________________
कुतर्कग्रहनिवृत्तिद्वात्रिंशिका
उक्तं च योगमार्गज्ञैस्तपोनिर्धूतकल्मषैः । भावियोगिहितायोच्चैर्मोहदीपसमं वचः ॥४॥
उक्तं चेति । उक्तं च= निरूपितं पुनः । योगमार्गज्ञैः=अध्यात्मवद्भिः पतञ्जलिप्रभृतिभिः । तपसा निर्धूतकल्मषैः = प्रशमप्रधानेन तपसा क्षीणमार्गानुसारिबोधबाधकमोहमलैः । भावियोगिहिताय = भविष्यद्विवादबहुलकलिकालयोगिहितार्थम् । उच्चैः=अत्यर्थम् । मोहदीपसमं=मोहान्धकारप्रदीपस्थानीयम् । वचो = वचनम् ॥४॥
वादांश्च प्रतिवादांश्च वदन्तो निश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद् गतौ ॥५॥
१४९
वादांश्चेति । वादांश्च=पूर्वपक्षरूपान् । प्रतिवादांश्च= परोपन्यस्तपक्षप्रतिवचनरूपान् । वदन्तो = ब्रुवाणाः । निश्चितान् = असिद्धानैकान्तिकादिहेत्वभासनिरासेन । तथा तेन प्रकारेण तत्तच्छास्त्रप्रसिद्धेन सर्वेऽपि दर्शनिनो मुमुक्षवोऽपि । तत्त्वान्तम्=आत्मादितत्त्वप्रसिद्धिरूपम् । नैव गच्छन्ति= प्रतिपद्यन्ते । तिलपीलकवत् = तिलपीलक इव । निरुद्धाक्षिसञ्चारस्तिलयन्त्रवाहनपरो यथा ह्ययं नित्यभ्रम्यन्नपि निरुद्धाक्षतया न तत्परिमाणमवबुध्यते, एवमेतेऽपि वादिन: स्वपक्षाभिनिवेशान्धा विचित्रं वदन्तोऽपि नोच्यमानतत्त्वं प्रतिपद्यन्ते इति ॥५ ॥
विकल्पकल्पनाशिल्पं प्रायोऽविद्याविनिर्मितम् । तद्योजनामयश्चात्र कुतर्कः किमनेन तत् ? ॥६॥
विकल्पेति । विकल्पाः = शब्दविकल्पा अर्थविकल्पाश्च तेषां कल्पनारूपं शिल्पम् । प्रायो=बाहुल्येन । अविद्याविनिर्मितं =ज्ञानावरणीयादिकर्मसंपर्कजनितम् । तद्योजनामयः = तदेकधारात्मा चात्र कुतर्कः । तत् किमनेन ? मुमुक्षूणां दुष्टकारणप्रभवस्य सत्कार्याहेतुत्वात् ॥६॥
१५०
योगदृष्टिसंग्रह
जातिप्रायश्च बाध्योऽयं प्रकृतान्यविकल्पनात् । हस्ती हन्तीतिवचने प्राप्ताप्राप्तविकल्पवत् ॥७॥
जातिप्रायश्चेति । जातिप्रायश्च = दूषणाभासकल्पश्च । बाध्यः प्रतीतिफलाभ्याम् अयं=कुतर्कः । प्रकृतान्यस्य = उपादेयाद्यतिरिक्तस्य अप्रयोजनस्य वस्त्वंशस्य विकल्पनात् । हस्ती हन्तीति वचने हस्त्यारूढेनोक्ते प्राप्ताप्राप्तविकल्पवद् नैयायिकच्छात्रस्य । यथा ह्ययमित्थं वक्तारं प्रति - " किमयं हस्ती प्राप्तं व्यापादयति ? उताप्राप्तं ? आद्ये त्वामपि व्यापादयेत्, अन्त्ये च जगदपीति विकल्पयन्नेव हस्तिना गृहीतो मिण्ठेन कथमपि मोचितः । तथा तथाविधविकल्पकारी तत्तद्दर्शनस्थोऽपि कुतर्कहस्तिना गृहीतः सद्गुरुमिण्ठेनैव मोच्यत इति ॥७॥
स्वभावोत्तरपर्यन्त एषोऽत्रापि च तत्त्वतः । नार्वाग्हग्ज्ञानगम्यत्वमन्यथाऽन्येन कल्पनात् ॥८॥
स्वभावेति । एष=कुतर्कः । स्वभावोत्तरपर्यन्तः । अत्र च " वस्तुस्वभावैरुत्तरं वाच्यं" इति वचनात् । अत्रापि च स्वभावे नार्वाग्दृश:= छद्मस्थस्य ज्ञानगम्यत्वं तत्त्वतः । अन्यथा क्लृप्तस्यैकेन वादिना स्वभावस्य अन्येन अन्यथाकल्पनात् ॥८॥
तथाहि
अपां दाहस्वभावत्वे दर्शिते दहनान्तिके । विप्रकृष्टेऽप्ययस्कान्ते स्वार्थशक्तेः किमुत्तरम् ? ॥९॥
अपामिति । अपां= शैत्यस्वभावत्ववादिनं प्रति अपां दहनान्तिके दाहस्वभावत्वे दर्शिते अध्यक्षविरोधपरिहारात् । विप्रकृष्टेऽप्ययस्कान्ते स्वार्थशक्ते: लोहाकर्षणशक्तेर्विप्रकर्षमात्रस्याप्रयोजकत्वात् किमुत्तरम् ? अन्यथा