________________
१२५
मित्रादृष्टिद्वात्रिंशिका संयमो ब्रह्म । भोगसाधनानामस्वीकारः अकिञ्चनता । एते यमाः । तदुक्तं "अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमा इति" (पातं. २-३०) । दिक्= देशस्तीर्थादिः, कालः चतुर्दश्यादिः, आदिना ब्राह्मण्यादिरूपाया जातेब्राह्मणादिप्रयोजनरूपस्य समयस्य च ग्रहः । ततो दिक्कालादिनाऽनवच्छिन्नाः "तीर्थे कञ्चन न हनिष्यामि, चतुर्दश्यां न हनिष्यामि, ब्राह्मणान्न हनिष्यामि, देवब्राह्मणाद्यर्थव्यतिरेकेण न कमपि हनिष्यामि' इत्येवंविधावच्छेदव्यतिरेकेण सर्वविषया अहिंसादयो यमाः सार्वभौमाः सर्वासु क्षिप्ताद्यासु चित्तभूमिषु सम्भवन्तो महाव्रतम् इत्युच्यते । तदुक्तं- "एते (तु) जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम्' (पातं. २-३१) । इति ॥२॥
१२६
योगदृष्टिसंग्रह मध्याश्चातीव्रमन्दाः, अधिमात्राश्च तीव्रा इति प्रत्येकं त्रिधा भिद्यन्ते । तदुक्तं"मृदुमध्याधिमात्राः" इति (पात २-३४) वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वकाः मृदुमध्याधिमात्रा: दःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् । इत्थं च सप्तविंशतिवितर्का भवन्ति । अत्र मृद्वादीनामपि प्रत्येक मृदुमध्याधिमात्राभेदो भावनीय इति वदन्ति ॥४॥
दुःखाज्ञानानन्तफला अमी इति विभावनात् । प्रकर्ष गच्छतामेतद्यमानां फलमुच्यते ॥५॥
दुःखेति । दुःखं प्रतिकूलतयाऽवभासमानो राजसश्चित्तधर्मः । अज्ञानं मिथ्याज्ञानं संशयविपर्ययादिरूपं, ते अनन्ते अपरिच्छिन्ने फले येषां ते तथोक्ताः अमी वितर्का इति विभावनाद् निरन्तरं ध्यानात् प्रकर्ष गच्छतां यमानामेतद् वक्ष्यमाणं फलमुच्यते ॥५॥
बाधनेन वितर्काणां प्रतिपक्षस्य भावनात् । योगसौकर्यतोऽमीषां योगाङ्गत्वमुदाहृतम् ॥३॥
बाधनेनेति । वितर्काणां योगपरिपन्थिनां हिंसादीनां प्रतिपक्षस्य भावनात् बाधनेन अनुत्थानोपहतिलक्षणेन योगस्य सौकर्यतः सामग्रीसम्पत्तिलक्षणाद् अमीषाम् हिंसादीनां यमानां योगाङ्गत्वमुदाहृतम् ॥ न तु धारणादीनामिव समाधेः साक्षादुपकारकत्वेन, न वासनादिवदुत्तरोत्तरोपकारकत्वेनैव, किं तु प्रतिबन्धकहिंसाद्यपनायकतयैवेत्यर्थः । तदुक्तं - 'वितर्कबाधने प्रतिपक्षभावनमिति' (पातं. २-३३) ॥३॥
क्रोधाल्लोभाच्च मोहाच्च कृतानुमितकारिता । मृदुमध्याधिमात्राश्च वितर्काः सप्तविंशतिः ॥४॥
वैरत्यागोऽन्तिके तस्य फलं चाकृतकर्मणः । रत्नोपस्थानसद्वीर्यलाभो जनुरनुस्मृतिः ॥६॥
वैरेति । तस्य अहिंसाभ्यासवतः अन्तिके सन्निधौ वैरत्यागः सहजविरोधिनामप्यहिनकुलादीनां हिंस्रत्वपरित्यागः । तदुक्तं-(अहिंसाप्रतिष्ठायां) "तत्सन्निधौ वैरत्यागः" (पातं. २-३५) ।
सत्याभ्यासवतश्च अकृतकर्मणो अविहितानुष्ठानस्यापि फलं= तदर्थापनतिलक्षणम् । क्रियमाणा हि क्रिया यागादिकाः फलं स्वर्गादिकं प्रयच्छन्ति, अस्य तु सत्यं तथा प्रकृष्यते यथाऽकृतायामपि क्रियायां योगी फलमाश्रयते, तद्वचनाच्च यस्य कस्यचित् कियामकुर्वतोऽपि फलं भवतीति । तदाह
सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वं (पातं. २-३६) ।
अस्तेयाभ्यासवतश्च रत्नोपस्थानं तत्प्रकर्षान्निरभिलाषस्यापि सर्वतो दिव्यानि रत्नान्युपतिष्ठन्त इत्यर्थः ।
क्रोधादिति । क्रोधः कृत्याकृत्यविवेकोन्मूलकः प्रज्वलनात्मकश्चित्तधर्मस्तस्मात् । लोभ: तृष्णालक्षणस्ततश्च । मोहश्च सर्वक्लेशानां मूलमनात्मन्यात्माभिसानलक्षणः । इत्थं च कारणभेदेन त्रैविध्यं दशितं भवति । तदुक्तं"लोभक्रोधमोहमूल" इति । (पातं. २-३४) व्यत्ययाभिधानेऽप्यत्र मोहस्य प्राधान्यं, स्वपरविभागपूर्वकयोर्लोभक्रोधयोस्तन्मूलत्वादिति वदन्ति । मन्दाः,