________________
१५३
१५४
कुतर्कग्रहनिवृत्तिद्वात्रिंशिका
न तत्त्वतो भिन्नमताः सर्वज्ञा बहवो यतः ।। मोहस्तदधिमुक्तीनां तद्भेदाश्रयणं ततः ॥ (यो. ह. सा. १०२)
योगदृष्टिसंग्रह अतः सामान्यप्रतिपत्त्यंशेन सर्वयोगिषु परिशिष्टा तुल्यतैव भावनीये
त्याह
सर्वज्ञो मुख्य एकस्तत्प्रतिपत्तिश्च यावताम् । सर्वेऽपि ते तमापन्ना मुख्यं सामान्यतो बुधाः ॥१५॥
सर्वज्ञ इति । सर्वज्ञो मुख्यः तात्त्विकाराधनाविषय एकः सर्वज्ञत्वजात्यविशेषात् । तदुक्तं
सर्वज्ञो नाम यः कश्चित् पारमार्थिक एव हि । स एक एव सर्वत्र व्यक्तिभेदेऽपि तत्त्वतः ।। (यो. इ. स. १०३)
तत्प्रतिपत्तिः सर्वज्ञभक्तिश्च यावतां तत्तद्दर्शनस्थानां ते सर्वेऽपि= बुधास्तं सर्वज्ञं मुख्यं सामान्यतो विशेषानिर्णयेऽपि आपन्ना=आश्रिताः, निरतिशयितगुणवत्त्वेन प्रतिपत्तेः वस्तुतः सर्वज्ञविषयकत्वात्, गुणवत्तावगाहनेनैव तस्या भक्तित्वाच्च । यथोक्तं
प्रतिपत्तिस्ततस्तस्य सामान्येनैव यावताम् । ते सर्वेऽपि तमापन्ना इति न्यायगतिः परा ॥ (यो. इ. स. १०४)
सर्वज्ञप्रतिपत्त्यंशमाश्रित्यामलया धिया । निर्व्याजं तुल्यता भाव्या सर्वतन्त्रेषु योगिनाम् ॥१७॥
सर्वज्ञेति । सर्वज्ञप्रतिपत्त्यंशमाश्रित्य अमलया रागद्वेषमलरहितया । धिया बुद्ध्या । निर्व्याजम् औचित्येन सर्वज्ञोक्तपालनपरतया तुल्यता भाव्या । सर्वतन्त्रेषु सर्वदर्शनेषु । योगिनां मुमुक्षूणां । तदुक्तं
तस्मात्सामान्यतोऽप्येनमभ्युपैति य एव हि । निर्व्याजं तुल्य एवासौ तेनांशेनैव धीमता ॥ (यो. इ. स. १०६) अवान्तरभेदस्तु सामान्यविरोधीत्याह
दूरासन्नादिभेदोऽपि तद्भूत्यत्वं निहन्ति न । एको नामादिभेदेन भिन्नाचारेष्वपि प्रभुः ॥१८॥
न ज्ञायते विशेषस्तु सर्वथाऽसर्वदर्शिभिः । अतो न ते तमापन्ना विशिष्य भुवि केचन ॥१६॥
नेति । विशेषस्तु सर्वज्ञज्ञानादिगतभेदस्तु । असर्वदर्शिभिः= छद्मस्थैः । सर्वथा सर्वैः प्रकारैः । न ज्ञायते । अतो न ते सर्वज्ञाभ्युपगन्तारः । तं सर्वज्ञम् आपन्ना आश्रिताः । विशिष्य भुवि पृथिव्यां केचन । तदुक्तं
विशेषस्तु पुनस्तस्य कार्येनासर्वदर्शिभिः । सर्वैर्न ज्ञायते तेन तमापन्नो न कश्चन ।। (यो. इ. स. १०५)
दूरेति । दूरासन्नादिभेदस्तु तद्भूत्यत्वं सर्वज्ञोपासकत्वं न निहन्ति । एकस्य राज्ञो नानाविधप्रतिपत्तिकृतामपि एकभृत्यत्वाविशेषवत् प्रकृतोपपत्तेः । भिन्नाचारेष्वपि तथाविधाकारभेदेन नानाविधानुष्ठानेष्वपि योगिषु नामादीनाम् अर्हदादिसज्ञादीनां भेदेन एकः प्रभुः उपास्यः । तदुक्तं
यथैवैकस्य नृपतेर्बहवोऽपि समाश्रिताः । दूरासन्नादिभेदेऽपि तद्धृत्याः सर्व एव ते ॥ सर्वज्ञतत्त्वाभेदेन तथा सर्वज्ञवादिनः । सर्वे तत्तत्त्वगा ज्ञेया भिन्नाचारस्थिता अपि । न भेद एव तत्त्वेन सर्वज्ञानां महात्मनाम् । तथानामादिभेदेऽपि भाव्यते तन्महात्मभिः ॥ (यो. इ. स. १०७-८-९)