________________
तारादित्रयद्वात्रिंशिका
मित्रानिरूपणानन्तरं तारादित्रयं निरूपयन्नाह
तारायां तु मनाक् स्पष्टं दर्शनं नियमाः शुभा । अनुद्वेगो हितारम्भे जिज्ञासा तत्त्वगोचरा ॥१॥
तारायामिति । तारायां पुनर्दृष्टौ । मनाग्= ईषत् स्पष्टं - मित्रापेक्षया दर्शनम् । शुभाः=प्रशस्ताः । नियमा वक्ष्यमाणा इच्छादिरूपाः । तथा हितारम्भे=पारलौकिकप्रशस्तानुष्ठानप्रवृत्तिलक्षणे अनुद्वेगः । तथा तत्त्वगोचरा = तत्त्वविषया जिज्ञासा=ज्ञातुमिच्छा | अद्वेषत एव तत्प्रतिपत्त्यानुगुण्यात् ॥१॥
नियमाः शौचसन्तोषौ स्वाध्यायतपसी अपि । देवताप्रणिधानं च योगाचार्यैरुदाहृताः ॥२॥
नियमा इति । शौचं शुचित्वं तद् द्विविधं, बाह्यमाभ्यन्तरं च, बाह्यं मृज्जलादिभिः कायप्रक्षालनम्, आभ्यन्तरं मैत्र्यादिभिश्चित्तमलप्रक्षालनम् । सन्तोष : = सन्तुष्टिः | स्वाध्याय: = प्रणवपूर्वाणां मन्त्राणां जपः । तपः = कृच्छ्रचान्द्रायणादि । देवताप्रणिधानम् = ईश्वरप्रणिधानं सर्वक्रियाणां फलनिरपेक्षतया ईश्वरसमर्पणलक्षणम् । एते योगाचार्यैः = पतञ्जल्यादिभिर्नियमा उदाहृताः । यदुक्तं- “शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः" इति (पातं. २३२) ॥२॥
१३६
योगदृष्टिसंग्रह
शौचभावनया स्वाङ्गजुगुप्साऽन्यैरसङ्गमः । सत्त्वशुद्धिः सौमनस्यैकाग्र्याक्षजययोग्यताः ॥३॥
शौचेति । शौचस्य भावनया स्वाङ्गस्य = स्वकायस्य कारणरूपपर्यालोचनद्वारेण जुगुप्सा=घृणा भवति " अशुचिरयं कायो नात्राग्रहः कर्तव्यः " इति । तथा च अन्यैः = कायवद्भिः असङ्गमः तत्सम्पर्कपरिवर्जनमित्यर्थः । यः किल स्वयमेव कायं जुगुप्सते तत्तदवद्यदर्शनात्, स कथं परकीयैस्तथाभूतैः कायैः संसर्गमनुभवति ? । तदुक्तं- "शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः " (पातं. २- ४०) । तथा सत्त्वस्य = प्रकाशसुखात्मकस्य शुद्धी = रजस्तमोभ्यामनभिभवः । सौमनस्यं=खेदाननुभवेन मानसी प्रीतिः, ऐकाग्र्यं=नियते विषये चेतसः स्थैर्यम्, अक्षाणाम् = इन्द्रियाणां जयो विषयपराङ्मुखानां स्वात्मन्यवस्थानं, योग्यता=चात्मदर्शने विवेकख्यातिरूपे समर्थत्वम् । एतावन्ति फलानि शौचभावनयैव भवन्ति । तदुक्तं "सत्त्वशुद्धिसौमनस्यैकाग्रयेन्द्रियजयात्मदर्शनयोग्यत्वानि च " (पातं. २- ४१) इति ॥३ ॥
सन्तोषादुत्तमं सौख्यं स्वाध्यायादिष्टदर्शनम् । तपसोऽङ्गाक्षयोः सिद्धिः समाधिः प्रणिधानतः ॥४॥
सन्तोषादिति । सन्तोषात् स्वभ्यस्तात् योगिन उत्तमम् = अतिशयितं सौख्यं भवति, यस्य बाह्येन्द्रियप्रभवं सुखं शतांशेनापि न समम् । तदाह"सन्तोषादनुत्तमः सुखलाभः " ( पातं. २-४२) ।
स्वाध्यायात्=स्वभ्यस्तादिष्टदर्शनं जप्यमानमन्त्राभिप्रे तदेवतादर्शनं भवति । तदाह - " स्वाध्यायादिष्टदेवतासंप्रयोगः " ( पातं. २-४४) ।
तपसः स्वभ्यस्तात् क्लेशाद्यशुचिक्षयद्वारा अङ्गाक्षयोः कायेन्द्रिययोः सिद्धिः यथेत्थमणुत्वमहत्त्वादिप्राप्तिसूक्ष्मव्यवहितविप्रकृष्टदर्शनसामर्थ्यलक्षणोत्कर्षः स्यात् । यथोक्तं "कायेन्द्रियसिद्धिरशुचिक्षयात्तपसः " ( पातं. २-४३) ।