Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 83
________________ १५३ १५४ कुतर्कग्रहनिवृत्तिद्वात्रिंशिका न तत्त्वतो भिन्नमताः सर्वज्ञा बहवो यतः ।। मोहस्तदधिमुक्तीनां तद्भेदाश्रयणं ततः ॥ (यो. ह. सा. १०२) योगदृष्टिसंग्रह अतः सामान्यप्रतिपत्त्यंशेन सर्वयोगिषु परिशिष्टा तुल्यतैव भावनीये त्याह सर्वज्ञो मुख्य एकस्तत्प्रतिपत्तिश्च यावताम् । सर्वेऽपि ते तमापन्ना मुख्यं सामान्यतो बुधाः ॥१५॥ सर्वज्ञ इति । सर्वज्ञो मुख्यः तात्त्विकाराधनाविषय एकः सर्वज्ञत्वजात्यविशेषात् । तदुक्तं सर्वज्ञो नाम यः कश्चित् पारमार्थिक एव हि । स एक एव सर्वत्र व्यक्तिभेदेऽपि तत्त्वतः ।। (यो. इ. स. १०३) तत्प्रतिपत्तिः सर्वज्ञभक्तिश्च यावतां तत्तद्दर्शनस्थानां ते सर्वेऽपि= बुधास्तं सर्वज्ञं मुख्यं सामान्यतो विशेषानिर्णयेऽपि आपन्ना=आश्रिताः, निरतिशयितगुणवत्त्वेन प्रतिपत्तेः वस्तुतः सर्वज्ञविषयकत्वात्, गुणवत्तावगाहनेनैव तस्या भक्तित्वाच्च । यथोक्तं प्रतिपत्तिस्ततस्तस्य सामान्येनैव यावताम् । ते सर्वेऽपि तमापन्ना इति न्यायगतिः परा ॥ (यो. इ. स. १०४) सर्वज्ञप्रतिपत्त्यंशमाश्रित्यामलया धिया । निर्व्याजं तुल्यता भाव्या सर्वतन्त्रेषु योगिनाम् ॥१७॥ सर्वज्ञेति । सर्वज्ञप्रतिपत्त्यंशमाश्रित्य अमलया रागद्वेषमलरहितया । धिया बुद्ध्या । निर्व्याजम् औचित्येन सर्वज्ञोक्तपालनपरतया तुल्यता भाव्या । सर्वतन्त्रेषु सर्वदर्शनेषु । योगिनां मुमुक्षूणां । तदुक्तं तस्मात्सामान्यतोऽप्येनमभ्युपैति य एव हि । निर्व्याजं तुल्य एवासौ तेनांशेनैव धीमता ॥ (यो. इ. स. १०६) अवान्तरभेदस्तु सामान्यविरोधीत्याह दूरासन्नादिभेदोऽपि तद्भूत्यत्वं निहन्ति न । एको नामादिभेदेन भिन्नाचारेष्वपि प्रभुः ॥१८॥ न ज्ञायते विशेषस्तु सर्वथाऽसर्वदर्शिभिः । अतो न ते तमापन्ना विशिष्य भुवि केचन ॥१६॥ नेति । विशेषस्तु सर्वज्ञज्ञानादिगतभेदस्तु । असर्वदर्शिभिः= छद्मस्थैः । सर्वथा सर्वैः प्रकारैः । न ज्ञायते । अतो न ते सर्वज्ञाभ्युपगन्तारः । तं सर्वज्ञम् आपन्ना आश्रिताः । विशिष्य भुवि पृथिव्यां केचन । तदुक्तं विशेषस्तु पुनस्तस्य कार्येनासर्वदर्शिभिः । सर्वैर्न ज्ञायते तेन तमापन्नो न कश्चन ।। (यो. इ. स. १०५) दूरेति । दूरासन्नादिभेदस्तु तद्भूत्यत्वं सर्वज्ञोपासकत्वं न निहन्ति । एकस्य राज्ञो नानाविधप्रतिपत्तिकृतामपि एकभृत्यत्वाविशेषवत् प्रकृतोपपत्तेः । भिन्नाचारेष्वपि तथाविधाकारभेदेन नानाविधानुष्ठानेष्वपि योगिषु नामादीनाम् अर्हदादिसज्ञादीनां भेदेन एकः प्रभुः उपास्यः । तदुक्तं यथैवैकस्य नृपतेर्बहवोऽपि समाश्रिताः । दूरासन्नादिभेदेऽपि तद्धृत्याः सर्व एव ते ॥ सर्वज्ञतत्त्वाभेदेन तथा सर्वज्ञवादिनः । सर्वे तत्तत्त्वगा ज्ञेया भिन्नाचारस्थिता अपि । न भेद एव तत्त्वेन सर्वज्ञानां महात्मनाम् । तथानामादिभेदेऽपि भाव्यते तन्महात्मभिः ॥ (यो. इ. स. १०७-८-९)

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131