Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 66
________________ १२० योगावतारद्वात्रिंशिका ११९ योग इति । जिनेन अर्हता सर्वज्ञेन प्रोक्ते तत्त्वत एकस्मिन्नपि योगे क्षयोपशमवैचित्र्यात् दृष्टिभेदो-दर्शनविशेषः प्रवर्तते । समेघादौ मेघसहितरात्र्यादौ ओघदृष्टिवत् सामान्यदर्शनमिव । तथा हि-एकस्मिन्नपि दृश्ये समेघायां रात्रौ दृष्टिः किञ्चिन्मात्रग्राहिणी, अमेघायां तु मनागधिकतरग्राहिणी । एवं समेघामेघयोदिवसयोरप्यस्ति विशेषः । तथा सग्रहाग्रहयोश्चित्तविभ्रमतदभावाभ्याम्, अर्भकानर्भकयोरपि मुग्धत्वविवेकाभ्याम् उपहतानुपहतलोचनयोश्च दोषगुणाभ्यां ग्राहकयोरपि । तथा प्रकृतेऽपि योगदृष्टिभेद इति भावनीयम् । एतन्निबन्धनोऽयं दर्शनभेद इति योगाचार्याः । न खल्वयं स्थिरादिदृष्टिमतां भिन्नग्रन्थीनां योगिनां, यथाविषयं नयभेदावबोधात, प्रवृत्तिरपि अमीषां परार्थ शुद्धबोधभावेन विनिवृत्ताग्रहतया मैत्र्यादिपारतन्त्र्येण गम्भीरोदाराशयत्वाच्चारिचरकसञ्जीविन्यचरकचारणनीत्येत्याहुः ॥२४॥ सच्छ्रद्धासङ्गतो बोधो दृष्टिः सा चाष्टधोदिता । मित्रा तारा बला दीप्रा स्थिरा कान्ता प्रभा परा ॥२५॥ सच्छ्रद्धेति । सच्छ्रद्धया शास्त्रबाह्याभिप्रायविकलसदूहलक्षणया सङ्गतो बोधो दृष्टिः, तस्या उत्तरोत्तरगुणाधानद्वारा सत्प्रवृत्तिपदावहत्वात् । तदुक्तं सच्छ्रद्धासङ्गतो बोधो दृष्टिरित्यभिधीयते । असत्प्रवृत्तिव्याघातसत्प्रवृत्तिपदावहः ॥ इति । (यो. इ. स. १७) सा चाष्टधोदिता मित्रा तारा बला दीप्रा स्थिरा कान्ता प्रभा परा चेति ॥२५॥ योगदृष्टिसंग्रह संस्काराधानानुपपत्तेः, विकलप्रयोगभावाद्भावतो वन्दनादिकार्यायोगादिति । तारा दृष्टिोमयाग्निकणसदृशी । इयमप्युक्तकल्पैव, तत्त्वतो विशिष्टस्थितिवीर्यविकलत्वात्, अतोऽपि प्रयोगकाले स्मृतिपाटवासिद्धेः तदभावे प्रयोगवैकल्यात्, ततः तथातत्कार्याभावादिति । __ बला दृष्टिः काष्ठाग्निकणतुल्या, ईषद्विशिष्टा उक्तबोधद्वयात्, तद्भावेनात्र मनाक् स्थितिवीर्ये, अतः पटुप्राया स्मृतिः, इह प्रयोगसमये तद्भावे चार्थप्रयोगमात्रप्रीत्या यत्नलेशभावादिति । दीप्रा दृष्टिीपप्रभासदृशी, विशिष्टतरा उक्तबोधत्रयात्, अतोऽत्रोदने स्थितिवीर्ये, तत्पव्यपि प्रयोगसमये स्मृतिः, एवंभावतोऽप्यत्र द्रव्यप्रयोगो वन्दनादौ, तथाभक्तितो यत्नभेदप्रवृत्तेरिति प्रथमगुणस्थानकप्रकर्ष एतावानिति समयविदः । स्थिरा च भिन्नग्रन्थेरेव । सा च रत्नाभा, तदवबोधो हि रत्नभास्समानः, तद्भावोऽप्रतिपाती प्रवर्धमानो निरपायो नापरपरितापकृत् परितोषहेतु: प्रायेण प्रणिधानादियोनिरिति । कान्ता ताराभा, तदवबोधस्ताराभास्समानः, अतः स्थित एव प्रकृत्या, निरतिचारमत्रानुष्ठानं शुद्धोपयोगानुसारि विशिष्टाप्रमादसचिवं विनियोगप्रधानं गम्भीरोदाराशयमिति । प्रभा अर्काभा, तदवबोधस्तरणिभास्समानः, सद्ध्यानहेतुरेव सर्वदा, नेह प्रायो विकल्पावसरः, प्रशमसारं सुखमिह, अकिञ्चित्कराण्यत्रान्यशास्त्राणि समाधिनिष्ठमनुष्ठानं, तत्सन्निधौ वैरादिनाशः, परानुग्रहकर्तृता, औचित्ययोगो विनयेषु, तथाऽवन्ध्या सत्क्रियेति । परा तु दृष्टिश्चन्द्राभा, तदवबोधश्चन्द्रिकाभास्समानः, सद्ध्यानरूप एव सर्वदा, विकल्परहितं मनः, तदभावेनोत्तमं सुखं, आरुढारोहणवन्नानुष्ठानं प्रतिक्रमणादि, परोपकारित्वं, यथाभव्यमवन्ध्या क्रियेति । तृणगोमयकाष्ठाग्निकणदीपप्रभोपमा । रत्नतारार्कचन्द्राभा क्रमेणेक्ष्वादिसन्निभा ॥२६॥ तृणेति । मित्रा दृष्टिस्तृणाग्निकणोपमा, न तत्त्वतोऽभीष्टकार्यक्षमा, सम्यक्प्रयोगकालं यावदनवस्थानात्, । अल्पवीर्यतया ततः पटुस्मृतिबीज

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131