________________
योगावतारद्वात्रिंशिका तत्त्वायोगात् विशेषणसम्बन्धं विना वैशिष्ट्यस्यापि दुर्वचत्वाच्चेति । तथा च गृहीतृसमापत्तिर्वाङ्मात्रमेवेति भावः ॥१५॥
परमात्मसमापत्तिर्जीवात्मनि हि युज्यते । अभेदेन तथाध्यानादन्तरङ्गस्वशक्तितः ॥१६॥
११६
योगदृष्टिसंग्रह शक्तिस्तदेकद्रव्यत्वात्, अन्तरात्मदशायां च परमात्मनः शक्तिः, बाह्यात्मनस्तु भूतपूर्वनयेन योगः, परमात्मतादशायां च बाह्यात्मान्तरात्मनोईयोरपि भूतपूर्वनयेनैव योग इति वदन्ति । तत्त्वमत्रत्यमध्यात्ममतपरीक्षायां व्यवस्थापितमस्माभिः ॥१८॥ (श्लो. १२५-वृत्ति)
विषयस्य समापत्तिरुत्पत्तिर्भावसञ्जिनः । आत्मनस्तु समापत्तिर्भावौ द्रव्यस्य तात्त्विकः ॥१९॥
परमात्मेति । जीवात्मनि हि परमात्मसमापत्तिः तथापरिणामलक्षणा युज्यते । अभेदेन तथा परमात्मत्वेन ध्यानाद् जीवात्मनः अन्तरङ्गायाःउपादानभूतायाः स्वशक्तितः तथापरिणमनादात्मशक्तेः, शक्त्या सत एव व्यक्ता(क्त्या) परिणमनस्य तथासामग्रीतः सम्भवादिति भावः ॥१६॥
जीवात्मनि परमात्मनः सत्त्वोपपत्त्यर्थमात्मत्रयं सन्निहितमुपदर्शयतिबाह्यात्मा चान्तरात्मा च परमात्मेति त त्रयः । कायाधिष्ठायकध्येयाः प्रसिद्धा योगवाङ्मये ॥१७॥
विषयस्येति । विषयस्य आत्मातिरिक्तस्य भावस्य समापत्तिर्भावसझिनो भावाभिधानस्य उत्पत्तिरुच्यते । वदन्ति हि नयदक्षाः "अग्न्युपयुक्तो माणवकोऽप्यग्निरेवेति" । शब्दार्थप्रत्ययानां तुल्याभिधानत्वात् नत्वर्थज्ञानयोः कश्चनैकवृत्त्यारूढतया एकत्वपरिणाम: सम्भवति, चेतनत्वाचेतनत्वयोविरोधादिति भावः । आत्मनस्तु समापत्तिर्द्रव्यस्य परमात्मदलस्य तात्त्विक: सहजशुद्धो भाव:=परिणामः ॥१९॥
अत एव च योऽर्हन्तं स्वद्रव्यगुणपर्ययैः । वेदात्मानं स एव स्वं वेदेत्युक्तं महार्षिभिः ॥२०॥
बाह्यात्मा चेति । कायः स्वात्मधिया प्रतीयमानोऽहं स्थूलोऽहं कृश इत्यायल्लेखेन, अधिष्टायकः कायचेष्टाजनकप्रयत्नवान्, ध्येयाश्च ध्यानभाव्या एते त्रयो=बाह्यात्मा चान्तरात्मा च परमात्मा चेति योगवाङ्मये योगशास्त्रे प्रसिद्धाः । एतेषां च स्वेतरभेदप्रतियोगित्वध्यातृत्वध्येयत्वैानोपयोगस्तात्त्विकातात्त्विकैकत्वपरिणामतश्च सन्निधानमतात्त्विकपरिणामनिवृत्तौ तात्त्विकपरिणामोपलम्भश्च समापत्तिरिति ध्येयम् ॥१७॥
अन्ये मिथ्यात्वसम्यक्त्वकेवलज्ञानभागिनः । मिश्रे च क्षीणमोहे च विश्रान्तास्ते त्वयोगिनि ॥१८॥
अत एव चेति । यत एव दलतया परमात्मैव जीवात्मा, अत एव च योऽर्हन्तं तीर्थकरं स्वद्रव्यगुणपर्ययैः निजशुद्धात्मकेवलज्ञानस्वभावपरिणमनलक्षणैः वेद जानाति, स एव स्वम् आत्मानं वेद-तत्त्वतो जानाति, तथाज्ञानस्य तथाध्यानद्वारा तथासमापत्तिजनकत्वादिति महषिभिरुक्तम् । यतः पठ्यते
जो जाणइ अरहंते दव्वत्तगुणत्तपज्जयत्तेहिं ।। सो जाणड अप्पाणं मोहो खलु जाइ तस्स लयं ॥ (प्रवचनसार १.८४,)
न च एतद्गाथाकर्तुर्दिगम्बरत्वेन महर्षित्वाभिधानं न निरवद्यमिति मूढधिया शङ्कनीयं, सत्यार्थकथनगुणेन व्यासादीनामपि हरिभद्राचार्यैस्तथाभिधानादिति द्रष्टव्यम् ॥२०॥
अन्य इति । अन्ये पुनराहु: मिथ्यात्वसम्यक्त्वकेवलज्ञानभागिनो बाह्यात्माऽन्तरात्मपरमात्मानः । ते तु मिश्रे च क्षीणमोहे चायोगिनि च गुणस्थाने क्रमेण विश्रान्ताः । तत्र च बाह्यात्मतादशायामन्तरात्मपरमात्मनोः