________________
मित्रादृष्टिद्वात्रिंशिका
ब्रह्मचर्याभ्यासवतश्च सतो=निरतिशयस्य वीर्यस्य लाभः, वीर्यनिरोधो हि ब्रह्मचर्य, तस्य प्रकर्षाच्च वीर्यं शरीरेन्द्रियमन:सु प्रकर्षमागच्छतीति ।
अपरिग्रहाभ्यासवतश्च जनुषः 'कोऽहमासं ? कीदृशः ? किकार्यकारी' इति जिज्ञासायां सम्यग्जानातीत्यर्थः । न केवलं भोगसाधनपरिग्रह एव परिग्रहः किं त्वात्मनः शरीरपरिग्रहोऽपि, तथाभोगसाधनत्वाच्छरीरस्य, तस्मिन् सति रागानुबन्धाद् बहिर्मुखायामेव प्रवृत्तौ न तात्त्विकज्ञानप्रादुर्भावः । यदा पुनः शरीरादिपरिग्रहनैरपेक्ष्येण माध्यस्थ्यमवलम्बते तदा मध्यस्थस्य रागादित्यागात् सम्यग्ज्ञानहेतुर्भवत्येव पूर्वापरजन्मसम्बोध इति । तदाह-(अपरिग्रहस्थैर्ये) जन्मकथन्तासम्बोधः इति (पातं. २-३९) ॥६॥
१२८
योगदृष्टिसंग्रह सामस्त्यप्रत्येकभावाभ्यां योगबीजं मोक्षयोजनकानुष्ठानकारणम् अनुत्तमं= सर्वप्रधानं विषयप्राधान्यात् ॥८॥
चरमे पुद्गलावर्ते तथाभव्यत्वपाकतः । प्रतिबन्धोज्झितं शुद्धमुपादेयधिया ह्यदः ॥९॥
चरम इति । अदो हि-एतच्च चरमे अन्त्ये पुद्गलावर्ते भवति । तथाभव्यत्वस्य पाकतो मिथ्यात्वकटुकत्वनिवृत्त्या मनाग्माधुर्यसिद्धः । प्रतिबन्धेन आसङ्गेन ऊज्झितम् आहारादिसञोदयाभावात् फलभिसन्धिरहितत्वाच्च । तदुपात्तस्य तु स्वतः प्रतिबन्धसारत्वात् । अत एव उपादयधिया अन्यापोहे-नादरणीयत्वबुद्ध्या शुद्धम् । तदुक्तं
उपादेयधियात्यन्तं सञ्जाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं संशद्धं ह्येतदीदृशम् ॥ (यो. इ. स. २५)
इत्थं यमप्रधानत्वमवगम्य स्वतन्त्रतः । योगबीजमुपादत्ते श्रुतमत्र श्रुतादपि ॥७॥
इत्थमिति । इत्थम् उक्तप्रकारेण स्वतन्त्रत: स्वाभिमतपातञ्जलादिशास्त्रतो यमप्रधानत्वम् अवगम्य । अत्र=मित्रायां दृष्टौ निवृत्तासद्ग्रहतया सद्गुरुयोगे श्रुता=जिनप्रवचनात् श्रुतमपि योगबीजम् उपादत्ते तथास्वाभाव्यात् ॥७॥
उक्तयोगबीजमेवाह
प्रतिबन्धैकनिष्ठं तु स्वतः सुन्दरमप्यदः । तत्स्थानस्थितिकार्येव वीरे गौतमरागवत् ॥१०॥
प्रतिबन्धेति । प्रतिबन्धे स्वासङ्गे एका केवला निष्ठा यस्य तत्तथा । अदो जिनविषयकुशलचित्तादि तत्स्थानस्थितिकार्येव तथास्वभावत्वात् । वीरे वर्धमानस्वामिनि गौतमरागवत् गौतमीयबहुमानवत् । असङ्गसक्त्यैव ह्यनुष्ठानमुत्तरोत्तरपरिणामप्रवाहजननेन मोक्षफलपर्यवसानं भवति इति विवेचितं प्राक् ॥१०॥
जिनेषु कुशलं चित्तं तन्नमस्कार एव च । प्रणामादि च संशुद्धं योगबीजमनुत्तमम् ॥८॥
जिनेष्विति । जिनेषु अर्हत्सु कुशलं-द्वेषाद्यभावेन प्रीत्यादिमत् चित्तम् । अनेन मनोयोगवृत्तिमाह । तन्नमस्कार एव=जिननमस्कार एव च, तथामनोयोगप्रेरितः, इत्यनेन वाग्योगवृत्तिमाह । प्रणामादि च पञ्चाङ्गादिलक्षणम्, आदिशब्दान्मण्डलादिग्रहः । संशुद्धम् अशुद्धव्यच्छेदार्थमेतत् तस्य सामान्येन यथाप्रवृत्तकरणभेदत्वात्तस्य च योगबीजत्वानुपपतेः एतत्सर्व
सरागस्याप्रमत्तस्य वीतरागदशानिभम् ।
अभिन्दतोऽप्यदो ग्रन्थि योगाचार्यैर्यथोदितम् ॥११॥
सरागस्येति । अदः=शुद्धयोगबीजोपादानं ग्रन्थिमभिन्दतोऽपि जीवस्य चरमयथाप्रवृत्तकरणसामर्थ्येन तथाविधक्षयोपशमादतिशयितानन्दानु