________________
योगावतारद्वात्रिंशिका
१२१ तथा क्रमेण मित्राद्यनुक्रमेण इक्ष्वादिसन्निभा दृष्टिः, इक्षु-रस-कक्कगुडकल्पाः खल्वाद्याश्चतस्रः खण्डशर्करामत्स्यण्डवर्षोलकसमाश्चाग्रिमा इत्याचार्याः । इक्ष्वादिकल्पानामेव रुच्यादिगोचराणां संवेगमाधुर्यभेदोपपत्तेः नलादिकल्पानामभव्यानां संवेगमाधुर्यशून्यत्वादिति ॥२६॥
१२२
योगदृष्टिसंग्रह विक्रियानुपपत्तेः । योगाचार्या एवात्र प्रमाणम् । तदुक्तं
प्रतिपातयुताश्चाद्याश्चतस्त्रो नोत्तरास्तथा । सापाया अपि चैतास्तत्प्रतिपातेन नेतराः ॥ इति । (यो. इ. स. १९)
प्रयाणभङ्गाभावेन निशि स्वापसमः पुनः । विघातो दिव्यभवतश्चरणस्योपजायते ॥२९॥
प्रयाणेति । प्रयाणस्य कान्यकुब्जादावनवरतगमनलक्षणस्य भङ्गाभावेन निशि=रात्रौ स्वापसमः पुनः विघात: प्रतिबन्धः पुनर्दिव्यभवतः= स्वर्गजन्मनः सकाशात् चरणस्य चारित्रस्योपजायते ॥२९॥
यमादियोगयुक्तानां खेदादिपरिहारतः ।
अद्वेषादिगुणस्थानां क्रमेणैषा सतां मता ॥२७॥
यमादीति । यमादयो योगाङ्गत्वाद्योगाः । यथोक्तं- "यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि योगस्येति" (पातं. २-२६) तैर्युक्तानां, खेदादीनां ध्यानाभिधानस्थले प्रोक्तानां योगप्रत्यनीकाशयलक्षणानां परिहारतो अद्वेषादयो येऽष्टौ गुणाः तदुक्तं
अद्वेषो जिज्ञासा शुश्रूषा श्रवणबोधमीमांसाः । परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टाङ्गिकी तत्त्वे ॥ इति । (षोड. १६.१४)
तत्स्थानां तत्प्रतिबद्धवृत्तीनां क्रमेणैषा=दृष्टिः सतां भगवत्पतञ्जलिभदन्तभास्करादीनां योगिनां मता इष्टा ॥२७॥
तादृश्यौदयिके भावे विलीने योगिनां पुनः । जाग्रन्निरन्तरगतिप्राया योगप्रवृत्तयः ॥३०॥
तादृशीति । तादृशि स्वर्गगतिनिबन्धने सरागचारित्रदशावति (दशाभाविनि) औदयिके भावे प्रशस्तरागादिरूपे विलीने पुनर्योगिनां जाग्रतो या निरन्तरा गतयस्तत्प्राया योगिनां प्रवृत्तयो भवन्ति । अक्षेपेणैव मोक्षपुरप्राप्त्युपपत्तेः, तथाविधकर्मरूपश्रमाभावेन तदपनयनार्थस्वापसमस्वभावेनावलम्बादिति भावः ॥३०॥
आद्याश्चतस्त्रः सापायपाता मिथ्यादृशामिह । तत्त्वतो निरपायाश्च भिन्नग्रन्थेस्तथोत्तराः ॥२८॥
आद्या इति । आद्याश्चतस्रो मित्राद्या दृष्टयः इह-जगति मिथ्यादृशां भवन्ति सापायपाता: दुर्गतिहेतुकर्मबलेन तन्निमित्तभावादपायसहिताः । कर्मवैचित्र्याद् भ्रंशयोगेन सपाताश्च न तु सपाता एव, ताभ्यस्तदुत्तरभावादिति । तथा उत्तराः चतस्रः स्थिराद्या दृष्टयो भिन्नग्रन्थेस्तत्त्वतः परमार्थतः निरपायाः ।
श्रेणिकादीनामेतद्भवोपात्तकर्मसामर्थ्य हि तस्यापायस्यापि सदृष्ट्यविघातेन तत्त्वतोऽनपायत्वाद्वज्रतण्डुलवत्पाकेन तदाशयस्य कायदु:खभावेऽपि
मिथ्यात्वे मन्दतां प्राप्ते मित्राद्या अपि दृष्टयः । मार्गाभिमुखभावेन कुर्वते मोक्षयोजनम् ॥३१॥
मिथ्यात्व इति । मिथ्यात्वे मिथ्यात्वमोहनीये कर्मणि मन्दतां प्राप्तेऽपुनर्बन्धकत्वादिभावेन । मित्राद्या अपि दृष्टयः चतस्रः, किं पुनः स्थिराद्या इत्यप्यर्थः । मार्गाभिमुखभावेन मार्गसांमुख्येन द्रव्ययोगतया मोक्षयोजनं कुर्वते । चरमावर्तभावित्वेन समुचितयोग्यतासिद्धेः ॥३१॥