________________
कुतर्कग्रहनिवृत्तिद्वात्रिंशिका
१५७
आदर इति । आदरो यत्नातिशय इष्टाप्तौ । करणे प्रीतिः = अभिष्वङ्गात्मिका । अविघ्नः=करण एवादृष्टसामर्थ्यादपायाभावः । सम्पदागमः=तत एव शुभभावपुण्यसिद्धेः । जिज्ञासा = इष्टादिगोचरा । तज्ज्ञसेवा च इष्टादिज्ञसेवा । चशब्दात्तदनुग्रहः । एतत् सदनुष्ठानलक्षणं तदनुबन्धसारत्वात् ॥२४॥
भवाय बुद्धिपूर्वाणि विपाकविरसत्वतः ।
कर्माणि ज्ञानपूर्वाणि श्रुतशक्त्या च मुक्तये ॥ २५॥
भवायेति । बुद्धिपूर्वाणि कर्माणि स्वकल्पनाप्राधान्याच्छास्त्रविवेकानादरात् । विपाकस्य विरसत्वतो भवाय = संसाराय भवन्ति । तदुक्तं
बुद्धिपूर्वाणि कर्माणि सर्वाण्येवेह देहिनाम् । संसारफलदान्येव विपाकविरसत्वतः ॥ ( यो. ह. स. १२४)
ज्ञानपूर्वाणि च तानि तथाविवेकसम्पत्तिजनितया श्रुतशक्त्या अमृतशक्तिकल्पया मुक्तये = निःश्रेयसाय । यदुक्तं
ज्ञानपूर्वाणि तान्येव मुक्त्यङ्गं कुलयोगिनाम् । श्रुतशक्तिसमावेशादनुबन्धफलत्वतः ॥ (यो. ह. स. १२५ )
असंमोहसमुत्थानि योगिनामाशु मुक्तये । भेदेऽपि तेषामेकोऽध्वा जलधौ तीरमार्गवत् ॥२६॥
असंमोहेति असंमोहसमुत्थानि तु कर्माणि । योगिनां भवातीतार्थयायिनां । आशु=शीघ्रं न पुनर्ज्ञानपूर्वकवदभ्युदयलाभव्यवधानेऽपि मुक्तये भवन्ति । यथोक्तं
असंमोहसमुत्थानि त्वेकान्तपरिशुद्धितः । निर्वाणफलदान्याशु भवातीतार्थयायिनाम् ॥
प्राकृतेष्विह भावेषु येषां चेतो निरुत्सुकम् ।
भवभोगविरक्तास्ते भवातीतार्थयायिनः ॥ (यो. ह. स. १२६-२७)
योगदृष्टिसंग्रह
भेदेऽपि=गुणस्थानपरिणतितारतम्येऽपि तेषां योगिनाम् एकोऽध्वा= एक एव मार्गः । जलधौ - समुद्र तीरमार्गवत् = दूरासन्नादिभेदेऽपि तत्त्वतस्तदैक्यात् । प्राप्यस्य मोक्षस्य सदाशिवपरब्रह्मसिद्धात्मतथतादिशब्दैर्वाच्यस्य
१५८
शाश्वतशिवयोगातिशयितसद्भावालम्बनबृहत्त्वबृंहकत्वनिष्ठितार्थत्वाकालतथाभावाद्यर्थाभेदेनैकत्वात्तन्मार्गस्यापि तथात्वात् । तदुक्तं
एक एव तु मार्गोऽपि तेषां शमपरायणः । अवस्थाभेदभेदेऽपि जलधौ तीरमार्गवत् ॥ संसारातीततत्त्वं तु परं निर्वाणसञ्ज्ञितम् । तथैकमेव नियमाच्छब्दभेदेऽपि तत्त्वतः ॥ सदाशिवः परं ब्रह्म सिद्धात्मा तथतेति च । शब्दस्तदुच्यते ऽन्वर्थादेकमेवैवमादिभिः ॥ तल्लक्षणाविसंवादान्निराबाधमनामयम् । निष्क्रियं च परं तत्त्वं यतो जन्माद्ययोगतः ॥
ज्ञाते निर्वाणतत्त्वेऽस्मिन्नसंमोहेन तत्त्वतः ।
प्रेक्षावतां न तद्भक्तौ विवाद उपपद्यते । (यो. ह. स. १२८-३२)
तस्मादचित्रभक्त्याप्याः सर्वज्ञा न भिदामिताः । चित्रा गीर्भववैद्यानां तेषां शिष्यानुगुण्यतः ॥२७॥
तस्मादिति । तस्मात्=सर्वेषां योगिनामेकमार्गगामित्वात् । अचित्रभक्त्या = एकरूपया भक्त्या । आप्याः प्राप्याः सर्वज्ञाः न भिदामिता = न भेदं प्राप्ताः । तदुक्तं
सर्वज्ञपूर्वकं चैतन्नियमादेव यत्स्थितम् ।
आसन्नोऽयमृजुर्मार्गस्तद्भेदस्तत्कथं भवेत् ? । (यो. ह. स. १३३)
कथं तर्हि देशनाभेदः ? इत्यत आह तेषां सर्वज्ञानां भववैद्यानां=