Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 84
________________ कुतर्कग्रहनिवृत्तिद्वात्रिंशिका देवेषु योगशास्त्रेषु चित्राचित्रविभागतः । भक्तिवर्णनमप्येवं युज्यते तदभेदतः ॥१९॥ १५५ देवेष्विति । एवम्=इष्टानिष्टनामभेदेऽपि । तदभेदतः = तत्त्वतः सर्वज्ञाभेदात् । योगशास्त्रेषु=सौवाध्यात्मचिन्ताशास्त्रेषु देवेषु =लोकपालमुक्तादिषु । चित्राचित्रविभागतो भक्तिवर्णनं युज्यते । तदुक्तं चित्राचित्रविभागेन यच्च देवेषु वर्णिता । भक्तिः सद्योगशास्त्रेषु ततोऽप्येवमिदं स्थितम् ।। (यो. ह. स. ११० ) संसारिषु हि देवेषु भक्तिस्तत्कायगामिनाम् । तदतीते पुनस्तत्त्वे तदतीतार्थयायिनाम् ॥२०॥ संसारिष्विति । संसारिषु हि=देवेषु लोकपालादिषु । भक्तिः = सेवा | तत्कायगामिनां=संसारिदेवकायगामिनां । तदतीते पुनः=संसारातीते तु तत्त्वे तदतीतार्थयायिनां = संसारातीतमार्गगामिनां योगिनां भक्तिः ||२०|| चित्रा चाद्येषु तद्रागतदन्यद्वेषसङ्गता । अचित्रा चरमे त्वेषा शमसाराखिलैव हि ॥ २१ ॥ चित्रा चेति । चित्रा च नानाप्रकारा च । आद्येषु = सांसारिकेषु देवेषु । तद्रागतदन्यद्वेषाभ्यां = स्वाभीष्टदेवतारागानभीष्टद्वेषाभ्यां सङ्गता= युक्ता, मोहगर्भत्वात् । अचित्रा = एकाकारा चरमे तु तदतीते तु । एषा = भक्ति: । शमसारा=शमप्रधाना अखिलैव हि तथासंमोहाभावात् इति ॥२१॥ इष्टापूर्तानि कर्माणि लोके चित्राभिसन्धितः । फलं चित्रं प्रयच्छन्ति तथाबुद्ध्यादिभेदतः ॥२२॥ इष्टापूर्तानीति । इष्टापूर्तानि कर्माणि लोके चित्राभिसन्धितः = योगदृष्टिसंग्रह संसारिदेवस्थानादिगतविचित्राध्यवसायात् मृदुमध्याधिमात्ररागादिरूपात् । तथा बुद्ध्यादीनां वक्ष्यमाणलक्षणानां भेदतः फलं चित्रं नानारूपं प्रयच्छन्ति । विभिन्नानां नगराणामिव विभिन्नानां संसारिदेवस्थानानां प्राप्तेरुपायस्यानुष्ठानस्याभिसन्ध्यादिभेदेन विचित्रत्वात् । तदुक्तं १५६ संसारिणां हि देवानां यस्माच्चित्राण्यनेकधा । स्थित्यैश्वर्यप्रभावादौ स्थानानि प्रतिशासनम् ॥ ( यो. ह. स. १२४) तस्मात् तत्साधनोपायो नियमाच्चित्र एव हि । न भिन्ननगराणां स्यादेकं वर्त्म कदाचन ॥ (यो. ह. स. १११-१२) बुद्धिर्ज्ञानमसंमोहस्त्रिविधो बोध इष्यते । रत्नोपलम्भतज्ज्ञानतदवाप्तिनिदर्शनात् ॥२३॥ बुद्धिरिति । बुद्धिः = तथाविधोहरहितं शब्दार्थश्रवणमात्रजं ज्ञानम् । यदाह - "इन्द्रियार्थाश्रया बुद्धिः । (यो. ह. स. १२१ ) ज्ञानं तथाविधोहेन गृहीतार्थतत्त्वपरिच्छेदनम् । तदाह - "ज्ञानं त्वागमपूर्वकम्" (यो. ह. स. १२१) । असंमोहो=हेयोपादेयत्यागोपादानोपहितं ज्ञानम् । यदाह - "सदनुष्ठानवच्चैतदसंमोहोऽभिधीयते । (यो. ह. स. १२१ ) एवं त्रिविधो बोध इष्यते स्वस्वपूर्वाणां कर्मणां भेदसाधकः "तद्भेदात्सर्वकर्माणि भिद्यन्ते सर्वदेहिनाम्" (यो. ह. स. १२० ) इति वचनात् । रत्नोपलम्भतज्ज्ञानतदवाप्तीनां निदर्शनात् । यथा ह्युपलम्भादिभेदाद्रनग्रहणभेदस्तथा प्रकृतेऽपि बुद्धयादिभेदादनुष्ठानभेद इति ॥२३॥ आदर: करणे प्रीतिरविघ्नः सम्पदागमः । जिज्ञासा तज्ज्ञसेवा च सदनुष्ठानलक्षणम् ॥२४॥

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131