत्यमन्त्राभिसंस्कृताद्दाहासिद्धेः सकललोकसिद्धत्वादिति वदन्ति । युक्तं चैतनिश्चयतो येनांशेन ज्ञानादिकं तेनांशेनाऽबन्धनमेव, येन च प्रमादादिकं तेन बन्धनमेव । सम्यक्त्वादीनां तीर्थकरनामकर्मादिबन्धकत्वस्यापि तदविनाभूतयोगकषायगतस्योपचारेणैव सम्भवात् । इन्द्रियार्थसम्बन्धादिकं तूदासीनमेवेत्यन्यत्र विस्तरः ॥६॥ तत्त्वमिति । अतः स्थिरायां ज्ञस्वभाव एका मूर्तिर्यस्य तत्तथा ज्ञानादिगुणभेदस्यापि व्यावहारिकत्वात् । परंज्योतिः आत्मरूपं तत्त्वं परमार्थसत् । शेषः पुनर्भवप्रपञ्चो विकल्पलक्षणं तल्पमारूढ उपप्लवो भ्रमविषयः परिदृश्यमानरूपस्याभावात् ॥४॥ भवभोगिफणाभोगो भोगोऽस्यामवभासते । फलं ह्यनात्मधर्मत्वात्तुल्यं यत्पुण्यपापयोः ॥५॥ स्कन्धात्स्कन्धान्तरारोपे भारस्येव न तात्त्विकी । इच्छाया विरतिभॊगात्तत्संस्कारानतिक्रमात् ॥७॥ स्कन्धादिति । स्कन्धात् स्कन्धान्तरारोपे भारस्येव भोगादिच्छाया विरतिर्न तात्त्विकी, तत्संस्कारस्य कर्मबन्धजनितानिष्टभोगसंस्कारस्यानतिक्रमात् । तदतिक्रमो हि प्रतिपक्षभावनया तत्तनूकरणेन स्यात्, न तु विच्छेदेन प्रसुप्ततामात्रेण वेति । इत्थं भोगासारताविभावनेन स्थिरायां स्थैर्यमुपजायते । सत्यामस्यामपरैरपि योगाचार्यैरलौल्यादयो गुणाः प्रोच्यन्ते । यथोक्तं भवेति । अस्यां स्थिरायां । भोग: इन्द्रियार्थसुखसम्बन्धः । भवभोगिफणाभोगः संसारसर्पफणाटोपोऽवभासते, बहुदु:खहेतुत्वात् । नानुपहत्य भूतानि भोगः सम्भवति, ततश्च पापं, ततो दारुणदुःखपरम्परेति । (शङ्का)

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131