Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 81
________________ कुतर्कग्रहनिवृत्तिद्वात्रिंशिका उक्तं च योगमार्गज्ञैस्तपोनिर्धूतकल्मषैः । भावियोगिहितायोच्चैर्मोहदीपसमं वचः ॥४॥ उक्तं चेति । उक्तं च= निरूपितं पुनः । योगमार्गज्ञैः=अध्यात्मवद्भिः पतञ्जलिप्रभृतिभिः । तपसा निर्धूतकल्मषैः = प्रशमप्रधानेन तपसा क्षीणमार्गानुसारिबोधबाधकमोहमलैः । भावियोगिहिताय = भविष्यद्विवादबहुलकलिकालयोगिहितार्थम् । उच्चैः=अत्यर्थम् । मोहदीपसमं=मोहान्धकारप्रदीपस्थानीयम् । वचो = वचनम् ॥४॥ वादांश्च प्रतिवादांश्च वदन्तो निश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद् गतौ ॥५॥ १४९ वादांश्चेति । वादांश्च=पूर्वपक्षरूपान् । प्रतिवादांश्च= परोपन्यस्तपक्षप्रतिवचनरूपान् । वदन्तो = ब्रुवाणाः । निश्चितान् = असिद्धानैकान्तिकादिहेत्वभासनिरासेन । तथा तेन प्रकारेण तत्तच्छास्त्रप्रसिद्धेन सर्वेऽपि दर्शनिनो मुमुक्षवोऽपि । तत्त्वान्तम्=आत्मादितत्त्वप्रसिद्धिरूपम् । नैव गच्छन्ति= प्रतिपद्यन्ते । तिलपीलकवत् = तिलपीलक इव । निरुद्धाक्षिसञ्चारस्तिलयन्त्रवाहनपरो यथा ह्ययं नित्यभ्रम्यन्नपि निरुद्धाक्षतया न तत्परिमाणमवबुध्यते, एवमेतेऽपि वादिन: स्वपक्षाभिनिवेशान्धा विचित्रं वदन्तोऽपि नोच्यमानतत्त्वं प्रतिपद्यन्ते इति ॥५ ॥ विकल्पकल्पनाशिल्पं प्रायोऽविद्याविनिर्मितम् । तद्योजनामयश्चात्र कुतर्कः किमनेन तत् ? ॥६॥ विकल्पेति । विकल्पाः = शब्दविकल्पा अर्थविकल्पाश्च तेषां कल्पनारूपं शिल्पम् । प्रायो=बाहुल्येन । अविद्याविनिर्मितं =ज्ञानावरणीयादिकर्मसंपर्कजनितम् । तद्योजनामयः = तदेकधारात्मा चात्र कुतर्कः । तत् किमनेन ? मुमुक्षूणां दुष्टकारणप्रभवस्य सत्कार्याहेतुत्वात् ॥६॥ १५० योगदृष्टिसंग्रह जातिप्रायश्च बाध्योऽयं प्रकृतान्यविकल्पनात् । हस्ती हन्तीतिवचने प्राप्ताप्राप्तविकल्पवत् ॥७॥ जातिप्रायश्चेति । जातिप्रायश्च = दूषणाभासकल्पश्च । बाध्यः प्रतीतिफलाभ्याम् अयं=कुतर्कः । प्रकृतान्यस्य = उपादेयाद्यतिरिक्तस्य अप्रयोजनस्य वस्त्वंशस्य विकल्पनात् । हस्ती हन्तीति वचने हस्त्यारूढेनोक्ते प्राप्ताप्राप्तविकल्पवद् नैयायिकच्छात्रस्य । यथा ह्ययमित्थं वक्तारं प्रति - " किमयं हस्ती प्राप्तं व्यापादयति ? उताप्राप्तं ? आद्ये त्वामपि व्यापादयेत्, अन्त्ये च जगदपीति विकल्पयन्नेव हस्तिना गृहीतो मिण्ठेन कथमपि मोचितः । तथा तथाविधविकल्पकारी तत्तद्दर्शनस्थोऽपि कुतर्कहस्तिना गृहीतः सद्गुरुमिण्ठेनैव मोच्यत इति ॥७॥ स्वभावोत्तरपर्यन्त एषोऽत्रापि च तत्त्वतः । नार्वाग्हग्ज्ञानगम्यत्वमन्यथाऽन्येन कल्पनात् ॥८॥ स्वभावेति । एष=कुतर्कः । स्वभावोत्तरपर्यन्तः । अत्र च " वस्तुस्वभावैरुत्तरं वाच्यं" इति वचनात् । अत्रापि च स्वभावे नार्वाग्दृश:= छद्मस्थस्य ज्ञानगम्यत्वं तत्त्वतः । अन्यथा क्लृप्तस्यैकेन वादिना स्वभावस्य अन्येन अन्यथाकल्पनात् ॥८॥ तथाहि अपां दाहस्वभावत्वे दर्शिते दहनान्तिके । विप्रकृष्टेऽप्ययस्कान्ते स्वार्थशक्तेः किमुत्तरम् ? ॥९॥ अपामिति । अपां= शैत्यस्वभावत्ववादिनं प्रति अपां दहनान्तिके दाहस्वभावत्वे दर्शिते अध्यक्षविरोधपरिहारात् । विप्रकृष्टेऽप्ययस्कान्ते स्वार्थशक्ते: लोहाकर्षणशक्तेर्विप्रकर्षमात्रस्याप्रयोजकत्वात् किमुत्तरम् ? अन्यथा

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131