________________
१४१
तारादित्रयद्वात्रिंशिका
रेचकः स्याद् बहिर्वत्तिरन्तर्वृत्तिश्च पूरकः । कुम्भकः स्तम्भवृत्तिश्च प्राणायामस्त्रिधेत्ययम् ॥१७॥
रेचक इति बहिर्वृत्तिः श्वासो रेचकः स्यात् । अन्तर्वृत्तिश्च प्रश्वासः पूरकः । स्तम्भवृत्तिश्च कुम्भकः । यस्मिन् जलमिव कुम्भे निश्चलतया प्राणोऽवस्थाप्यते । इत्ययं त्रिधा प्राणायामः प्राणगतिविच्छेदः । यदाह"तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः" इति (पातं. २-४६) । अयं च नासाद्वादशान्तादिदेशेन षड्विंशतिमात्रादिप्रमाणकालेन । सङ्ख्यया चेयतो वारान् कृत एतावद्भिश्च श्वासप्रश्वासैः प्रथम उद्घातो भवतीत्यादिलक्षणोपलक्षितो दीर्घसूक्ष्मसज्ञ आख्यायते । यथोक्तं-"स तु बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्म इति (पातं. २-५०) । बाह्याभ्यन्तरविषयो द्वादशान्तहदयनाभिचक्रादिरूप एव पर्यालोच्यैव सहसा तप्तोपलनिपतितजलन्यायेन युगपत् स्तम्भवृत्त्या निष्पद्यमानात् कुम्भकात्तत्पर्यालोचनपूर्वकत्वमात्रभेदेन च चतुर्थोऽपि प्राणायाम इष्यते । यथोक्तं"बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः' इति (पातं. २-५१) ॥१७॥
योगदृष्टिसंग्रह उस्सासं ण णिरुंभइ आभिग्गहिओ वि किमु अचेला । पसज्जमरणं निरोहे मुहुमुस्सासं च जयणाए ॥ (आव. निर्यु. १५१०)
एतच्च पतञ्जल्यायुक्तं क्वचित्=पुरुषविशेष योग्यतानुगं योग्यतानुसारि युज्यते, नानारुचित्वाद्योगिनां, प्राणायामरुचीनां प्राणायामेनापि फलसिद्धेः स्वरुचिसम्पत्तिसिद्धस्योत्साहस्य योगोपायत्वात् । यथोक्तं योगबिन्दौ(४११)
उत्साहान्निश्चयाद्धैर्यात्सन्तोषात्तत्त्वदर्शनात् ।।
मुनेर्जनपदत्यागात् षड्भिर्योगः प्रसिध्यति ॥ इति । तस्माद्यस्य प्राणवृत्तिनिरोधेनैवेन्द्रियवृत्तिनिरोधस्तस्य तदुपयोग इति तत्त्वम् ॥१८॥
रेचनाद् बाह्यभावानामन्तर्भावस्य पूरणात् । कुम्भनान्निश्चितार्थस्य प्राणायामश्च भावतः ॥१९॥
धारणायोग्यता तस्मात् प्रकाशावरणक्षयः । अन्यैरुक्तः क्वचिच्चैतद्युज्यते योग्यतानुगम् ॥१८॥
रेचनादिति । बाह्यभावानां कुटुम्बदारादिममत्वलक्षणानां रेचनात् । अन्तर्भावस्य श्रवणजनितविवेकलक्षणस्य पूरणात् । निश्चितार्थस्य कुम्भनात् स्थिरीकरणाच्च । भावतः प्राणायामः अयमेवाव्यभिचारेण योगाङ्गम् । अत एवोक्तं-"प्राणायामवती चतुर्थाङ्गभावतो भावरेचकादिभावादिति" ॥१९॥
धारणेति । तस्मात् प्राणायामात् धारणानां योग्यता, प्राणायामेन स्थिरीकृतं चेतः सुखेन नियतदेशे धार्यत इति । तदुक्तं-"धारणासु च योग्यता मनसः" (पातं. २-५३) इति । तथा प्रकाशस्य=चित्तसत्त्वगतस्य यद् आवरणं क्लेशरूपं तत्क्षयः । तदुक्तं-"ततः क्षीयते प्रकाशावरणमिति" (पातं. २-५२) । अयम् अन्यैः पतञ्जल्यादिभिरुक्तः भगवत्प्रवचने तु व्याकुलताहेतुत्वेन निषिद्ध एव श्वासप्रश्वासरोधः, यथायोगसमाधानमेव प्रवृत्तेः श्रेयस्त्वात्, प्राणरोधपलिमन्थस्याऽनतिप्रयोजनत्वात् । तदुक्तं
प्राणेभ्योऽपि गुरुर्धर्मः प्राणायामविनिश्चयात् । प्राणांस्त्यजति धर्मार्थं न धर्मं प्राणसङ्कटे ॥२०॥
प्राणेभ्योऽपीति । प्राणेभ्योऽपि=इन्द्रियादिभ्योऽपि गुरुः महत्तरो धर्मः । इत्यतो भावप्राणायामतो विनिश्चयात् धर्मार्थं प्राणांस्त्यजति, तत्रोत्सर्गप्रवृत्तेः । अत एव न धर्मं त्यजति प्राणसङ्कटे प्राणकष्टे ॥२०॥