________________
तारादित्रयद्वात्रिंशिका
पुण्यबीजं नयत्येवं तत्त्वश्रुत्या सदाशयः । भवक्षाराम्भसस्त्यागाद् वृद्धिं मधुरवारिणा ॥२१॥
पुण्यबीजमिति । एवं धर्मस्य प्राणेभ्योऽप्यधिकत्वप्रतिपत्त्या, तत्रोत्सर्गप्रवृत्त्या । तत्त्वश्रुत्या = तथातत्त्व श्रवणेन मधुरवारिणा । सदाशयः= शोभनपरिणामः । भवलक्षणस्य क्षाराम्भसस्त्यागात् । पुण्यबीजं वृद्धि नयति ।
१४३
यथा हि मधुरोदकयोगतस्तन्माधुर्यानवगमेऽपि बीजं प्ररोहमादत्ते, तथा तत्त्वश्रुतेरचिन्त्यसामर्थ्यात्तत्त्वविषयस्पष्टसंवित्त्यभावेऽपि अतत्त्व श्रवणत्यागेन तद्योगात् पुण्यवृद्धिः स्यादेवेति भावः ॥ २१ ॥
तत्त्व श्रवणतस्तीव्रा गुरुभक्ति: सुखावहा । समापत्त्यादिभेदेन तीर्थकृद्दर्शनं ततः ॥२२॥
तत्त्वेति । तत्त्वश्रवणतः तीव्रा = उत्कटा । गुरो = तत्त्व श्रावतिरि भक्तिः=आराध्यत्वेन प्रतिपत्तिः । सुखावहा उभयलोकसुखकरी । ततो= गुरुभक्तेः समापत्त्यादिभेदेन तीर्थकृद्दर्शनं भगवत्साक्षात्कारलक्षणं भवति । तदुक्तं
गुरुभक्तिप्रभावेण तीर्थकृद्दर्शनं मतम् ।
समापत्त्यादिभेदेन निर्वाणैकनिबन्धनम् ॥ (यो. ह. स. ६४)
समापत्तिरत्र ध्यानजस्पर्शना भण्यते, आदिना तन्नामकर्मबन्धविपाकतद्भावापत्त्युपपत्तिपरिग्रहः ॥२२॥
कर्मवज्रविभेदेनाऽनन्तधर्मकगोचरे ।
वेद्यसंवेद्यपदजे बोधे सूक्ष्मत्वमत्र न ॥२३॥
कर्मेति । कर्मेव वज्रम् अतिदुर्भेदत्वात् तस्य विभेदेनानन्तधर्मकं
योगदृष्टिसंग्रह
=भेदाभेदनित्यत्वानित्यत्वाद्यनन्त धर्मशबलं यद्वस्तु तद्गोचरे = वस्तुनस्तथात्वपरिच्छेदिनि । वेद्यसंवेद्यपदजे बोधे सूक्ष्मत्वं यत्तद् अत्र = दीप्रायां दृष्टौ न भवति, तदधोभूमिकारूपत्वादस्याः । तदुक्तं
१४४
भवाम्भोधिसमुत्तारात् कर्मवज्रविभेदतः । ज्ञेयव्याप्तेश्च कात्स्र्त्स्न्येन सूक्ष्मत्वं नायमत्र तु ॥ (यो. ह. स. ६६ ) अवेद्यसंवेद्यपदं चतसृष्वासु दृष्टिषु । पक्षिच्छायाजलचरप्रवृत्त्याभं यदुल्बणम् ॥२४॥
अवेद्येति । आसु = मित्राद्यासु चतसृषु दृष्टिषु यद्=यस्माद् अवेद्यसंवेद्यपदमुल्बणम्=अधिकम् । पक्षिच्छायायां जलसंसर्गिन्यां जलधिया जलचरप्रवृत्तिरिवाभा वेद्यपदसंवेद्यसम्बन्धिनी यत्र तत्तथा । तत्र हि न तात्त्विकं वेद्यसंवेद्यपदं, किं त्वारोपाधिष्ठानसंसर्गितया । तात्त्विकम् अत एवानुल्बणमित्यर्थः । एतदपि चरमासु चरमयथाप्रवृत्तकरणेन एवेत्याचार्याः । तदिदमभिप्रेत्योक्तं
अवेद्यसंवेद्यपदं यस्मादासु तथोल्बणम् । पक्षिच्छायाजलचरप्रवृत्त्याभमतः परम् ।। (यो. ह. स. ६५ )
वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनम् । पदं तद्वेद्यसंवेद्यमन्यदेतद्विपर्ययात् ॥२५॥
वेद्यमिति । वेद्यं=वेदनीयं वस्तुस्थित्या तथाभावयोगिसामान्येनाविकल्पकज्ञानग्राह्यमित्यर्थः । संवेद्यते = क्षयोपशमानुरूपं निश्चयबुद्ध्या विज्ञायते । यस्मिन् = आशयस्थाने । अपायादिनिबन्धनं=नरकस्वर्गादिकारणं हिंसाहिंसादि तद्वेद्यसंवेद्यं पदम् अन्यद्=अवेद्यसंवेद्यपदम् एतद्विपर्ययाद्-उक्तलक्षणव्यत्ययात् ।
यद्यपि शुद्धं यथावद्वेद्यसंवेदनं माषतुषादावसम्भवि, योग्यतामात्रेण च