Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 85
________________ कुतर्कग्रहनिवृत्तिद्वात्रिंशिका १५७ आदर इति । आदरो यत्नातिशय इष्टाप्तौ । करणे प्रीतिः = अभिष्वङ्गात्मिका । अविघ्नः=करण एवादृष्टसामर्थ्यादपायाभावः । सम्पदागमः=तत एव शुभभावपुण्यसिद्धेः । जिज्ञासा = इष्टादिगोचरा । तज्ज्ञसेवा च इष्टादिज्ञसेवा । चशब्दात्तदनुग्रहः । एतत् सदनुष्ठानलक्षणं तदनुबन्धसारत्वात् ॥२४॥ भवाय बुद्धिपूर्वाणि विपाकविरसत्वतः । कर्माणि ज्ञानपूर्वाणि श्रुतशक्त्या च मुक्तये ॥ २५॥ भवायेति । बुद्धिपूर्वाणि कर्माणि स्वकल्पनाप्राधान्याच्छास्त्रविवेकानादरात् । विपाकस्य विरसत्वतो भवाय = संसाराय भवन्ति । तदुक्तं बुद्धिपूर्वाणि कर्माणि सर्वाण्येवेह देहिनाम् । संसारफलदान्येव विपाकविरसत्वतः ॥ ( यो. ह. स. १२४) ज्ञानपूर्वाणि च तानि तथाविवेकसम्पत्तिजनितया श्रुतशक्त्या अमृतशक्तिकल्पया मुक्तये = निःश्रेयसाय । यदुक्तं ज्ञानपूर्वाणि तान्येव मुक्त्यङ्गं कुलयोगिनाम् । श्रुतशक्तिसमावेशादनुबन्धफलत्वतः ॥ (यो. ह. स. १२५ ) असंमोहसमुत्थानि योगिनामाशु मुक्तये । भेदेऽपि तेषामेकोऽध्वा जलधौ तीरमार्गवत् ॥२६॥ असंमोहेति असंमोहसमुत्थानि तु कर्माणि । योगिनां भवातीतार्थयायिनां । आशु=शीघ्रं न पुनर्ज्ञानपूर्वकवदभ्युदयलाभव्यवधानेऽपि मुक्तये भवन्ति । यथोक्तं असंमोहसमुत्थानि त्वेकान्तपरिशुद्धितः । निर्वाणफलदान्याशु भवातीतार्थयायिनाम् ॥ प्राकृतेष्विह भावेषु येषां चेतो निरुत्सुकम् । भवभोगविरक्तास्ते भवातीतार्थयायिनः ॥ (यो. ह. स. १२६-२७) योगदृष्टिसंग्रह भेदेऽपि=गुणस्थानपरिणतितारतम्येऽपि तेषां योगिनाम् एकोऽध्वा= एक एव मार्गः । जलधौ - समुद्र तीरमार्गवत् = दूरासन्नादिभेदेऽपि तत्त्वतस्तदैक्यात् । प्राप्यस्य मोक्षस्य सदाशिवपरब्रह्मसिद्धात्मतथतादिशब्दैर्वाच्यस्य १५८ शाश्वतशिवयोगातिशयितसद्भावालम्बनबृहत्त्वबृंहकत्वनिष्ठितार्थत्वाकालतथाभावाद्यर्थाभेदेनैकत्वात्तन्मार्गस्यापि तथात्वात् । तदुक्तं एक एव तु मार्गोऽपि तेषां शमपरायणः । अवस्थाभेदभेदेऽपि जलधौ तीरमार्गवत् ॥ संसारातीततत्त्वं तु परं निर्वाणसञ्ज्ञितम् । तथैकमेव नियमाच्छब्दभेदेऽपि तत्त्वतः ॥ सदाशिवः परं ब्रह्म सिद्धात्मा तथतेति च । शब्दस्तदुच्यते ऽन्वर्थादेकमेवैवमादिभिः ॥ तल्लक्षणाविसंवादान्निराबाधमनामयम् । निष्क्रियं च परं तत्त्वं यतो जन्माद्ययोगतः ॥ ज्ञाते निर्वाणतत्त्वेऽस्मिन्नसंमोहेन तत्त्वतः । प्रेक्षावतां न तद्भक्तौ विवाद उपपद्यते । (यो. ह. स. १२८-३२) तस्मादचित्रभक्त्याप्याः सर्वज्ञा न भिदामिताः । चित्रा गीर्भववैद्यानां तेषां शिष्यानुगुण्यतः ॥२७॥ तस्मादिति । तस्मात्=सर्वेषां योगिनामेकमार्गगामित्वात् । अचित्रभक्त्या = एकरूपया भक्त्या । आप्याः प्राप्याः सर्वज्ञाः न भिदामिता = न भेदं प्राप्ताः । तदुक्तं सर्वज्ञपूर्वकं चैतन्नियमादेव यत्स्थितम् । आसन्नोऽयमृजुर्मार्गस्तद्भेदस्तत्कथं भवेत् ? । (यो. ह. स. १३३) कथं तर्हि देशनाभेदः ? इत्यत आह तेषां सर्वज्ञानां भववैद्यानां=

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131