Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 77
________________ १४१ तारादित्रयद्वात्रिंशिका रेचकः स्याद् बहिर्वत्तिरन्तर्वृत्तिश्च पूरकः । कुम्भकः स्तम्भवृत्तिश्च प्राणायामस्त्रिधेत्ययम् ॥१७॥ रेचक इति बहिर्वृत्तिः श्वासो रेचकः स्यात् । अन्तर्वृत्तिश्च प्रश्वासः पूरकः । स्तम्भवृत्तिश्च कुम्भकः । यस्मिन् जलमिव कुम्भे निश्चलतया प्राणोऽवस्थाप्यते । इत्ययं त्रिधा प्राणायामः प्राणगतिविच्छेदः । यदाह"तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः" इति (पातं. २-४६) । अयं च नासाद्वादशान्तादिदेशेन षड्विंशतिमात्रादिप्रमाणकालेन । सङ्ख्यया चेयतो वारान् कृत एतावद्भिश्च श्वासप्रश्वासैः प्रथम उद्घातो भवतीत्यादिलक्षणोपलक्षितो दीर्घसूक्ष्मसज्ञ आख्यायते । यथोक्तं-"स तु बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्म इति (पातं. २-५०) । बाह्याभ्यन्तरविषयो द्वादशान्तहदयनाभिचक्रादिरूप एव पर्यालोच्यैव सहसा तप्तोपलनिपतितजलन्यायेन युगपत् स्तम्भवृत्त्या निष्पद्यमानात् कुम्भकात्तत्पर्यालोचनपूर्वकत्वमात्रभेदेन च चतुर्थोऽपि प्राणायाम इष्यते । यथोक्तं"बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः' इति (पातं. २-५१) ॥१७॥ योगदृष्टिसंग्रह उस्सासं ण णिरुंभइ आभिग्गहिओ वि किमु अचेला । पसज्जमरणं निरोहे मुहुमुस्सासं च जयणाए ॥ (आव. निर्यु. १५१०) एतच्च पतञ्जल्यायुक्तं क्वचित्=पुरुषविशेष योग्यतानुगं योग्यतानुसारि युज्यते, नानारुचित्वाद्योगिनां, प्राणायामरुचीनां प्राणायामेनापि फलसिद्धेः स्वरुचिसम्पत्तिसिद्धस्योत्साहस्य योगोपायत्वात् । यथोक्तं योगबिन्दौ(४११) उत्साहान्निश्चयाद्धैर्यात्सन्तोषात्तत्त्वदर्शनात् ।। मुनेर्जनपदत्यागात् षड्भिर्योगः प्रसिध्यति ॥ इति । तस्माद्यस्य प्राणवृत्तिनिरोधेनैवेन्द्रियवृत्तिनिरोधस्तस्य तदुपयोग इति तत्त्वम् ॥१८॥ रेचनाद् बाह्यभावानामन्तर्भावस्य पूरणात् । कुम्भनान्निश्चितार्थस्य प्राणायामश्च भावतः ॥१९॥ धारणायोग्यता तस्मात् प्रकाशावरणक्षयः । अन्यैरुक्तः क्वचिच्चैतद्युज्यते योग्यतानुगम् ॥१८॥ रेचनादिति । बाह्यभावानां कुटुम्बदारादिममत्वलक्षणानां रेचनात् । अन्तर्भावस्य श्रवणजनितविवेकलक्षणस्य पूरणात् । निश्चितार्थस्य कुम्भनात् स्थिरीकरणाच्च । भावतः प्राणायामः अयमेवाव्यभिचारेण योगाङ्गम् । अत एवोक्तं-"प्राणायामवती चतुर्थाङ्गभावतो भावरेचकादिभावादिति" ॥१९॥ धारणेति । तस्मात् प्राणायामात् धारणानां योग्यता, प्राणायामेन स्थिरीकृतं चेतः सुखेन नियतदेशे धार्यत इति । तदुक्तं-"धारणासु च योग्यता मनसः" (पातं. २-५३) इति । तथा प्रकाशस्य=चित्तसत्त्वगतस्य यद् आवरणं क्लेशरूपं तत्क्षयः । तदुक्तं-"ततः क्षीयते प्रकाशावरणमिति" (पातं. २-५२) । अयम् अन्यैः पतञ्जल्यादिभिरुक्तः भगवत्प्रवचने तु व्याकुलताहेतुत्वेन निषिद्ध एव श्वासप्रश्वासरोधः, यथायोगसमाधानमेव प्रवृत्तेः श्रेयस्त्वात्, प्राणरोधपलिमन्थस्याऽनतिप्रयोजनत्वात् । तदुक्तं प्राणेभ्योऽपि गुरुर्धर्मः प्राणायामविनिश्चयात् । प्राणांस्त्यजति धर्मार्थं न धर्मं प्राणसङ्कटे ॥२०॥ प्राणेभ्योऽपीति । प्राणेभ्योऽपि=इन्द्रियादिभ्योऽपि गुरुः महत्तरो धर्मः । इत्यतो भावप्राणायामतो विनिश्चयात् धर्मार्थं प्राणांस्त्यजति, तत्रोत्सर्गप्रवृत्तेः । अत एव न धर्मं त्यजति प्राणसङ्कटे प्राणकष्टे ॥२०॥

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131