________________
कुतर्कग्रहनिवृत्तिद्वात्रिंशिका
तारादित्रयद्वात्रिंशिका
१४७ ___एत इति । एते=भवाभिनन्दिनः असच्चेष्टया महारम्भादिप्रवृत्तिलक्षणया निजमात्मानं मलिनं कुर्वते कर्मरजःसम्बन्धात् । बडिशामिषवत्= मत्स्यगलमांसवत् । तुच्छे अल्पे रौद्रविपाके प्रसक्ता भोगजे= भोगप्रभवे सुखे ॥३१॥
अवेद्यसंवेद्यपदं सत्सङ्गागमयोगतः । तदुर्गतिप्रदं जेयं परमानन्दमिच्छता ॥३२॥
अवेद्येति । यतोऽस्यायं दारुणो विपाकः तत्=तस्माद अवेद्यसंवेद्यपदं दुर्गतिप्रदं नरकादिदुर्गतिकारणम् । सत्सङ्गागमयोगतो विशिष्टसत् सङ्गमागमसम्बन्धात् । परमानन्दं मोक्षसुखम् इच्छता जेयम् । अस्यामेव भूमिकायामन्यदा जेतुमशक्यत्वात् । अत एवानुवादपरोऽप्यागम इति योगाचार्या अयोग्यनियोगासिद्धेरिति ॥३२॥
इति तारादित्रयद्वात्रिंशिका
अनन्तरमवेद्यसंवेद्यपदं जेयमित्युक्तं, अत्र तज्जयेनैव कुतर्कनिवृत्तिर्भवति, सैव चात्यन्तमादरणीयेत्याह
जीयमानेऽत्र राजीव चमूचरपरिच्छदः । निवर्तते स्वतः शीघ्रं कुतर्कविषमग्रहः ॥१॥
जीयमान इति । जीयमानेऽत्र अवेद्यसंवेद्यपदे महामिथ्यात्वनिबन्धने पशुत्वादिशब्दवाच्ये । स्वत एव आत्मनैवापरोपदेशेन शीघ्रम् । कुतर्क एव विषमग्रहो दृष्टापायहेतुत्वेन कूरग्रहः । कुतर्कस्य विषमग्रहः कुटिलावेशरूपो वा निवर्तते । राज्ञि जीयमान इव चमूचरपरिच्छदः ॥१॥
शमारामानलज्वाला हिमानी ज्ञानपङ्कजे ।
श्रद्धाशल्यं स्मयोल्लास: कुतर्कः सुनयार्गला ॥२॥ शमेति । व्यक्तः ॥२॥ कुतर्केऽभिनिवेशस्तन्न युक्तो मुक्तिमिच्छताम् । युक्तः पुनः श्रुते शीले समाधौ शुद्धचेतसाम् ॥३॥
कुतर्क इति । श्रुते आगमे । शीले परद्रोहविरतिलक्षणे । समाधौ= ध्यानफलभूते ॥३॥