________________
मित्रादृष्टिद्वात्रिंशिका
मिथ्यादृष्टौ पुंसि प्रवर्तते= स्खलद्वृत्तियोगविषयीभवति । तस्य = गुणस्थानपदस्य । नूनं=निश्चितम् । अस्यां मित्रायां दृष्टौ । अन्वर्थयोजना योगार्थघटना । उपपद्यते सत्प्रणामादियोगबीजोपादानगुणभाजनत्वस्यास्यामेवोपपत्तेः । तदुक्तं हरिभद्रसूरिभि:
प्रथमं यद् गुणस्थानं सामान्येनोपवर्णितम् ।
अस्यां तु तदवस्थायां मुख्यमन्वर्थयोगतः ॥ (यो. ह. स. ४० ) इति । व्यक्तमिथ्यात्वधीप्राप्तिरप्यन्यत्रेयमुच्यते । घने मले विशेषस्तु व्यक्ताव्यक्तधियोर्नु कः ॥२५॥
१३३
व्यक्तेति । अन्यत्र ग्रन्थान्तरे व्यक्तमिथ्यात्वधीप्राप्तिः = मिथ्यात्वगुणस्थानपदप्रवृत्तिनिमित्तत्वेन । इयं मित्रा दृष्टिरेव उच्यते, व्यक्तत्वेन तत्रास्या एव ग्रहणात् । घने= तीव्रे मले तु सति । नु इति वितर्के । व्यक्ताव्यक्तयोर्धियोः को विशेषः ? दुष्टाया धियो व्यक्ताया अव्यक्तापेक्षया प्रत्युतातिदुष्टत्वान्न कथञ्चिद्गुणस्थानत्वनिबन्धनत्वमिति भावः । विचित्रतया निगमस्य बहुभेदत्वात् तद्भेदविशेषाश्रयणेन वाऽन्यत्र तथाभिधानमिति परिभावनीयं सूरिभिः
॥२५॥
यमः सद्योगमूलस्तु रुचिवृद्धिनिबन्धनम् । शुक्लपक्षद्वितीयाया योगश्चन्द्रमसो यथा ॥ २६ ॥
उत्कर्षापकर्षाच्च शुद्धयशुद्धयोरयं गुणः । मित्रायामपुनर्बन्धात् कर्मणां स प्रवर्तते ॥२७॥ गुणाभासत्वकल्याणमित्रयोगे न कश्चन । अनिवृत्ताग्रहत्वेनाभ्यन्तरज्वरसन्निभः ॥२८॥ मुग्धः सद्योगतो धत्ते गुणं दोषं विपर्ययात् । स्फटिको नु विधत्ते हि शोणश्यामसुमत्विषम् ॥२९॥
१३४
योगदृष्टिसंग्रह
यथौषधीषु पीयूषं द्रुमेषु स्वद्रुमो यथा । गुणेष्वपि सतां योगस्तथा मुख्य इहेष्यते ॥३०॥ विनैनं मतिमूढानां येषां योगोत्तमस्पृहा । तेषां हन्त ! विना नावमुत्तितीर्षा महोदधेः ॥ ३१ ॥ तन्मित्रायां स्थितो दृष्टौ सद्योगेन गरीयसा । समारुह्य गुणस्थानं परमानन्दमश्नुते ॥३२॥
शिष्टा सप्तश्लोकी सुगमा ।। २६ २७ २८ २९ ३०-३१-३२ ॥ ॥ इति मित्राद्वात्रिंशिका ॥