________________
कुतर्कग्रहनिवृत्तिद्वात्रिंशिका
वादिनः स्वभावस्यापर्यनुयोज्यत्वाद्विशेषस्याविर्निगमात् । तदुक्तं
अतोऽग्निः क्लेदयत्यम्बुसन्निधौ दहतीति च । अबग्निसन्निधौ तत्स्वाभाव्यादित्युदिते तयोः ॥ कोशपानादृते ज्ञानोपायो नास्त्यत्र युक्तितः । विप्रकृष्टोऽप्ययस्कान्तः स्वार्थकृद् दृश्यते यतः ॥ ( यो. ह. स. ९३-९४)
दृष्टान्तमात्रसौलभ्यात्तदयं केन बाध्यताम् । स्वभावबाधने नालं कल्पनागौरवादिकम् ? ॥१०॥
१५१
दृष्टान्तेति । दृष्टान्तमात्रस्य सौलभ्यात् । तत् =तस्मात् । अयम्= अन्यथास्वभावविकल्पकः कुतर्कः केन वार्यताम् ? | अग्निसन्निधावपां दाहस्वभावत्वे कल्पनागौरवं बाधकं स्यादित्यत आह-स्वभावस्य =उपपत्तिसिद्धस्य बाधने कल्पनागौरवादिकं नालं=न समर्थम्, कल्पनासहस्रेणापि स्वभावस्यान्यथाकर्तुमशक्यत्वात् । अत एव न कल्पनालाघवेनापि स्वभावान्तरं कल्पयितुं शक्यमिति द्रष्टव्यम् ।
अथ स्वस्य भावोऽनागन्तुको धर्मो नियतकारणत्वादिरूप एव स च कल्पनालाघवज्ञानेन गृह्यते, अन्यथागृहीतश्च कल्पनागौरवज्ञानेन त्यज्यतेऽपीति चेन्न गौरवेऽपि अप्रामाणिकत्वस्य दुर्ग्रहत्वात्, प्रामाणिकस्य च गौरवादेरप्यदोषत्वादिति दिक् ॥१०॥
द्विचन्द्रस्वप्नविज्ञाननिदर्शनबलोत्थितः ।
धियां निरालम्बनतां कुतर्कः साधयत्यपि ॥ ११॥
द्विचन्द्र इति । द्विचन्द्रस्वप्नविज्ञाने एव निदर्शने उदाहरणमात्रे तद्बलादुत्थितः कुतर्कः । धियां = सर्वज्ञानानां । निरालम्बनताम् अलीकविषयताम् अपि साधयति ॥ ११ ॥
१५२
योगदृष्टिसंग्रह
तत्कुतर्केण पर्याप्तमसमञ्जसकारिणा । अतीन्द्रियार्थसिद्धर्थं नावकाशोऽस्य कुत्रचित् ॥१२॥
तदिति । तदसमञ्जसकारिणा-प्रतीतिबाधितार्थसिद्ध्यनुधाविना पर्याप्तं कुतर्केण । अतीन्द्रियार्थानां = धर्मार्थानां सिद्ध्यर्थं नास्य=कुतर्कस्य कुत्रचिदवकाशः ॥ १२ ॥
शास्त्रस्यैवावकाशोऽत्र कुतर्काग्रहतस्ततः । शीलवान् योगवानत्र श्रद्धावांस्तत्त्वविद्भवेत् ॥१३॥
शास्त्रस्येति । अत्र = अतीन्द्रियार्थसिद्धौ शास्त्रस्यैवावकाशः, तस्यातीन्द्रियार्थसाधनसमर्थत्वाच्छुष्कतर्कस्यातथात्वात् । तदुक्तं
गोचरस्त्वागमस्यैव ततस्तदुपलब्धितः ।
चन्द्रसूर्योपरागादिसंवाद्यागमदर्शनात् ।। (यो. ह. स. ९९ )
ततः=तस्मात् कुतर्काग्रहतोऽत्र = शास्त्रे श्रद्धावान् शीलवान्= परद्रोहविरतिः योगवान् सदा योगतत्परः तत्वविद्=धर्माद्यतीन्द्रियार्थदर्शी भवेत् ॥१३॥
ननु शास्त्राणामपि भिन्नत्वात्कथं शास्त्रश्रद्धापि स्यादित्यत आह
तत्त्वतः शास्त्रभेदश्च न शास्तॄणामभेदतः । मोहस्तदधिमुक्तीनां तद्भेदाश्रयणं ततः ||१४||
तत्त्वत इति । तत्त्वतो धर्मवादापेक्षया तात्पर्यग्रहात् शास्त्रभेदश्च नास्ति । शास्तृणां=धर्मप्रणेतृणाम् अभेदतः तत्तन्नयापेक्षदेशनाभेदे नैव स्थूलबुद्धीनां तद्भेदाभिमानात् । अत एवाह ततः = तस्मात् तदधिमुक्तीनां= शास्तृश्रद्धावतां तद्भेदाश्रयणां= शास्तृभेदाङ्गीकरणम् मोहो=अज्ञानम् निर्दोषत्वेन सर्वेषामैक्यरूप्यात् । तदुक्तं