________________
कुतर्कग्रहनिवृत्तिद्वात्रिंशिका
१६१ दोषव्युत्पत्तिकैः अन्यैः अन्यथैव-असिद्धत्वादिनैव उपपाद्यते ॥३०॥
अभ्युच्चयमाहज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः ॥३१॥
सदृष्टिद्वात्रिंशिका
ज्ञायेरन्निति । हेतुवादेन अनुमानवादेन । यदि अतीन्द्रिया धर्मादयः पदार्था ज्ञायेरन् । तदा एतावता कालेन प्राज्ञैः तार्किकैः, तेषु अतीन्द्रियेषु पदार्थेषु निश्चयः कृतः स्यात्, उत्तरोत्तरतर्कोपचयात् ॥३१॥
तत्कुतर्कग्रहस्त्याज्यो ददता दृष्टिमागमे । प्रायो धर्मा अपि त्याज्याः परमानन्दसम्पदि ॥३२॥
अनन्तरमवेद्यसंवेद्यपदजयात् कुतर्कनिवृत्तिर्भवति, सैव च विधेयेत्युक्तं, अथ तत्फलीभूताः सदृष्टिविवेचयन्नाह
प्रत्याहारः स्थिरायां स्याद्दर्शनं नित्यमभ्रमम् । तथा निरतिचारायां सूक्ष्मबोधसमन्वितम् ॥१॥
प्रत्याहार इति । स्थिरायां दृष्टौ प्रत्याहारः स्याद् वक्ष्यमाणलक्षणः । तथा निरतिचारायां दर्शनं नित्यम् अप्रतिपाति । सातिचारायां तु प्रक्षीणनयनपटलोपद्रवस्य तदुत्कोपाद्यनवबोधकल्पमपि भवति, तथातिचारभावात्, रत्नप्रभायामिव धूल्यादेरुपद्रवः । अभ्रम भ्रमरहितम् । तथा सूक्ष्मबोधेन समन्वितम् ॥१॥
तदिति । तत् तस्मात् कुतर्कग्रहः शुष्कतर्काभिनिवेशः त्याज्यो दृष्टिमागमे ददता । परमानन्दसम्पदि=मोक्षसुखसम्पत्तौ प्रायौ धर्मा अपि= क्षायोपशमिकाः क्षान्त्यादयः त्याज्याः । ततः कुतर्कग्रहः सुतरां त्याज्य एव । क्वचिदपि ग्रहस्यासङ्गानुष्ठानप्रतिपन्थित्वेनाश्रेयस्त्वादिति भावः । क्षायिकव्यवच्छेदार्थं प्रायोग्रहणं । तदिदमुक्तं
न चैतदेवं यत्तस्माच्छुष्कतर्कग्रहो महान् । मिथ्याभिमानहेतुत्वात्त्याज्य एव मुमुक्षुभिः ।। (यो. इ. स. १४७) ग्रहः सर्वत्र तत्त्वेन मुमुक्षूणामसङ्गतः । मुक्तौ धर्मा अपि प्रायस्त्यक्तव्याः किमनेन तत् ? ॥ इति ।
(यो. इ. स. १४८) ॥ कुतर्कग्रहनिवृत्तिद्वात्रिंशिका ॥
विषयासम्प्रयोगेऽन्तःस्वरूपानुकृतिः किल ।
प्रत्याहारो हृषीकाणामेतदायत्तताफलः ॥२॥
विषयेति । विषयाणां चक्षुरादिग्राह्याणां रूपादीनाम् असम्प्रयोगे तद्ग्रहणाभिमुख्यत्यागेन स्वरूपमात्रावस्थाने सति । अन्तःस्वरूपानकति:= चित्तनिरोधनिरोध्यतासम्पत्तिः किल । हृषीकाणां चक्षुरादीनामिन्द्रियाणां प्रत्याहारः । यत उक्तं
"स्वविषयासम्प्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः"