________________
१३१
योगदृष्टिसंग्रह
मित्रादृष्टिद्वात्रिंशिका
निमित्तं सत्प्रणामादेर्भद्रमूर्तेरमुष्य च । शुभो निमित्तसंयोगोऽवञ्चकोदयतो मतः ॥१८॥
सत्स्विति । सत्सु साधुषु सत्त्वधियं साधुत्वबुद्धि हन्त । तीव्र प्रबले मले कर्मबन्धयोग्यतालक्षणे सति को लभेत ? ततो लाभशक्तेरयोगान्न कोऽपीत्यर्थः । अङ्गल्या पङ्गः सुमहतस्तरोः शाखां न स्पृशेत्, तत्प्राप्तिनिमित्तस्वोच्चत्वस्यारोहशक्तेर्वाऽभावात्, तद्वत्प्रकृतेऽपि भावनीयम् ॥२१॥
निमित्तमिति । अमुष्य चानन्तरोदितलक्षणयोगिनो जीवस्य । भद्रमूर्तेः प्रियदर्शनस्य । सत्प्रणामादेर्योगबीजस्य निमित्तं शुभः प्रशस्तः निमित्तसंयोगः सद्योगादिसम्बन्धः । सद्योगादीनामेव निःश्रेयससाधननिमित्तत्वाज्जायते । अवञ्चकोदयाद् वक्ष्यमाणसमाधिविशेषोदयात् ॥१८॥
योगक्रियाफलाख्यं च साधुभ्योऽवञ्चकत्रयम् । श्रुतः समाधिव्यक्त इषुलक्ष्यक्रियोपमः ॥१९॥
वीक्ष्यते स्वल्परोगस्य चेष्टा चेष्टार्थसिद्धये । स्वल्पकर्ममलस्यापि तथा प्रकृतकर्मणि ॥२२॥
वीक्ष्यत इति । स्वल्परोगस्य मन्दव्याधेः चेष्टा= राजसेवादिप्रवृत्तिलक्षणा च इष्टार्थस्य कुटुम्बपालनादिलक्षणस्य सिद्धये निष्पत्तये वीक्ष्यते न तु तीव्ररोगस्येव प्रत्यपायाय । स्वल्पकर्ममलस्यापि पुंसः तथा प्रकृतकर्मणि योगबीजोपादानलक्षणे । ईदृशस्यैव स्वप्रतिपन्ननिर्वाहक्षमत्वात् ॥२२॥
योगेति । साधुभ्यः साधूनाश्रित्य । योगक्रियाफलाख्यम् अवञ्चकत्रयं योगावञ्चकक्रियावञ्चकफलावञ्चकलक्षणम् । अव्यक्तः समाधिः श्रुतः तदधिकारे पाठात् । इषुलक्ष्यक्रियोपमः शरव्यक्रियासदृशः ।
यथा शरस्य शरव्यक्रिया तदविसंवादिन्येव, अन्यथा तत्कियात्वायोगात्, तथा सद्योगावञ्चकादिकमपि सद्योगाद्यविसंवाद्येवेति भावः ॥१९॥
हेतुरत्रान्तरङ्गश्च तथा भावमलाल्पता । ज्योत्स्नादाविव रत्नादिमलापगम उच्यते ॥२०॥
हेतुरिति । अत्र सत्प्रणामादौ । अन्तरङ्गश्च हेतुः तथा भावमलस्य= कर्मसम्बन्धयोग्यतालक्षणस्य अल्पता । ज्योत्स्नादाविव रत्नकान्त्यादाविव रत्नादिमलापगम उच्यते । तत्र मृत्पुटपाकादीनामिवात्र सद्योगादीनां निमित्तत्वेनैवोपयोगादिति भावः ॥२०॥
सत्सु सत्त्वधियं हन्त ! मले तीव्र लभेत कः ? । अङ्गल्या न स्पृशेत् पङ्गः शाखां सुमहतस्तरोः ॥२१॥
यथाप्रवृत्तकरणे चरमे चेदृशी स्थितिः । तत्त्वतोऽपूर्वमेवेदमपूर्वासत्तितो विदुः ॥२३॥
यथेति । यथाप्रवृत्तकरणे चरमे पर्यन्तवर्तिनि च । ईदृशी-योगबीजोपादाननिमित्ताऽल्पकर्मत्वनियामिका । स्थितिः स्वभाव्यवस्था । अपूर्वस्य =अपूर्वकरणस्य आसत्तितः सन्निधानात्फलव्यभिचारायोगात् । इदं चरमं यथाप्रवृत्तिकरणम् तत्त्वतः परमार्थतः अपूर्वमेव विदुः जानते योगविदः । यत उक्तं
अपूर्वासन्नभावे न व्यभिचारवियोगतः ।। तत्त्वतोऽपूर्वमेवेदमिति योगविदो विदुः ॥ (यो. दृ. स. ३९) इति । प्रवर्तते गुणस्थानपदं मिथ्यादृशीह यत् ।
अन्वर्थयोजना नूनमस्यां तस्योपपद्यते ॥२४॥ प्रवर्तत इति । यदिह-जिनप्रवचने गुणस्थानपदं मिथ्यादृशि=