________________
तारादित्रयद्वात्रिंशिका
१३९
सुखमिति । सुखम् = अनुद्वेजनीयं स्थिरं च निष्कम्पं यदासनं तेन उपेतं = सहितम्, उक्तविशेषणविशिष्टस्यैवासनस्य योगाङ्गत्वात् । यत्पतञ्जलिः"स्थिरसुखमासनमिति (२-४६) । बलायां दृष्टौ दर्शनं दृढं काष्ठाग्निकणोद्योतसममिति कृत्वा । परा = प्रकृष्टा च तत्त्वशुश्रूषा = तत्त्व श्रवणेच्छा जिज्ञासासम्भवात् । न क्षेपो योगगोचरः तदनुद्वेगे उद्वेगजन्यक्षेपाभावात्
॥१०॥
असत्तृष्णात्वराभावात् स्थिरं च सुखमासनम् । प्रयत्नश्लथताऽऽनन्त्यसमापत्तिबलादिह ॥ ११ ॥
असदिति । असत्तृष्णाया = असुन्दरलालसायाः त्वरायाः चान्यान्यफलौत्सुक्य लक्षणाया अभावात् स्थिरं सुखं चासनं भवति । प्रयत्नस्य श्लथता=क्लेशेनैवासनं बध्नामीतीच्छायामङ्गलाघवेन तन्निबन्धः आनन्त्ये चाकाशादिगते समापत्तिः = अवधानेन मनस्तादात्म्यापादनं दुःखहेतुदेहाहङ्काराभावफलं तद्बलादिह - बलायां दृष्टौ भवति । यथोक्तं-"प्रयत्नशैथिल्यानन्त्यसमापत्तिभ्याम्' इति (पातं. २-४७) ॥११॥
॥१२॥
अतोऽन्तरायविजयो द्वन्द्वानभिहतिः परा । दृष्टदोषपरित्यागः प्रणिधानपुरः सरः ॥ १२॥
अत इति । अतो = यथोक्तादासनाद् अन्तरायाणाम्=अङ्गमेजयादीनां विजयः । द्वन्द्वैः=शीतोष्णादिभिः, अनभिहतिः दुःखाप्राप्तिः परा = आत्यन्तिकी 'ततो द्वन्द्वानभिघातः' (पातं. २-४८) इत्युक्तेः । दृष्टानां च दोषाणां मनःस्थितिजनितक्लेशादीनां परित्यागः प्रणिधानपुरस्सरः प्रशस्तावधानपूर्वः
कान्ताजुषो विदग्धस्य दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा तथाऽस्यां तत्त्वगोचरा ॥१३॥
योगदृष्टिसंग्रह
कान्तेति । कान्ताजुषः = कामिनीसहितस्य विदग्धस्य = गेयनीतिनिपुणस्य दिव्यस्य अतिशयितस्य गेयस्य किन्नरादिसम्बन्धिनः श्रुतौ श्रवणे यथा यूनो=यौवनगामिनो कामिनो भवति शुश्रूषा, तथाऽस्यां=बलायां तत्त्वगोचरा शुश्रूषा ॥ १३ ॥
१४०
अभावेऽस्याः श्रुतं व्यर्थं बीजन्यास इवोषरे । श्रुताभावेऽपि भावेऽस्या ध्रुवः कर्मक्षयः पुनः ॥१४॥
अभाव इति । अस्या = उक्तलक्षणशुश्रूषाया अभावे श्रुतम् = अर्थश्रवणं व्यर्थम् । ऊषर इव बीजन्यासः । श्रुताभावेऽपि = अर्थश्रवणाभावेऽपि अस्या=उक्तशुश्रूषाया भावे पुनः ध्रुवो = निश्चितः कर्मक्षयः । अतोऽन्वयव्यतिरेकाभ्यामियमेव प्रधानफलकारणमिति भावः ॥ १४ ॥
योगारम्भ इहाक्षेपात् स्यादुपायेषु कौशलम् । उप्यमाने तरौ दृष्टा पयः सेकेन पीनता ॥ १५ ॥
योगेति । इह = बलायाम् अक्षेपाद् = अन्यत्र चित्ताभ्यासाद् योगारम्भे उपायेषु = योगसाधनेषु कौशलं = दक्षत्वं भवति, उत्तरोत्तरमतिवृद्धियोगादिति भावः । उप्यमाने तरौ पयः सेकेन पीनता दृष्टा, तद्वदिहाप्य क्षेपेणैवमतिपीनत्वलक्षणमुपायकौशलं स्यात् । अन्यथा पूर्णपयः सेकं विनोप्तस्य तरोरिव प्रकृतानुष्ठानस्य कार्श्यमेवाकौशललक्षणं स्यादिति भावः ॥ १५ ॥
प्राणायामवती दीप्रा योगोत्थानविवर्जिता । तत्त्वश्रवणसंयुक्ता सूक्ष्मबोधमनाश्रिता ॥ १६ ॥ (विवर्जिता)
प्राणायामवतीति । प्राणायामवती-प्राणायामसहिता दीप्रा दृष्टिः । योगोत्थानेन विवर्जिता प्रशान्तवाहितालाभात् तत्त्वश्रवणेन संयुक्ता शुश्रूषाफलभावात् सूक्ष्मबोधेन विवर्जिता वेद्यसंवेद्यपदाप्राप्तेः ॥ १६ ॥