Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 71
________________ मित्रादृष्टिद्वात्रिंशिका भवात् । सरागस्याप्रमत्तस्य सतो यतेः वीतरागदशानिभं सरागस्य वीतरागत्वप्राप्ताविव योगबीजोपादानवेलायामपूर्वः कोऽपि स्वानुभवसिद्धोऽतिशयलाभ इति भावः । यथोदितं योगाचार्यैः ॥११॥ योगदृष्टिसंग्रह भवादुद्विग्नता शुद्धौषधदानाद्यभिग्रहः । तथा सिद्धान्तमाश्रित्य विधिना लेखनादि च ॥१५॥ ईषदुन्मज्जनाभोगो योगचित्तं भवोदधौ । तच्छक्त्यतिशयोच्छेदि दम्भोलिन्थिपर्वते ॥१२॥ भवादिति । भवात् संसाराद् उद्विग्नता इष्टवियोगाद्यनिमित्तकसहजत्यागेच्छालक्षणा । शुद्धो निर्दोषः औषधदानादेरभिग्रहो भावाभिग्रहस्य विशिष्टक्षयोपशमलक्षणस्य भिन्नग्रन्थेरेव भावेऽपि द्रव्याभिग्रहस्य स्वाशयशुद्धस्य अन्यस्यापि सम्भवात् । तथा सिद्धान्तम् आर्षं वचनमाश्रित्य, न तु कामादिशास्त्राणि । विधिना न्यायात्तधनसत्प्रयोगादिलक्षणेन लेखनादिकं च योगबीजम् ॥१५॥ लेखनादिकमेवाह ईषदिति । योगचित्तं योगबीजोपादानप्रणिधानचित्तम् । भवोदधौ= संसारसमुद्रे । ईषद्=मनाग् मज्जनस्य आभोगः । तच्छक्तेः भवशक्तेः अतिशयस्य उद्रेकस्य उच्छेदि नाशकम् । ग्रन्थिरूपे पर्वते दम्भोलि:=वजं नियमात्तद्भेदकारित्वात् । इत्थं चैतत्फलपाकारम्भसदृशत्वादस्येति समयविदः ॥१२॥ आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । न चान्येष्वप्यसारत्वात्कूटेऽकूटधियोऽपि हि ॥१३॥ लेखना पूजना दानं श्रवणं वाचनोद्ग्रहः । प्रकाशनाथ स्वाध्यायश्चिन्तना भावनेति च ॥१६॥ लेखनेति । लेखना=सत्पुस्तकेषु । पूजना=पुष्वस्त्रादिभिः । दानं पुस्तकादेः । श्रवणं व्याख्यानस्य । वाचना=स्वयमेवास्य । उद्ग्रहो विधिग्रहणमस्यैव । प्रकाशना गृहीतस्य भव्येषु । अथ स्वाध्यायो-वाचनादिरस्यैव । चिन्तना=ग्रन्थार्थतोऽस्यैव । भावनेति च एतद्गोचरैव । योगबीजम् ॥१६॥ आचार्यादिष्वपीति । आचार्यादिष्वपि आचार्योपाध्यायतपस्व्यादिष्वपि । एतत् कुशलचित्तादि । विशुद्धं संशुद्धमेव । भावयोगिषु तात्त्विकगुणशालिषु योगबीजम् । न चान्येष्वपि द्रव्याचार्यादिष्वपि । कूटेऽकूटधियोऽपि हि असारत्वात् असुन्दरत्वात् तस्याः सद्योगबीजत्वानुपपत्तेः ॥१३॥ श्लाघनाद्यसदाशंसापरिहारपुरःसरम् । वैयावृत्त्यं च विधिना तेष्वाशयविशेषतः ॥१४॥ श्लाघनेति । श्लाघनादे: स्वकीया॑देर्याऽसत्यसुन्दराशंसा प्रार्थना तत्परिहारपुरस्सरं । वैयावृत्त्यं च व्यापृतभावलक्षणम् आहारादिदानेन । विधिना=सूत्रोक्तन्यायेन । तेषु भावयोगिष्वाचार्येषु । आशयविशेषतः= चित्तोत्साहातिशयात् । योगबीजम् ॥१४॥ बीजश्रुतौ परा श्रद्धाऽन्तर्विश्रोतसिकाव्ययात् । तदुपादेयभावश्च फलौत्सुक्यं विनाधिकः ॥१७॥ बीजेति । बीजश्रुतौ योगबीजश्रवणे । परा उत्कृष्टा श्रद्धा= 'इदमित्थमेव' इति प्रतिपत्तिरूपा । अन्तर्विश्रोतसिकायौ चित्ताशङ्कायाः व्ययात् । तस्या बीजश्रुतेः उपादेयभावः चारुपरिणामश्च । फलौत्सुक्यं = अभ्युदयाशंसात्वरालक्षणं विनाऽधिकोऽतिशयितो योगबीजम् ॥१७॥

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131