________________
११७
११८
योगदृष्टिसंग्रह
योगावतारद्वात्रिंशिका
असम्प्रज्ञातनामा तु संमतो वृत्तिसङ्क्षयः । सर्वतोऽस्मादकरणनियमः पापगोचरः ॥२१॥
दुःखात्यन्तविमुक्त्यादि नान्यथा स्याच्छ्रतोदितम् । हेतुः सिद्धश्च भावोऽस्मिन्निति वृत्तिक्षयौचिती ॥२३॥
असम्प्रज्ञातेति । असम्प्रज्ञातनामा तु समाधिः वृत्तिसङ्क्षयः संमतः, सयोग्ययोगिकेवलित्वकाले मनोविकल्पपरिस्पन्दरूपवृत्तिक्षयेण तदुपगमात् ।
तदुक्तं
असम्प्रज्ञात एषोऽपि समाधिर्गीयतेऽपरः ।
निरुद्धाशेषवृत्त्यादितत्स्वरूपानुवेधतः ॥ इति । 'धर्ममेघः' इत्यप्यस्यैव नाम यावत्तत्त्वभावनेन फलमलिप्सोः सर्वथा विवेकख्यातौ धर्ममशक्लाकृष्णं मेहति सिञ्चतीति व्युत्पत्तेः । तदुक्तं-प्रसङ्ख्याने प्यकुसीदस्य सर्वथा विवेकख्यातौ धर्ममेघसमाधिरिति (पातं. ४-२९) । एवमन्येषामपि तत्ततन्वसिद्धानां शब्दानामर्थोऽत्र यथायोग भावनीयः । तदाह
धर्ममेघोऽमृतात्मा च भवचक्रशिवोदयः ।
सत्त्वानन्दपरश्चेति योज्योऽत्रैवार्थयोगतः ॥
अस्माद्=वृत्तिसङ्क्षयात् फलीभूतात् । सर्वतः सर्वः प्रकारैः । पापगोचर:=पापविषयः । अकरणनियमः अनुमीयते इति शेषः । नरकगमनादिवृत्तिनिर्वृत्तेर्महारम्भपरिग्रहादिहेत्वकरणनियमेनैवोपपत्तेः ॥२१॥
दुःखेति । अन्यथा दुःखात्यन्तविमुक्त्यादि श्रुतोदितं सिद्धान्त प्रतिपादितं न स्यात् । तदाह
अन्यथाऽऽत्यन्तिको मृत्युर्भूयस्तत्रागतिस्तथा । न युज्यते हि सन्न्यायादित्यादि समयोदितम् ॥ (यो. बि. ४१७)
न च तत्त्वज्ञानेनैव दुःखात्यन्तविमुक्त्युपपत्तौ किमकरणनियमेनेति वाच्यं तस्यात्यन्तिकमिथ्याज्ञाननाशद्वारा हेतुत्वोपगमे तद्धे त्वकरणनियमस्यावश्याश्रयणीयत्वादिति भावः । अस्मिन् तत्तत्पापस्थानाकरणनियमे च सिद्धः परापराधनिवृत्तिहेतुतत्त्वज्ञानानुगततया प्रतिष्ठितो भाव:=अन्त:करणपरिणामो हेतुः । तदुक्तं
हेतुमस्य परं भावं सत्त्वाद्यागोनिवर्तनम् । प्रधानं करुणारूपं ब्रुवते सूक्ष्मदर्शिनः ॥ इति । (यो. बि. ४२८)
इति एवमकरणनियमोपपत्तौ वृतिक्षयौचिती-वृत्तिक्षयस्य न्याय्यता हेत्वकरणनियमेन फलानुत्पत्तिपर्यायोपपत्तेस्तत्प्रारभावापगमस्यापि योग्यताविगमाख्यस्य हेत्वकरणनियमेनैव फलवत्त्वात् तद्विरहितस्य फलनियतत्वात् । तदुक्तं
मण्डूकभस्मन्यायेन वृत्तिबीजं महामुनिः । योग्यतापगमाद्दग्ध्वा ततः कल्याणमश्नुते ॥ इति । (यो. बि. ४२८)
ननु यद्येक एव योगस्तदा कथं भेदः ? भेदे च प्रकृते किं तदन्तर्भावप्रयासेनेत्यत आह
योगे जिनोक्तेऽप्येकस्मिन् दृष्टिभेदः प्रवर्तते । क्षयोपशमवैचित्र्यात् समेघाद्योघदृष्टिवत् ॥२४॥
ग्रन्थिभेदे यथाऽयं स्याद् बन्धहेतुं परं प्रति । नरकादिगतिष्वेवं ज्ञेयस्तद्धेतुगोचरः ॥२२॥
ग्रन्थिभेद इति । यथाऽयम् अकरणनियमो बन्धहेतुं मिथ्यात्वं परम्= उत्कृष्टं सप्ततिकोटिकोट्यादिस्थितिनिमित्तं प्रति आश्रित्य ग्रन्थिभेदे निरुप्यते । एवं नरकादिगतिषु निवर्तनीयासु तद्धेतुगोचरो नरकादिहेतुविषयोऽकरणनियमो ज्ञेयः ॥२२॥