________________
कुतर्कग्रहनिवृत्तिद्वात्रिंशिका
देवेषु योगशास्त्रेषु चित्राचित्रविभागतः । भक्तिवर्णनमप्येवं युज्यते तदभेदतः ॥१९॥
१५५
देवेष्विति । एवम्=इष्टानिष्टनामभेदेऽपि । तदभेदतः = तत्त्वतः सर्वज्ञाभेदात् । योगशास्त्रेषु=सौवाध्यात्मचिन्ताशास्त्रेषु देवेषु =लोकपालमुक्तादिषु । चित्राचित्रविभागतो भक्तिवर्णनं युज्यते । तदुक्तं
चित्राचित्रविभागेन यच्च देवेषु वर्णिता ।
भक्तिः सद्योगशास्त्रेषु ततोऽप्येवमिदं स्थितम् ।। (यो. ह. स. ११० ) संसारिषु हि देवेषु भक्तिस्तत्कायगामिनाम् । तदतीते पुनस्तत्त्वे तदतीतार्थयायिनाम् ॥२०॥
संसारिष्विति । संसारिषु हि=देवेषु लोकपालादिषु । भक्तिः = सेवा | तत्कायगामिनां=संसारिदेवकायगामिनां । तदतीते पुनः=संसारातीते तु तत्त्वे तदतीतार्थयायिनां = संसारातीतमार्गगामिनां योगिनां भक्तिः ||२०||
चित्रा चाद्येषु तद्रागतदन्यद्वेषसङ्गता ।
अचित्रा चरमे त्वेषा शमसाराखिलैव हि ॥ २१ ॥
चित्रा चेति । चित्रा च नानाप्रकारा च । आद्येषु = सांसारिकेषु देवेषु । तद्रागतदन्यद्वेषाभ्यां = स्वाभीष्टदेवतारागानभीष्टद्वेषाभ्यां सङ्गता= युक्ता, मोहगर्भत्वात् । अचित्रा = एकाकारा चरमे तु तदतीते तु । एषा = भक्ति: । शमसारा=शमप्रधाना अखिलैव हि तथासंमोहाभावात् इति ॥२१॥
इष्टापूर्तानि कर्माणि लोके चित्राभिसन्धितः । फलं चित्रं प्रयच्छन्ति तथाबुद्ध्यादिभेदतः ॥२२॥ इष्टापूर्तानीति । इष्टापूर्तानि कर्माणि लोके चित्राभिसन्धितः =
योगदृष्टिसंग्रह
संसारिदेवस्थानादिगतविचित्राध्यवसायात् मृदुमध्याधिमात्ररागादिरूपात् । तथा बुद्ध्यादीनां वक्ष्यमाणलक्षणानां भेदतः फलं चित्रं नानारूपं प्रयच्छन्ति । विभिन्नानां नगराणामिव विभिन्नानां संसारिदेवस्थानानां प्राप्तेरुपायस्यानुष्ठानस्याभिसन्ध्यादिभेदेन विचित्रत्वात् । तदुक्तं
१५६
संसारिणां हि देवानां यस्माच्चित्राण्यनेकधा । स्थित्यैश्वर्यप्रभावादौ स्थानानि प्रतिशासनम् ॥ ( यो. ह. स. १२४)
तस्मात् तत्साधनोपायो नियमाच्चित्र एव हि ।
न भिन्ननगराणां स्यादेकं वर्त्म कदाचन ॥ (यो. ह. स. १११-१२)
बुद्धिर्ज्ञानमसंमोहस्त्रिविधो बोध इष्यते । रत्नोपलम्भतज्ज्ञानतदवाप्तिनिदर्शनात् ॥२३॥
बुद्धिरिति । बुद्धिः = तथाविधोहरहितं शब्दार्थश्रवणमात्रजं ज्ञानम् । यदाह - "इन्द्रियार्थाश्रया बुद्धिः । (यो. ह. स. १२१ )
ज्ञानं तथाविधोहेन गृहीतार्थतत्त्वपरिच्छेदनम् । तदाह - "ज्ञानं त्वागमपूर्वकम्" (यो. ह. स. १२१) ।
असंमोहो=हेयोपादेयत्यागोपादानोपहितं ज्ञानम् । यदाह - "सदनुष्ठानवच्चैतदसंमोहोऽभिधीयते । (यो. ह. स. १२१ )
एवं त्रिविधो बोध इष्यते स्वस्वपूर्वाणां कर्मणां भेदसाधकः "तद्भेदात्सर्वकर्माणि भिद्यन्ते सर्वदेहिनाम्" (यो. ह. स. १२० ) इति
वचनात् ।
रत्नोपलम्भतज्ज्ञानतदवाप्तीनां निदर्शनात् । यथा ह्युपलम्भादिभेदाद्रनग्रहणभेदस्तथा प्रकृतेऽपि बुद्धयादिभेदादनुष्ठानभेद इति ॥२३॥ आदर: करणे प्रीतिरविघ्नः सम्पदागमः । जिज्ञासा तज्ज्ञसेवा च सदनुष्ठानलक्षणम् ॥२४॥