________________
सदृष्टिद्वात्रिंशिका
१६३
१६४
योगदृष्टिसंग्रह धर्मप्रभवत्वाद्भोगो न दुःखदो भविष्यतीत्यन्ताह-यद् यस्मात् पुण्यपापयोः द्वयोहि फलम् अनात्मधर्मत्वात् तुल्यं, व्यवहारतः सुशीलत्वकुशीलत्वाभ्यां द्वयोविभेदेऽपि निश्चयतः संसारप्रवेशकत्वेन कुशीलत्वाविशेषात् ॥५॥
इति (पातं. २-५४)
कीदृशोऽयमित्याह-एतदायत्तताफलः इन्द्रियवशीकरणैकफलः । अभ्यस्यमाने हि प्रत्याहारे तथायत्तानीन्द्रियाणि भवन्ति यथा बाह्यविषयाभिमुखतां नीयमानान्यपि न यान्तीति । तदुक्तं-"ततः परमा वश्यतेन्द्रियाणामिति" (पातं. २-५५) ॥२॥
अतो ग्रन्थिविभेदेन विवेकोपेतचेतसाम् । त्रपायै भवचेष्टा स्याद् बालक्रीडोपमाऽखिला ॥३॥
धर्मादपि भवन् भोगः प्रायोऽनर्थाय देहिनाम् । चन्दनादपि सम्भूतो दहत्येव हुताशनः ॥६॥
अत इति । अतः प्रत्याहारात् । ग्रन्थिविभेदेन विवेकोपेतचेतसां भवचेष्टाऽखिला=चक्रादिसुखरूपापि बालक्रीडोपमा बालधूलिगृहक्रीडातुल्या, प्रकृत्यसुन्दरत्वास्थिरत्वाभ्यां पायै स्यात् ॥३॥
तत्त्वमत्र परं ज्योतिस्विभावकमूर्तिकम् । विकल्पतल्पमारूढः शेषः पुनरुपप्लवः ॥४॥
धर्मादिति । धर्मादपि भवन् भोगो देवलोकादौ । प्रायो बाहुल्येन । अनर्थाय देहिनां तथाप्रमादविधानात् । प्रायोग्रहणं शुद्धधर्माक्षेपिभोगनिरासार्थं, तस्य प्रमादबीजत्वायोगात्, अत्यन्तानवद्यतीर्थकरादिफलशुद्धेः पुण्यशुद्धयादावागमाभिनिवेशाद्धर्मसारचित्तोपपत्तेरिति ।
सामान्यतो दृष्टान्तमाह-चन्दनादपि तथाशीतप्रकृतेः सम्भूतो दहत्येव हुताशनः । दहनस्य दाहस्वभावापरावृत्तेः । प्राय एतदेवं, न दहत्यपि कश्चित्सत्यमन्त्राभिसंस्कृताद्दाहासिद्धेः सकललोकसिद्धत्वादिति वदन्ति । युक्तं चैतनिश्चयतो येनांशेन ज्ञानादिकं तेनांशेनाऽबन्धनमेव, येन च प्रमादादिकं तेन बन्धनमेव । सम्यक्त्वादीनां तीर्थकरनामकर्मादिबन्धकत्वस्यापि तदविनाभूतयोगकषायगतस्योपचारेणैव सम्भवात् । इन्द्रियार्थसम्बन्धादिकं तूदासीनमेवेत्यन्यत्र विस्तरः ॥६॥
तत्त्वमिति । अतः स्थिरायां ज्ञस्वभाव एका मूर्तिर्यस्य तत्तथा ज्ञानादिगुणभेदस्यापि व्यावहारिकत्वात् । परंज्योतिः आत्मरूपं तत्त्वं परमार्थसत् । शेषः पुनर्भवप्रपञ्चो विकल्पलक्षणं तल्पमारूढ उपप्लवो भ्रमविषयः परिदृश्यमानरूपस्याभावात् ॥४॥
भवभोगिफणाभोगो भोगोऽस्यामवभासते । फलं ह्यनात्मधर्मत्वात्तुल्यं यत्पुण्यपापयोः ॥५॥
स्कन्धात्स्कन्धान्तरारोपे भारस्येव न तात्त्विकी । इच्छाया विरतिभॊगात्तत्संस्कारानतिक्रमात् ॥७॥
स्कन्धादिति । स्कन्धात् स्कन्धान्तरारोपे भारस्येव भोगादिच्छाया विरतिर्न तात्त्विकी, तत्संस्कारस्य कर्मबन्धजनितानिष्टभोगसंस्कारस्यानतिक्रमात् । तदतिक्रमो हि प्रतिपक्षभावनया तत्तनूकरणेन स्यात्, न तु विच्छेदेन प्रसुप्ततामात्रेण वेति । इत्थं भोगासारताविभावनेन स्थिरायां स्थैर्यमुपजायते । सत्यामस्यामपरैरपि योगाचार्यैरलौल्यादयो गुणाः प्रोच्यन्ते । यथोक्तं
भवेति । अस्यां स्थिरायां । भोग: इन्द्रियार्थसुखसम्बन्धः । भवभोगिफणाभोगः संसारसर्पफणाटोपोऽवभासते, बहुदु:खहेतुत्वात् । नानुपहत्य भूतानि भोगः सम्भवति, ततश्च पापं, ततो दारुणदुःखपरम्परेति । (शङ्का)