________________
योगावतारद्वात्रिंशिका
प्रकृत्या भद्रकः शान्तो विनीतो मृदुरुत्तमः । सूत्रे मिथ्याप्युक्तः परमानन्दभागतः ॥३२॥
१२३
प्रकृत्येति अत= उक्तहेतो: सूत्रे = जिनप्रवचने प्रकृत्या= निसर्गेण । भद्रको=निरुपमकल्याणमूर्तिः । शान्तः = क्रोधविकाररहितः । विनीतः= अनुद्धतप्रकृतिः । मृदुः=निर्दम्भः । उत्तमः = सन्तोषसुखप्रधानः । मिथ्यादृगपि परमानन्दभाक् = निरतिशययोगसुखभाजनम् उक्तः शिवराजर्षिवदिति ॥३२॥
इति योगावतारद्वात्रिंशिका
***
मित्रादृष्टिद्वात्रिंशिका
योगावतारद्वात्रिंशिकायां मित्राद्या दृष्टयोऽप्यवतारितास्तत्र मित्रां दृष्टिमत्र सप्रपञ्चं निरूपयन्नाह
मित्रायां दर्शनं मन्दं योगाङ्गं च यमो भवेत् । अखेदो देवकार्यादावन्यत्राद्वेष एव च ॥ १ ॥
मित्रायामिति । मित्रायां दृष्टौ दर्शनं मन्दं = स्वल्पो बोधः । तृणाग्निकणोद्योतेन सदृशः योगाङ्गं च यमो भवेद् इच्छादिभेदः । अखेदोऽव्याकुलतालक्षणः देवकार्यादौ आदिशब्दाद् गुरुकार्यादिपरिग्रहः तथातथोपनतेऽस्मिँस्तथा परितोषान्न खेदः, अपि तु प्रवृत्तिरेव, शिरोगुरुत्वादिदोषभाक्त्वेऽपि भवाभिनन्दिनो भोगकार्यवत् । अद्वेषः च = अमत्सरश्चापरत्र त्वदेवकार्यादौ तथा तत्त्वाऽवेदितया मात्सर्यवीर्यबीजसद्भावेऽपि तद्भावाङ्करानुदयात्तथाविधानुष्ठानमधिकृत्यात्र स्थितस्य हि करुणाांशबीजस्यैवेषत्स्फुरणमिति ॥१॥
यमस्वरूपं सभेदमभिधत्ते
अहिंसासूनृतास्तेयब्रह्माकिञ्चनता यमाः । दिक्कालाद्यनवच्छिन्नाः सार्वभौमा महाव्रतम् ॥२॥
अहिंसेति । प्राणवियोगप्रयोजनो व्यापारो हिंसा तदभावः अहिंसा । वाङ्मनसोर्यथार्थत्वं सूनृतम् । परस्वापहरणं स्तेयं तदभावः अस्तेयं । उपस्थ