Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 67
________________ योगावतारद्वात्रिंशिका १२१ तथा क्रमेण मित्राद्यनुक्रमेण इक्ष्वादिसन्निभा दृष्टिः, इक्षु-रस-कक्कगुडकल्पाः खल्वाद्याश्चतस्रः खण्डशर्करामत्स्यण्डवर्षोलकसमाश्चाग्रिमा इत्याचार्याः । इक्ष्वादिकल्पानामेव रुच्यादिगोचराणां संवेगमाधुर्यभेदोपपत्तेः नलादिकल्पानामभव्यानां संवेगमाधुर्यशून्यत्वादिति ॥२६॥ १२२ योगदृष्टिसंग्रह विक्रियानुपपत्तेः । योगाचार्या एवात्र प्रमाणम् । तदुक्तं प्रतिपातयुताश्चाद्याश्चतस्त्रो नोत्तरास्तथा । सापाया अपि चैतास्तत्प्रतिपातेन नेतराः ॥ इति । (यो. इ. स. १९) प्रयाणभङ्गाभावेन निशि स्वापसमः पुनः । विघातो दिव्यभवतश्चरणस्योपजायते ॥२९॥ प्रयाणेति । प्रयाणस्य कान्यकुब्जादावनवरतगमनलक्षणस्य भङ्गाभावेन निशि=रात्रौ स्वापसमः पुनः विघात: प्रतिबन्धः पुनर्दिव्यभवतः= स्वर्गजन्मनः सकाशात् चरणस्य चारित्रस्योपजायते ॥२९॥ यमादियोगयुक्तानां खेदादिपरिहारतः । अद्वेषादिगुणस्थानां क्रमेणैषा सतां मता ॥२७॥ यमादीति । यमादयो योगाङ्गत्वाद्योगाः । यथोक्तं- "यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि योगस्येति" (पातं. २-२६) तैर्युक्तानां, खेदादीनां ध्यानाभिधानस्थले प्रोक्तानां योगप्रत्यनीकाशयलक्षणानां परिहारतो अद्वेषादयो येऽष्टौ गुणाः तदुक्तं अद्वेषो जिज्ञासा शुश्रूषा श्रवणबोधमीमांसाः । परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टाङ्गिकी तत्त्वे ॥ इति । (षोड. १६.१४) तत्स्थानां तत्प्रतिबद्धवृत्तीनां क्रमेणैषा=दृष्टिः सतां भगवत्पतञ्जलिभदन्तभास्करादीनां योगिनां मता इष्टा ॥२७॥ तादृश्यौदयिके भावे विलीने योगिनां पुनः । जाग्रन्निरन्तरगतिप्राया योगप्रवृत्तयः ॥३०॥ तादृशीति । तादृशि स्वर्गगतिनिबन्धने सरागचारित्रदशावति (दशाभाविनि) औदयिके भावे प्रशस्तरागादिरूपे विलीने पुनर्योगिनां जाग्रतो या निरन्तरा गतयस्तत्प्राया योगिनां प्रवृत्तयो भवन्ति । अक्षेपेणैव मोक्षपुरप्राप्त्युपपत्तेः, तथाविधकर्मरूपश्रमाभावेन तदपनयनार्थस्वापसमस्वभावेनावलम्बादिति भावः ॥३०॥ आद्याश्चतस्त्रः सापायपाता मिथ्यादृशामिह । तत्त्वतो निरपायाश्च भिन्नग्रन्थेस्तथोत्तराः ॥२८॥ आद्या इति । आद्याश्चतस्रो मित्राद्या दृष्टयः इह-जगति मिथ्यादृशां भवन्ति सापायपाता: दुर्गतिहेतुकर्मबलेन तन्निमित्तभावादपायसहिताः । कर्मवैचित्र्याद् भ्रंशयोगेन सपाताश्च न तु सपाता एव, ताभ्यस्तदुत्तरभावादिति । तथा उत्तराः चतस्रः स्थिराद्या दृष्टयो भिन्नग्रन्थेस्तत्त्वतः परमार्थतः निरपायाः । श्रेणिकादीनामेतद्भवोपात्तकर्मसामर्थ्य हि तस्यापायस्यापि सदृष्ट्यविघातेन तत्त्वतोऽनपायत्वाद्वज्रतण्डुलवत्पाकेन तदाशयस्य कायदु:खभावेऽपि मिथ्यात्वे मन्दतां प्राप्ते मित्राद्या अपि दृष्टयः । मार्गाभिमुखभावेन कुर्वते मोक्षयोजनम् ॥३१॥ मिथ्यात्व इति । मिथ्यात्वे मिथ्यात्वमोहनीये कर्मणि मन्दतां प्राप्तेऽपुनर्बन्धकत्वादिभावेन । मित्राद्या अपि दृष्टयः चतस्रः, किं पुनः स्थिराद्या इत्यप्यर्थः । मार्गाभिमुखभावेन मार्गसांमुख्येन द्रव्ययोगतया मोक्षयोजनं कुर्वते । चरमावर्तभावित्वेन समुचितयोग्यतासिद्धेः ॥३१॥

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131