Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 64
________________ योगावतारद्वात्रिंशिका तत्त्वायोगात् विशेषणसम्बन्धं विना वैशिष्ट्यस्यापि दुर्वचत्वाच्चेति । तथा च गृहीतृसमापत्तिर्वाङ्मात्रमेवेति भावः ॥१५॥ परमात्मसमापत्तिर्जीवात्मनि हि युज्यते । अभेदेन तथाध्यानादन्तरङ्गस्वशक्तितः ॥१६॥ ११६ योगदृष्टिसंग्रह शक्तिस्तदेकद्रव्यत्वात्, अन्तरात्मदशायां च परमात्मनः शक्तिः, बाह्यात्मनस्तु भूतपूर्वनयेन योगः, परमात्मतादशायां च बाह्यात्मान्तरात्मनोईयोरपि भूतपूर्वनयेनैव योग इति वदन्ति । तत्त्वमत्रत्यमध्यात्ममतपरीक्षायां व्यवस्थापितमस्माभिः ॥१८॥ (श्लो. १२५-वृत्ति) विषयस्य समापत्तिरुत्पत्तिर्भावसञ्जिनः । आत्मनस्तु समापत्तिर्भावौ द्रव्यस्य तात्त्विकः ॥१९॥ परमात्मेति । जीवात्मनि हि परमात्मसमापत्तिः तथापरिणामलक्षणा युज्यते । अभेदेन तथा परमात्मत्वेन ध्यानाद् जीवात्मनः अन्तरङ्गायाःउपादानभूतायाः स्वशक्तितः तथापरिणमनादात्मशक्तेः, शक्त्या सत एव व्यक्ता(क्त्या) परिणमनस्य तथासामग्रीतः सम्भवादिति भावः ॥१६॥ जीवात्मनि परमात्मनः सत्त्वोपपत्त्यर्थमात्मत्रयं सन्निहितमुपदर्शयतिबाह्यात्मा चान्तरात्मा च परमात्मेति त त्रयः । कायाधिष्ठायकध्येयाः प्रसिद्धा योगवाङ्मये ॥१७॥ विषयस्येति । विषयस्य आत्मातिरिक्तस्य भावस्य समापत्तिर्भावसझिनो भावाभिधानस्य उत्पत्तिरुच्यते । वदन्ति हि नयदक्षाः "अग्न्युपयुक्तो माणवकोऽप्यग्निरेवेति" । शब्दार्थप्रत्ययानां तुल्याभिधानत्वात् नत्वर्थज्ञानयोः कश्चनैकवृत्त्यारूढतया एकत्वपरिणाम: सम्भवति, चेतनत्वाचेतनत्वयोविरोधादिति भावः । आत्मनस्तु समापत्तिर्द्रव्यस्य परमात्मदलस्य तात्त्विक: सहजशुद्धो भाव:=परिणामः ॥१९॥ अत एव च योऽर्हन्तं स्वद्रव्यगुणपर्ययैः । वेदात्मानं स एव स्वं वेदेत्युक्तं महार्षिभिः ॥२०॥ बाह्यात्मा चेति । कायः स्वात्मधिया प्रतीयमानोऽहं स्थूलोऽहं कृश इत्यायल्लेखेन, अधिष्टायकः कायचेष्टाजनकप्रयत्नवान्, ध्येयाश्च ध्यानभाव्या एते त्रयो=बाह्यात्मा चान्तरात्मा च परमात्मा चेति योगवाङ्मये योगशास्त्रे प्रसिद्धाः । एतेषां च स्वेतरभेदप्रतियोगित्वध्यातृत्वध्येयत्वैानोपयोगस्तात्त्विकातात्त्विकैकत्वपरिणामतश्च सन्निधानमतात्त्विकपरिणामनिवृत्तौ तात्त्विकपरिणामोपलम्भश्च समापत्तिरिति ध्येयम् ॥१७॥ अन्ये मिथ्यात्वसम्यक्त्वकेवलज्ञानभागिनः । मिश्रे च क्षीणमोहे च विश्रान्तास्ते त्वयोगिनि ॥१८॥ अत एव चेति । यत एव दलतया परमात्मैव जीवात्मा, अत एव च योऽर्हन्तं तीर्थकरं स्वद्रव्यगुणपर्ययैः निजशुद्धात्मकेवलज्ञानस्वभावपरिणमनलक्षणैः वेद जानाति, स एव स्वम् आत्मानं वेद-तत्त्वतो जानाति, तथाज्ञानस्य तथाध्यानद्वारा तथासमापत्तिजनकत्वादिति महषिभिरुक्तम् । यतः पठ्यते जो जाणइ अरहंते दव्वत्तगुणत्तपज्जयत्तेहिं ।। सो जाणड अप्पाणं मोहो खलु जाइ तस्स लयं ॥ (प्रवचनसार १.८४,) न च एतद्गाथाकर्तुर्दिगम्बरत्वेन महर्षित्वाभिधानं न निरवद्यमिति मूढधिया शङ्कनीयं, सत्यार्थकथनगुणेन व्यासादीनामपि हरिभद्राचार्यैस्तथाभिधानादिति द्रष्टव्यम् ॥२०॥ अन्य इति । अन्ये पुनराहु: मिथ्यात्वसम्यक्त्वकेवलज्ञानभागिनो बाह्यात्माऽन्तरात्मपरमात्मानः । ते तु मिश्रे च क्षीणमोहे चायोगिनि च गुणस्थाने क्रमेण विश्रान्ताः । तत्र च बाह्यात्मतादशायामन्तरात्मपरमात्मनोः

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131