________________
कुतर्कग्रहनिवृत्तिद्वात्रिंशिका
संसाररोगभिषग्वराणां । चित्रा = नानाप्रकारा गीः शिष्यानुगुण्यतो=विनयाभिप्रायानुरोधात् । यथा वैद्या बालादीन् प्रति नैकमौषधमुपदिशन्ति, किन्तु यथायोग्यं विचित्रं, तथा कपिलादीनामपि कालान्तरापायभीरून् शिष्यानधिकृत्योपसर्जनीकृतपर्याया द्रव्यप्रधाना देशना, सुगतादीनां तु भोगास्थावतोऽधिकृत्योपसर्जनीकृत्यद्रव्या पर्यायप्रधाना देशनेति । न तु तेऽन्वयव्यतिरेकवस्तुवेदिनो न भवन्ति, सर्वज्ञत्वानुपपत्तेः । तदुक्तं
चित्रा तु देशनैतेषां स्याद्विनेयानुगुण्यतः । यस्मादेते महात्मानो भवव्याधिभिषग्वराः ॥ (यो. ह. स. १३४)
तयैव बीजाधानादेर्यथाभव्यमुपक्रिया । अचिन्त्यपुण्यसामर्थ्यादेकस्या वापि भेदतः ॥ २८ ॥
तयैवेति । तयैव = चित्रदेशनयैव । बीजाधानादेः =भवोद्वेगादिभावलक्षणात् । यथाभव्यं=भव्यसदृशं । उपक्रिया = उपकारो भवति । यदुक्तं
यस्य येन प्रकारेण बीजाधानादिसम्भवः ।
सानुबन्धो भवत्येते तथा तस्य जगुस्ततः ॥ ( यो. ह. स. १३५ )
१५९
एकस्या वा तीर्थकरदेशनाया अदः = अचिन्त्यपुण्यसामर्थ्याद् अनिर्वचनीयपरबोधाश्रयोपात्तकर्मविपाकाद् भेदतः = श्रोतृभेदेन विचित्रतया परिणमनाद् यथाभव्यमुपक्रिया भवतीति न देशनावैचित्र्यात्सर्वज्ञवैचित्र्यसिद्धिः । यदाह
एकापि देशनैतेषां यद्वा श्रोतृविभेदतः । अचिन्त्यपुण्यसामर्थ्यात्तथा चित्रावभासते ॥
यथाभव्यं च सर्वेषामुपकारोऽपि तत्कृतः । जायतेऽवन्ध्यताप्येवमस्याः सर्वत्र सुस्थिता ॥ (यो. ह. स. १३६-३७)
प्रकारान्तरमाह
१६०
चित्रा वा देशना तत्तन्नयैः कालादियोगतः । यन्मूला तत्प्रतिक्षेपोऽयुक्तो भावमजानतः ॥ २९॥
चित्रेति । वा अथवा । तत्तन्नयैः = द्रव्यास्तिकादिभिः । कालादियोगतो दुःषमादियोगमाश्रित्य । यन्मूला = यद्वचनानुसारिणी । चित्र=नानारूपा देशना कपिलादीनामृषीणां । तस्य= सर्वज्ञस्य प्रतिक्षेपः । भावं तत्तद्देशनानयाभिप्रायम् अजानतः अयुक्तः । आर्यापवादस्यानाभोगजस्यापि महापापनिबन्धनत्वात् । तदुक्तं
यद्वा तत्तन्नयापेक्षा तत्तत्कालादियोगतः । ऋषिभ्यो देशना चित्रा तन्मूलैषापि तत्त्वतः ॥ तदभिप्रायमज्ञात्वा न ततोऽर्वाग्दृशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः परः ॥ निशानाथप्रतिक्षेपो यथान्धानामसङ्गतः । तद्भेदपरिकल्पश्च तथैवार्वाग्दृशामयम् ॥
योगदृष्टिसंग्रह
न युज्यते प्रतिक्षेपः सामान्यस्यापि तत्सताम् । आर्यापवादस्तु पुनर्जिह्वाच्छेदाधिको मतः ॥
कुदृष्ट्यादि च नो सन्तो भाषन्ते प्रायशः क्वचित् । निश्चितं सारखच्चैव किन्तु सत्त्वार्थकृत्सदा ॥ (यो. ह. स. १३८-४२) तस्मात्सर्वज्ञवचनमनुसृत्यैव प्रवर्तनीयं न तु तद्विप्रतिपत्त्याऽनुमानाद्यास्थया स्थेयं, तदननुसारिणस्तस्याव्यवस्थितत्वादित्यत्र भर्तृहरिवचनमनुवदन्नाह
यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्य एवोपपद्यते ॥३०॥
यत्नेनेति । यत्नेन=असिद्धत्वादिदोषनिरासप्रयासेन अनुमितोऽप्यर्थः । कुशलैः=व्याप्तिग्रहादिदक्षैः अनुमातृभिः अभियुक्ततरैः अधिकव्याप्त्यादिगुण