________________
१३७
तारादित्रयद्वात्रिंशिका
प्रणिधानत ईश्वरप्रणिधानात् समाधिः स्यात्, ईश्वरभक्त्या प्रसन्नो हीश्वरोऽन्तरायरूपान् क्लेशान् परिहत्य समाधिमुबोधयतीति । यथोक्तं"समाधिसिद्धिरीश्वरप्रणिधानादिति" (पातं. २-४५)
तप:स्वाध्यायेश्वरप्रणिधानानां त्रयाणामपि च शोभनाध्यवसायलक्षणत्वेन क्लेशकार्यप्रतिबन्धद्वारा समाध्यनुकूलत्वमेव श्रूयते । यथोक्तं-"तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः (पातं. २-१) समाधिभावनार्थः क्लेशतनुकरणार्थश्चेति" ॥४॥ (पातं. २-२)
१३८
योगदृष्टिसंग्रह भयमिति । भवज संसारोत्पन्नं तीव्र भयं न भवति, तथाऽशुभाप्रवृत्तेः । उचिता क्रिया क्वचिदपि कार्ये न हीयते, सर्वत्रैव धर्मादरात् । न चानाभोगतोऽपि अज्ञानादपि अत्यन्तानुचितक्रिया साधुजननिन्दादिका स्यात् ॥७॥
स्वकृत्ये विकले त्रासो जिज्ञासा सस्पहाधिके । दुःखोच्छेदार्थिनां चित्रे कथन्ताधीः परिश्रमे ॥८॥
विज्ञाय नियमानेतानेवं योगोपकारिणः ।
अत्रैतेषु रतो दृष्टौ भवेदिच्छादिकेषु हि ॥५॥
विज्ञायेति । एतान् शौचादीन् नियमान् एवं= स्वाङ्गजुगुप्सादिसाधकत्वेन योगोपकारिणः समाधिनिमित्तान् विज्ञाय । अत्र तारायां दृष्टौ एतेषु इच्छादिकेषु हि नियमेषु रतो भवेत् । तथाज्ञानस्य तथारुचिहेतुत्वात् । तदत्र काचित्प्रतिपत्तिः प्रदर्शिता ॥५॥
स्वकृत्य इति । स्वकृत्ये स्वाचारे कायोत्सर्गकरणादौ । विकले विधिहीने । त्रासो='हा विराधकोऽहम्' इत्याशयलक्षणः । अधिके स्वभूमिकापेक्षयोत्कृष्टे आचार्यादिकृत्ये जिज्ञासा 'कथमेतदेवं स्यादिति' सस्पृहाऽभिलाषसहिता । दुःखोच्छेदार्थिनां संसारक्लेशजिहासूनां । चित्रे नानाविधे । परिश्रमे तत्तन्नीतिप्रसिद्धक्रियायोगे । कथन्ताधीः कथंभावबुद्धिः । 'कथं नानाविधा मुमुक्षुप्रवृत्तिः कात्स्येन ज्ञातुं शक्यते' इति । तदाह
दुःखरूपो भवः सर्व उच्छेदोऽस्य कुतः कथम् । चित्रा सतां प्रवृत्तिश्च साऽशेषा ज्ञायते कथम् ? (यो. इ. स. ४७)
नास्माकं महती प्रज्ञा सुमहान् शास्त्रविस्तरः । शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा ॥९॥
भवत्यस्यामविच्छिन्ना प्रीतिर्योगकथासु च । यथाशक्त्युपचारश्च बहुमानश्च योगिषु ॥६॥
भवतीति । अस्यां दृष्टौ अविच्छिन्ना भावप्रतिबन्धसारतया विच्छेदरहिता योगकथासु प्रीतिः भवति । योगिषु भावयोगिषु यथाशक्ति स्वशक्त्यौचित्येन उपचारश्च ग्रासादिसम्पादनेन, बहुमानश्च अभ्युत्थानगुणगानादिना । अयं च शुद्धपक्षपातपुण्यविपाकाद्योगवृद्धिलाभान्तरशिष्टसंमतत्वक्षुद्रोपद्रवहान्यादिफल इति ध्येयम् ॥६॥
नेति । नास्माकं महती प्रज्ञा अविसंवादिनी बुद्धिः, स्वप्रज्ञाकल्पिते विसंवाददर्शनात् । तथा सुमहान् अपारः शास्त्रस्य विस्तरः तत् तस्मात् शिष्टाः साधुजनसंमताः प्रमाणमिह प्रस्तुतव्यतिकरे यत्तैराचरितं तदेव यथाशक्ति सामान्येन कर्तुं युज्यत इत्यर्थः । इति तद् (इह=)अस्यां दृष्टौ मन्यते सदा निरन्तरम् ॥९॥
सुखस्थिरासनोपेतं बलायां दर्शनं दृढम् । परा च तत्त्वशुश्रूषा न क्षेपो योगगोचरः ॥१०॥
भयं न भवजं तीव्र हीयते नोचितक्रिया । न चानाभोगतोऽपि स्यादत्यन्तानुचितक्रिया ॥७॥