Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 73
________________ मित्रादृष्टिद्वात्रिंशिका मिथ्यादृष्टौ पुंसि प्रवर्तते= स्खलद्वृत्तियोगविषयीभवति । तस्य = गुणस्थानपदस्य । नूनं=निश्चितम् । अस्यां मित्रायां दृष्टौ । अन्वर्थयोजना योगार्थघटना । उपपद्यते सत्प्रणामादियोगबीजोपादानगुणभाजनत्वस्यास्यामेवोपपत्तेः । तदुक्तं हरिभद्रसूरिभि: प्रथमं यद् गुणस्थानं सामान्येनोपवर्णितम् । अस्यां तु तदवस्थायां मुख्यमन्वर्थयोगतः ॥ (यो. ह. स. ४० ) इति । व्यक्तमिथ्यात्वधीप्राप्तिरप्यन्यत्रेयमुच्यते । घने मले विशेषस्तु व्यक्ताव्यक्तधियोर्नु कः ॥२५॥ १३३ व्यक्तेति । अन्यत्र ग्रन्थान्तरे व्यक्तमिथ्यात्वधीप्राप्तिः = मिथ्यात्वगुणस्थानपदप्रवृत्तिनिमित्तत्वेन । इयं मित्रा दृष्टिरेव उच्यते, व्यक्तत्वेन तत्रास्या एव ग्रहणात् । घने= तीव्रे मले तु सति । नु इति वितर्के । व्यक्ताव्यक्तयोर्धियोः को विशेषः ? दुष्टाया धियो व्यक्ताया अव्यक्तापेक्षया प्रत्युतातिदुष्टत्वान्न कथञ्चिद्गुणस्थानत्वनिबन्धनत्वमिति भावः । विचित्रतया निगमस्य बहुभेदत्वात् तद्भेदविशेषाश्रयणेन वाऽन्यत्र तथाभिधानमिति परिभावनीयं सूरिभिः ॥२५॥ यमः सद्योगमूलस्तु रुचिवृद्धिनिबन्धनम् । शुक्लपक्षद्वितीयाया योगश्चन्द्रमसो यथा ॥ २६ ॥ उत्कर्षापकर्षाच्च शुद्धयशुद्धयोरयं गुणः । मित्रायामपुनर्बन्धात् कर्मणां स प्रवर्तते ॥२७॥ गुणाभासत्वकल्याणमित्रयोगे न कश्चन । अनिवृत्ताग्रहत्वेनाभ्यन्तरज्वरसन्निभः ॥२८॥ मुग्धः सद्योगतो धत्ते गुणं दोषं विपर्ययात् । स्फटिको नु विधत्ते हि शोणश्यामसुमत्विषम् ॥२९॥ १३४ योगदृष्टिसंग्रह यथौषधीषु पीयूषं द्रुमेषु स्वद्रुमो यथा । गुणेष्वपि सतां योगस्तथा मुख्य इहेष्यते ॥३०॥ विनैनं मतिमूढानां येषां योगोत्तमस्पृहा । तेषां हन्त ! विना नावमुत्तितीर्षा महोदधेः ॥ ३१ ॥ तन्मित्रायां स्थितो दृष्टौ सद्योगेन गरीयसा । समारुह्य गुणस्थानं परमानन्दमश्नुते ॥३२॥ शिष्टा सप्तश्लोकी सुगमा ।। २६ २७ २८ २९ ३०-३१-३२ ॥ ॥ इति मित्राद्वात्रिंशिका ॥

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131