Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 70
________________ मित्रादृष्टिद्वात्रिंशिका ब्रह्मचर्याभ्यासवतश्च सतो=निरतिशयस्य वीर्यस्य लाभः, वीर्यनिरोधो हि ब्रह्मचर्य, तस्य प्रकर्षाच्च वीर्यं शरीरेन्द्रियमन:सु प्रकर्षमागच्छतीति । अपरिग्रहाभ्यासवतश्च जनुषः 'कोऽहमासं ? कीदृशः ? किकार्यकारी' इति जिज्ञासायां सम्यग्जानातीत्यर्थः । न केवलं भोगसाधनपरिग्रह एव परिग्रहः किं त्वात्मनः शरीरपरिग्रहोऽपि, तथाभोगसाधनत्वाच्छरीरस्य, तस्मिन् सति रागानुबन्धाद् बहिर्मुखायामेव प्रवृत्तौ न तात्त्विकज्ञानप्रादुर्भावः । यदा पुनः शरीरादिपरिग्रहनैरपेक्ष्येण माध्यस्थ्यमवलम्बते तदा मध्यस्थस्य रागादित्यागात् सम्यग्ज्ञानहेतुर्भवत्येव पूर्वापरजन्मसम्बोध इति । तदाह-(अपरिग्रहस्थैर्ये) जन्मकथन्तासम्बोधः इति (पातं. २-३९) ॥६॥ १२८ योगदृष्टिसंग्रह सामस्त्यप्रत्येकभावाभ्यां योगबीजं मोक्षयोजनकानुष्ठानकारणम् अनुत्तमं= सर्वप्रधानं विषयप्राधान्यात् ॥८॥ चरमे पुद्गलावर्ते तथाभव्यत्वपाकतः । प्रतिबन्धोज्झितं शुद्धमुपादेयधिया ह्यदः ॥९॥ चरम इति । अदो हि-एतच्च चरमे अन्त्ये पुद्गलावर्ते भवति । तथाभव्यत्वस्य पाकतो मिथ्यात्वकटुकत्वनिवृत्त्या मनाग्माधुर्यसिद्धः । प्रतिबन्धेन आसङ्गेन ऊज्झितम् आहारादिसञोदयाभावात् फलभिसन्धिरहितत्वाच्च । तदुपात्तस्य तु स्वतः प्रतिबन्धसारत्वात् । अत एव उपादयधिया अन्यापोहे-नादरणीयत्वबुद्ध्या शुद्धम् । तदुक्तं उपादेयधियात्यन्तं सञ्जाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं संशद्धं ह्येतदीदृशम् ॥ (यो. इ. स. २५) इत्थं यमप्रधानत्वमवगम्य स्वतन्त्रतः । योगबीजमुपादत्ते श्रुतमत्र श्रुतादपि ॥७॥ इत्थमिति । इत्थम् उक्तप्रकारेण स्वतन्त्रत: स्वाभिमतपातञ्जलादिशास्त्रतो यमप्रधानत्वम् अवगम्य । अत्र=मित्रायां दृष्टौ निवृत्तासद्ग्रहतया सद्गुरुयोगे श्रुता=जिनप्रवचनात् श्रुतमपि योगबीजम् उपादत्ते तथास्वाभाव्यात् ॥७॥ उक्तयोगबीजमेवाह प्रतिबन्धैकनिष्ठं तु स्वतः सुन्दरमप्यदः । तत्स्थानस्थितिकार्येव वीरे गौतमरागवत् ॥१०॥ प्रतिबन्धेति । प्रतिबन्धे स्वासङ्गे एका केवला निष्ठा यस्य तत्तथा । अदो जिनविषयकुशलचित्तादि तत्स्थानस्थितिकार्येव तथास्वभावत्वात् । वीरे वर्धमानस्वामिनि गौतमरागवत् गौतमीयबहुमानवत् । असङ्गसक्त्यैव ह्यनुष्ठानमुत्तरोत्तरपरिणामप्रवाहजननेन मोक्षफलपर्यवसानं भवति इति विवेचितं प्राक् ॥१०॥ जिनेषु कुशलं चित्तं तन्नमस्कार एव च । प्रणामादि च संशुद्धं योगबीजमनुत्तमम् ॥८॥ जिनेष्विति । जिनेषु अर्हत्सु कुशलं-द्वेषाद्यभावेन प्रीत्यादिमत् चित्तम् । अनेन मनोयोगवृत्तिमाह । तन्नमस्कार एव=जिननमस्कार एव च, तथामनोयोगप्रेरितः, इत्यनेन वाग्योगवृत्तिमाह । प्रणामादि च पञ्चाङ्गादिलक्षणम्, आदिशब्दान्मण्डलादिग्रहः । संशुद्धम् अशुद्धव्यच्छेदार्थमेतत् तस्य सामान्येन यथाप्रवृत्तकरणभेदत्वात्तस्य च योगबीजत्वानुपपतेः एतत्सर्व सरागस्याप्रमत्तस्य वीतरागदशानिभम् । अभिन्दतोऽप्यदो ग्रन्थि योगाचार्यैर्यथोदितम् ॥११॥ सरागस्येति । अदः=शुद्धयोगबीजोपादानं ग्रन्थिमभिन्दतोऽपि जीवस्य चरमयथाप्रवृत्तकरणसामर्थ्येन तथाविधक्षयोपशमादतिशयितानन्दानु

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131