Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 75
________________ १३७ तारादित्रयद्वात्रिंशिका प्रणिधानत ईश्वरप्रणिधानात् समाधिः स्यात्, ईश्वरभक्त्या प्रसन्नो हीश्वरोऽन्तरायरूपान् क्लेशान् परिहत्य समाधिमुबोधयतीति । यथोक्तं"समाधिसिद्धिरीश्वरप्रणिधानादिति" (पातं. २-४५) तप:स्वाध्यायेश्वरप्रणिधानानां त्रयाणामपि च शोभनाध्यवसायलक्षणत्वेन क्लेशकार्यप्रतिबन्धद्वारा समाध्यनुकूलत्वमेव श्रूयते । यथोक्तं-"तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः (पातं. २-१) समाधिभावनार्थः क्लेशतनुकरणार्थश्चेति" ॥४॥ (पातं. २-२) १३८ योगदृष्टिसंग्रह भयमिति । भवज संसारोत्पन्नं तीव्र भयं न भवति, तथाऽशुभाप्रवृत्तेः । उचिता क्रिया क्वचिदपि कार्ये न हीयते, सर्वत्रैव धर्मादरात् । न चानाभोगतोऽपि अज्ञानादपि अत्यन्तानुचितक्रिया साधुजननिन्दादिका स्यात् ॥७॥ स्वकृत्ये विकले त्रासो जिज्ञासा सस्पहाधिके । दुःखोच्छेदार्थिनां चित्रे कथन्ताधीः परिश्रमे ॥८॥ विज्ञाय नियमानेतानेवं योगोपकारिणः । अत्रैतेषु रतो दृष्टौ भवेदिच्छादिकेषु हि ॥५॥ विज्ञायेति । एतान् शौचादीन् नियमान् एवं= स्वाङ्गजुगुप्सादिसाधकत्वेन योगोपकारिणः समाधिनिमित्तान् विज्ञाय । अत्र तारायां दृष्टौ एतेषु इच्छादिकेषु हि नियमेषु रतो भवेत् । तथाज्ञानस्य तथारुचिहेतुत्वात् । तदत्र काचित्प्रतिपत्तिः प्रदर्शिता ॥५॥ स्वकृत्य इति । स्वकृत्ये स्वाचारे कायोत्सर्गकरणादौ । विकले विधिहीने । त्रासो='हा विराधकोऽहम्' इत्याशयलक्षणः । अधिके स्वभूमिकापेक्षयोत्कृष्टे आचार्यादिकृत्ये जिज्ञासा 'कथमेतदेवं स्यादिति' सस्पृहाऽभिलाषसहिता । दुःखोच्छेदार्थिनां संसारक्लेशजिहासूनां । चित्रे नानाविधे । परिश्रमे तत्तन्नीतिप्रसिद्धक्रियायोगे । कथन्ताधीः कथंभावबुद्धिः । 'कथं नानाविधा मुमुक्षुप्रवृत्तिः कात्स्येन ज्ञातुं शक्यते' इति । तदाह दुःखरूपो भवः सर्व उच्छेदोऽस्य कुतः कथम् । चित्रा सतां प्रवृत्तिश्च साऽशेषा ज्ञायते कथम् ? (यो. इ. स. ४७) नास्माकं महती प्रज्ञा सुमहान् शास्त्रविस्तरः । शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा ॥९॥ भवत्यस्यामविच्छिन्ना प्रीतिर्योगकथासु च । यथाशक्त्युपचारश्च बहुमानश्च योगिषु ॥६॥ भवतीति । अस्यां दृष्टौ अविच्छिन्ना भावप्रतिबन्धसारतया विच्छेदरहिता योगकथासु प्रीतिः भवति । योगिषु भावयोगिषु यथाशक्ति स्वशक्त्यौचित्येन उपचारश्च ग्रासादिसम्पादनेन, बहुमानश्च अभ्युत्थानगुणगानादिना । अयं च शुद्धपक्षपातपुण्यविपाकाद्योगवृद्धिलाभान्तरशिष्टसंमतत्वक्षुद्रोपद्रवहान्यादिफल इति ध्येयम् ॥६॥ नेति । नास्माकं महती प्रज्ञा अविसंवादिनी बुद्धिः, स्वप्रज्ञाकल्पिते विसंवाददर्शनात् । तथा सुमहान् अपारः शास्त्रस्य विस्तरः तत् तस्मात् शिष्टाः साधुजनसंमताः प्रमाणमिह प्रस्तुतव्यतिकरे यत्तैराचरितं तदेव यथाशक्ति सामान्येन कर्तुं युज्यत इत्यर्थः । इति तद् (इह=)अस्यां दृष्टौ मन्यते सदा निरन्तरम् ॥९॥ सुखस्थिरासनोपेतं बलायां दर्शनं दृढम् । परा च तत्त्वशुश्रूषा न क्षेपो योगगोचरः ॥१०॥ भयं न भवजं तीव्र हीयते नोचितक्रिया । न चानाभोगतोऽपि स्यादत्यन्तानुचितक्रिया ॥७॥

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131