________________
१२०
योगावतारद्वात्रिंशिका
११९ योग इति । जिनेन अर्हता सर्वज्ञेन प्रोक्ते तत्त्वत एकस्मिन्नपि योगे क्षयोपशमवैचित्र्यात् दृष्टिभेदो-दर्शनविशेषः प्रवर्तते । समेघादौ मेघसहितरात्र्यादौ ओघदृष्टिवत् सामान्यदर्शनमिव । तथा हि-एकस्मिन्नपि दृश्ये समेघायां रात्रौ दृष्टिः किञ्चिन्मात्रग्राहिणी, अमेघायां तु मनागधिकतरग्राहिणी । एवं समेघामेघयोदिवसयोरप्यस्ति विशेषः । तथा सग्रहाग्रहयोश्चित्तविभ्रमतदभावाभ्याम्, अर्भकानर्भकयोरपि मुग्धत्वविवेकाभ्याम् उपहतानुपहतलोचनयोश्च दोषगुणाभ्यां ग्राहकयोरपि । तथा प्रकृतेऽपि योगदृष्टिभेद इति भावनीयम् । एतन्निबन्धनोऽयं दर्शनभेद इति योगाचार्याः । न खल्वयं स्थिरादिदृष्टिमतां भिन्नग्रन्थीनां योगिनां, यथाविषयं नयभेदावबोधात, प्रवृत्तिरपि अमीषां परार्थ शुद्धबोधभावेन विनिवृत्ताग्रहतया मैत्र्यादिपारतन्त्र्येण गम्भीरोदाराशयत्वाच्चारिचरकसञ्जीविन्यचरकचारणनीत्येत्याहुः ॥२४॥
सच्छ्रद्धासङ्गतो बोधो दृष्टिः सा चाष्टधोदिता । मित्रा तारा बला दीप्रा स्थिरा कान्ता प्रभा परा ॥२५॥
सच्छ्रद्धेति । सच्छ्रद्धया शास्त्रबाह्याभिप्रायविकलसदूहलक्षणया सङ्गतो बोधो दृष्टिः, तस्या उत्तरोत्तरगुणाधानद्वारा सत्प्रवृत्तिपदावहत्वात् । तदुक्तं
सच्छ्रद्धासङ्गतो बोधो दृष्टिरित्यभिधीयते ।
असत्प्रवृत्तिव्याघातसत्प्रवृत्तिपदावहः ॥ इति । (यो. इ. स. १७) सा चाष्टधोदिता मित्रा तारा बला दीप्रा स्थिरा कान्ता प्रभा परा चेति ॥२५॥
योगदृष्टिसंग्रह संस्काराधानानुपपत्तेः, विकलप्रयोगभावाद्भावतो वन्दनादिकार्यायोगादिति ।
तारा दृष्टिोमयाग्निकणसदृशी । इयमप्युक्तकल्पैव, तत्त्वतो विशिष्टस्थितिवीर्यविकलत्वात्, अतोऽपि प्रयोगकाले स्मृतिपाटवासिद्धेः तदभावे प्रयोगवैकल्यात्, ततः तथातत्कार्याभावादिति ।
__ बला दृष्टिः काष्ठाग्निकणतुल्या, ईषद्विशिष्टा उक्तबोधद्वयात्, तद्भावेनात्र मनाक् स्थितिवीर्ये, अतः पटुप्राया स्मृतिः, इह प्रयोगसमये तद्भावे चार्थप्रयोगमात्रप्रीत्या यत्नलेशभावादिति ।
दीप्रा दृष्टिीपप्रभासदृशी, विशिष्टतरा उक्तबोधत्रयात्, अतोऽत्रोदने स्थितिवीर्ये, तत्पव्यपि प्रयोगसमये स्मृतिः, एवंभावतोऽप्यत्र द्रव्यप्रयोगो वन्दनादौ, तथाभक्तितो यत्नभेदप्रवृत्तेरिति प्रथमगुणस्थानकप्रकर्ष एतावानिति समयविदः ।
स्थिरा च भिन्नग्रन्थेरेव । सा च रत्नाभा, तदवबोधो हि रत्नभास्समानः, तद्भावोऽप्रतिपाती प्रवर्धमानो निरपायो नापरपरितापकृत् परितोषहेतु: प्रायेण प्रणिधानादियोनिरिति ।
कान्ता ताराभा, तदवबोधस्ताराभास्समानः, अतः स्थित एव प्रकृत्या, निरतिचारमत्रानुष्ठानं शुद्धोपयोगानुसारि विशिष्टाप्रमादसचिवं विनियोगप्रधानं गम्भीरोदाराशयमिति ।
प्रभा अर्काभा, तदवबोधस्तरणिभास्समानः, सद्ध्यानहेतुरेव सर्वदा, नेह प्रायो विकल्पावसरः, प्रशमसारं सुखमिह, अकिञ्चित्कराण्यत्रान्यशास्त्राणि समाधिनिष्ठमनुष्ठानं, तत्सन्निधौ वैरादिनाशः, परानुग्रहकर्तृता, औचित्ययोगो विनयेषु, तथाऽवन्ध्या सत्क्रियेति ।
परा तु दृष्टिश्चन्द्राभा, तदवबोधश्चन्द्रिकाभास्समानः, सद्ध्यानरूप एव सर्वदा, विकल्परहितं मनः, तदभावेनोत्तमं सुखं, आरुढारोहणवन्नानुष्ठानं प्रतिक्रमणादि, परोपकारित्वं, यथाभव्यमवन्ध्या क्रियेति ।
तृणगोमयकाष्ठाग्निकणदीपप्रभोपमा । रत्नतारार्कचन्द्राभा क्रमेणेक्ष्वादिसन्निभा ॥२६॥
तृणेति । मित्रा दृष्टिस्तृणाग्निकणोपमा, न तत्त्वतोऽभीष्टकार्यक्षमा, सम्यक्प्रयोगकालं यावदनवस्थानात्, । अल्पवीर्यतया ततः पटुस्मृतिबीज