________________
तारादित्रयद्वात्रिंशिका
१४५ मित्रादिदृष्टिष्वपि सम्भवि, तथापि वेद्यसंवेद्यपदप्रवृत्तिनिमित्तं ग्रन्थिभेदजनितो रुचिविशेष एवेति न दोषः ॥२५॥
अपायशक्तिमालिन्यं सूक्ष्मबोधविघातकृत् । न वेद्यसंवेद्यपदं वज्रतण्डुलसन्निभे ॥२६॥
अपायेति । अपायशक्तिमालिन्यं नरकाद्यपायशक्तिमलिनत्वं सूक्ष्मबोधस्य विघातकृत्, अपायहेत्वासेवनक्लिष्टबीजसद्भावात्तस्य सज्ज्ञानावरणक्षयोपशमाभावनियतत्वात् । न वेद्यसंवेद्यपदे उक्तलक्षणे वजतण्डुलसन्निभे । प्रायो दुर्गतावपि मानसदु:खाभावेन तद्वद्वेद्यसंवेद्यपदवतो भावपाकायोगात् ।
एतच्च व्यावहारिकं वेद्यसंवेद्यपदं भावमाश्रित्योक्तम् । निश्चयतस्तु प्रतिपतितसद्दर्शनानामनन्तसंसारिणां नास्त्येव वेद्यसंवेद्यपदभावः । नैश्चयिकतद्वति क्षयिकसम्यग्दृष्टौ श्रेणिकादाविव पुनर्दुर्गत्ययोगेन तप्तलोहपदन्यासतुल्याया अपि पापप्रवृत्तेश्चरमाया एवोपपत्तेः । यथोक्तं
अतोऽन्यदुत्तरास्वस्मात् पापे कर्मागसोऽपि हि । तप्तलोहपदन्यासतुल्या वृत्तिः क्वचिद्यदि ॥ वेद्यसंवेद्यपदतः संवेगातिशयादिति । चरमैव भवत्येषा पुनटुंत्ययोगतः ॥ (यो. इ. स. ७०-७१) इति । तच्छक्तिः स्थूलबोधस्य बीजमन्यत्र चाक्षतम् । तत्र यत्पुण्यबन्धोऽपि हन्तापायोत्तरः स्मृतः ॥२७॥
योगदृष्टिसंग्रह प्रवृत्तिरपि योगस्य वैराग्यान्मोहगर्भतः ।। प्रसूतेऽपायजननीमुत्तरां मोहवासनाम् ॥२८॥
प्रवृत्तिरपीति । तत्रेति प्राक्तनमत्रानुषज्यते । तत्र मोहगर्भतो वैराग्यात् योगस्य प्रवृत्तिरपि सद्गुरुपारतन्त्र्याभावे अपायजननीमुत्तरां मोहवासनां प्रसूते मोहमूलानुष्ठानस्य मोहवासनाऽवन्ध्यबीजत्वात्, अतोऽत्र योगप्रवृत्तिरप्यकिञ्चित्-करीति भावः ॥२८॥
अवेद्यसंवेद्यपदे पुण्यं निरनुबन्धकम् । भवाभिनन्दिजन्तूनां पापं स्यात्सानुबन्धकम् ॥२९॥
अवेद्येति । अवेद्यसंवेद्यपदे पुण्यं निरनुबन्धकम् अनुबन्धरहितं स्यात् । यदि कदाचिन्न स्यात् पापानुबन्धि । सानुबन्धे तत्र ग्रन्थिभेदस्य नियामकत्वात् । भवाभिनन्दिनां क्षुद्रत्वादिदोषवतां जन्तूनां पापं सानुबन्धकम् अनुबन्धसहितं स्यात्, रागद्वेषादिप्राबल्यस्य तदनुबन्धावन्ध्यबीजत्वात् ॥२९॥
कुकृत्यं कृत्यमाभाति कृत्यं चाकृत्यमेव हि ।
अत्र व्यामूढचित्तानां कण्डूकण्डूयनादिवत् ॥३०॥
कुकृत्यमिति । कुकृत्यं प्राणातिपातादि कृत्यं करणीयम् आभाति । कृत्यं च अहिंसादि अकृत्यमेव हि अनाचरणीयमेव । अत्र अवेद्यसंवेद्यपदे व्यामूढचित्तानां मोहग्रस्तमानसानां कण्डूलानां कण्डूयनादिवत् । आदिना कृम्याकुलस्य कुष्टिनोऽग्निसेवनग्रहः । कण्डूयकादीनां कण्ड्वादेखि भवाभिनन्दिनामवेद्यसंवेद्यपदादेव विपर्ययधीरिति भावः ॥३०॥
तच्छक्तिरिति । अन्यत्र चावेद्यसंवेद्यपदे तच्छक्ति: अपायशक्तिः स्थूलबोधस्य बीजम् अक्षतम् अनभिभूतम् । तत्र अवेद्यसंवेद्यपदे यद्= यस्मात् पुण्यबन्धोऽपि हन्तापायोत्तरो=विघ्ननान्तरीयकः स्मृतः । ततस्तत्पुण्यस्य पापानुबन्धित्वात् ॥२७॥
एतेऽसच्चेष्टयात्मानं मलिनं कुर्वते निजम् । बडिशामिषवत्तुच्छे प्रसक्ता भोगजे सुखे ॥३१॥