________________
मित्रादृष्टिद्वात्रिंशिका भवात् । सरागस्याप्रमत्तस्य सतो यतेः वीतरागदशानिभं सरागस्य वीतरागत्वप्राप्ताविव योगबीजोपादानवेलायामपूर्वः कोऽपि स्वानुभवसिद्धोऽतिशयलाभ इति भावः । यथोदितं योगाचार्यैः ॥११॥
योगदृष्टिसंग्रह भवादुद्विग्नता शुद्धौषधदानाद्यभिग्रहः । तथा सिद्धान्तमाश्रित्य विधिना लेखनादि च ॥१५॥
ईषदुन्मज्जनाभोगो योगचित्तं भवोदधौ । तच्छक्त्यतिशयोच्छेदि दम्भोलिन्थिपर्वते ॥१२॥
भवादिति । भवात् संसाराद् उद्विग्नता इष्टवियोगाद्यनिमित्तकसहजत्यागेच्छालक्षणा । शुद्धो निर्दोषः औषधदानादेरभिग्रहो भावाभिग्रहस्य विशिष्टक्षयोपशमलक्षणस्य भिन्नग्रन्थेरेव भावेऽपि द्रव्याभिग्रहस्य स्वाशयशुद्धस्य अन्यस्यापि सम्भवात् । तथा सिद्धान्तम् आर्षं वचनमाश्रित्य, न तु कामादिशास्त्राणि । विधिना न्यायात्तधनसत्प्रयोगादिलक्षणेन लेखनादिकं च योगबीजम् ॥१५॥
लेखनादिकमेवाह
ईषदिति । योगचित्तं योगबीजोपादानप्रणिधानचित्तम् । भवोदधौ= संसारसमुद्रे । ईषद्=मनाग् मज्जनस्य आभोगः । तच्छक्तेः भवशक्तेः अतिशयस्य उद्रेकस्य उच्छेदि नाशकम् । ग्रन्थिरूपे पर्वते दम्भोलि:=वजं नियमात्तद्भेदकारित्वात् । इत्थं चैतत्फलपाकारम्भसदृशत्वादस्येति समयविदः ॥१२॥
आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । न चान्येष्वप्यसारत्वात्कूटेऽकूटधियोऽपि हि ॥१३॥
लेखना पूजना दानं श्रवणं वाचनोद्ग्रहः । प्रकाशनाथ स्वाध्यायश्चिन्तना भावनेति च ॥१६॥
लेखनेति । लेखना=सत्पुस्तकेषु । पूजना=पुष्वस्त्रादिभिः । दानं पुस्तकादेः । श्रवणं व्याख्यानस्य । वाचना=स्वयमेवास्य । उद्ग्रहो विधिग्रहणमस्यैव । प्रकाशना गृहीतस्य भव्येषु । अथ स्वाध्यायो-वाचनादिरस्यैव । चिन्तना=ग्रन्थार्थतोऽस्यैव । भावनेति च एतद्गोचरैव । योगबीजम् ॥१६॥
आचार्यादिष्वपीति । आचार्यादिष्वपि आचार्योपाध्यायतपस्व्यादिष्वपि । एतत् कुशलचित्तादि । विशुद्धं संशुद्धमेव । भावयोगिषु तात्त्विकगुणशालिषु योगबीजम् । न चान्येष्वपि द्रव्याचार्यादिष्वपि । कूटेऽकूटधियोऽपि हि असारत्वात् असुन्दरत्वात् तस्याः सद्योगबीजत्वानुपपत्तेः ॥१३॥
श्लाघनाद्यसदाशंसापरिहारपुरःसरम् । वैयावृत्त्यं च विधिना तेष्वाशयविशेषतः ॥१४॥
श्लाघनेति । श्लाघनादे: स्वकीया॑देर्याऽसत्यसुन्दराशंसा प्रार्थना तत्परिहारपुरस्सरं । वैयावृत्त्यं च व्यापृतभावलक्षणम् आहारादिदानेन । विधिना=सूत्रोक्तन्यायेन । तेषु भावयोगिष्वाचार्येषु । आशयविशेषतः= चित्तोत्साहातिशयात् । योगबीजम् ॥१४॥
बीजश्रुतौ परा श्रद्धाऽन्तर्विश्रोतसिकाव्ययात् ।
तदुपादेयभावश्च फलौत्सुक्यं विनाधिकः ॥१७॥
बीजेति । बीजश्रुतौ योगबीजश्रवणे । परा उत्कृष्टा श्रद्धा= 'इदमित्थमेव' इति प्रतिपत्तिरूपा । अन्तर्विश्रोतसिकायौ चित्ताशङ्कायाः व्ययात् । तस्या बीजश्रुतेः उपादेयभावः चारुपरिणामश्च । फलौत्सुक्यं = अभ्युदयाशंसात्वरालक्षणं विनाऽधिकोऽतिशयितो योगबीजम् ॥१७॥