Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 89
________________ सदृष्टिद्वात्रिंशिका योगदृष्टिसंग्रह अस्यामाक्षेपकज्ञानान्न भोगा भवहेतवः । श्रुतधर्मे मनोयोगाच्चेष्टाशुद्धेर्योंदितम् ॥१०॥ अलौल्यमारोग्यमनिष्ठरत्वं, गन्धः शुभो मूत्रपुरीषमल्पम् । कान्तिः प्रसादः स्वरसौम्यता च, योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥ मैत्र्यादियुक्तं विषयेषु चेतः, प्रभाववद्धर्यसमन्वितं च । द्वन्द्वैरघृष्यत्वमभीष्टलाभो, जनप्रियत्वं च तथा परं स्यात् ॥ दोषव्यपाय: परमा च तृप्तिरौचित्ययोगः समता च गुर्वी । वैरादिनाशोऽथ ऋतम्भराधीनिष्पन्नयोगस्य तु चिह्नमेतत् ॥ (स्कंदपुराणे) इति । इहाप्येतदकृत्रिमं गुणजातमित एवारभ्य विज्ञेयम् ॥७॥ अस्यामिति अस्यां कान्तायां । कायचेष्टाया अन्यपरत्वेऽपि । श्रुतधर्मे आगमे । मनोयोगा=नित्यं मनःसम्बन्धात् । आक्षेपकज्ञानात् नित्यप्रतिबन्धरूपचित्ताक्षेपकारिज्ञानात् । न भोगा=इन्द्रियार्थसम्बन्धा भवहेतवो भवन्ति । चेष्टाया:=प्रवृत्तेः शुद्धेः मनोनैर्मल्यात् । यथोदितं हरिभद्रसूरिभियोगदृष्टिसमुच्चये (श्लो. १६५) ॥१०॥ मायाम्भस्तत्त्वतः पश्यन्ननुद्विग्नस्ततो द्रुतम् । तन्मध्येन प्रयात्येव यथा व्याघातवजितः ॥११॥ धारणा प्रीतयेऽन्येषां कान्तायां नित्यदर्शनम् । नान्यमुत् स्थिरभावेन मीमांसा च हितोदया ॥८॥ धारणेति । कान्तायाम् उक्तरीत्या नित्यदर्शनम् । तथा धारणा वक्ष्यमाणलक्षणा । अन्येषां प्रीतये भवति । तथा स्थिरभावेन नान्यमुत्= नान्यत्र हर्षः तदा तत्प्रतिभासाभावात् । हितोदया सम्यग्ज्ञानफला मीमांसा च सद्विचारात्मिका भवति ॥८॥ मायाम्भ इति । मायाम्भस्तत्त्वतो मायाम्भस्त्वेनैव पश्यन् अनुद्विग्नः । ततो मायाम्भसो द्रुतं शीघ्रम् । तन्मध्येन मायाम्भोमध्येन प्रयात्येव, न न प्रयाति । यथेत्युदाहरणोपन्यासार्थः । व्याघातवर्जितो मायाम्भसस्तत्त्वेन व्याघातासमर्थत्वात् ॥११॥ भोगान् स्वरूपतः पश्यंस्तथा मायोदकोपमान् । भुञ्जानोऽपि ह्यसङ्गः सन् प्रयात्येव परं पदम् ॥१२॥ देशबन्धो हि चित्तस्य धारणा तत्र सुस्थितः । प्रियो भवति भूतानां धर्मैकाग्रमनास्तथा ॥९॥ देशेति । देशे नाभिचक्रनासाग्रादौ बन्धो विषयान्तरपरिहारेण स्थिरीकरणात्मा हि चित्तस्य धारणा । यदाह-"देशबन्धश्चित्तस्य धारणा" (पातं. ३-१) तत्र धारणायाम् । सुस्थितः मैत्र्यादिचित्तपरिक्रमवासितान्त:करणतया, स्वभ्यस्तयमनियमतया, जितासनत्वेन, परिहतप्राणविक्षेपतया, प्रत्याहृतेन्द्रियग्रामत्वेन ऋजुकायतया, जितद्वन्द्वतया, सम्प्रज्ञाताभ्यासाविष्टतया च सम्यग्व्यवस्थितः । भूतानां जगल्लोकानां प्रियो भवति । तथा धर्मैकाग्रमना भवति ॥९॥ भोगानिति । भोगान इन्द्रियार्थसम्बन्धान् स्वरूपतः पश्यन् समारोपमन्तरेण । तथा तेनैव प्रकारेण । मायोदकोपमान् असारान् भुञ्जानोऽपि हि कर्माक्षिप्तान् असङ्गः सन् प्रयात्येव परं पदं तथाऽनभिष्वङ्गतयाऽपरवशभावात् ॥१२॥ भोगतत्त्वस्य तु पुनर्न भवोदधिलङ्घनम् । मायोदकदृढावेशस्तेन यातीह कः पथा ? ॥१३॥

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131