Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 93
________________ योगदृष्टिसंग्रह सदृष्टिद्वात्रिंशिका १७३ हि सांपरायिककर्मक्षयः फलम्, इदानीं तु भवोपग्राहिकर्मक्षय इति ॥२९॥ कृतकृत्यो यथा रत्ननियोगाद्रलविद्भवेत् । तथायं धर्मसंन्यासविनियोगान्महामुनिः ॥३०॥ कृतकृत्य इति । यथा रत्नस्य नियोगात्-शुद्धदृष्ट्या यथेच्छव्यापाराद् वणिग् (रत्नविद्=) रत्नवाणिज्यकारी कृतकृत्यो भवेत् । तथायम् अधिकृतदृष्टिस्थो धर्मसंन्यासविनियोगात् द्वितीयापूर्वकरणे महामुनिः कृतकृत्यो भवति ॥३०॥ केवलश्रियमासाद्य सर्वलब्धिफलान्विताम् । परम्परार्थं सम्पाद्य ततो योगान्तमश्नुते ॥३१॥ केवलेति । केवलश्रियं केवलज्ञानलक्ष्मीम् आसाद्य प्राप्य सर्वलब्धि-फलान्वितां सौत्सुक्यनिवृत्त्या परम्परार्थं यथाभव्यं सम्यक्त्वादिलक्षणं सम्पाद्य ततो योगान्तं योगपर्यन्तम् अश्नुते प्राप्नोति ॥३१॥ तत्रायोगाद्योगमुख्याद्भवोपग्राहिकर्मणाम् । क्षयं कृत्वा प्रयात्युच्चैः परमानन्दमन्दिरम् ॥३२॥ तत्रेति । तत्र-योगान्ते शैलेश्यवस्थायां । अयोगाद्=अव्यापारात् योगमुख्यात् भवोपग्राहिणां कर्मणां क्षयं कृत्वा । उच्चैर्लोकान्ते परमानन्दमन्दिरं प्रयाति ॥३२॥ ॥ इति सदृष्टिद्वात्रिंशिका ॥ આઠ દૃષ્ટિની સઝાય

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131