Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 62
________________ योगावतारद्वात्रिंशिका सत्त्वं रजस्तमोलेशाऽनाक्रान्तं यत्र भाव्यते । स सास्मितोऽत्र चिच्छक्तिसत्त्वयोर्मुख्यगौणता ॥७॥ सत्त्वमिति । यत्र रजस्तमोलेशेनाऽनाक्रान्तं सत्त्वं भाव्यते, स सास्मितः समाधिः । अत्र चिच्छक्तिसत्त्वयोर्मुख्यगौणता भाव्यस्य शुद्धसत्त्वस्य न्यग्भावाच्चितिशक्तेश्च उद्रेकात् सत्तामात्रावशेषत्वाच्चात्र सास्मितत्वोपपत्तिः । १११ न च अहङ्कारास्मितयोरभेदः शङ्कनीयः, यतो यत्रान्तःकरणमहमित्युल्लेखेन विषयं वेदयते सोऽहङ्कारः, यत्रान्तर्मुखतया प्रतिलोमपरिणामेन प्रकृतिलीने चेतसि सत्तामात्रमेव भाति साऽस्मितेति ॥ ७ ॥ अत्रैव कृततोषा ये परमात्माऽनवेक्षिणः । चित्ते गते ते प्रकृतिलया हि प्रकृतौ लयम् ॥८॥ अत्रैवेति । अत्रैव = सास्मितसमाधावेव ये कृततोषाः परमात्मानवेक्षिणः=परमपुरुषादर्शिनः, ते हि चित्ते प्रकृतौ लयं गते सति प्रकृतिलया उच्यन्ते ॥८॥ गृहीतृग्रहणग्राह्यसमापत्तित्रयं किल । अत्र सास्मितसानन्दनिर्विचारान्तविश्रमम् ॥९॥ गृहीत्रिति । सास्मितसमाधिपर्यन्ते परं पुरुषं ज्ञात्वा भावनायां विवेकख्यातौ गृहीतृसमापत्तिः । सानन्दसमाधिपर्यन्ते ग्रहणसमापत्तिः । निर्विचारसमाधिपर्यन्ते च ग्राह्यसमापत्तिर्विश्रान्तेत्येतदर्थः ॥९॥ मरिवाभिजातस्य क्षीणवृत्तेरसंशयम् । तात्स्थ्यात्तदञ्जनत्वाच्च समापत्तिः प्रकीर्तिता ॥१०॥ योगदृष्टिसंग्रह मणेरिवेति । मणेरिव=स्फटिकादिरत्नस्य अभिजातस्य =जात्यस्य क्षीणवृत्तेः=क्षीणमलस्य । असंशयं निश्चितम् । तात्स्थ्यात्=तत्रैकाग्रत्वात् तदञ्जनत्वाच्च=तन्मयत्वात् । न्यग्भूते चित्ते विषयस्य भाव्यमानस्यैकत्वोत्कर्षात् समापत्तिः प्रकीर्तिता । तदुक्तं - क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः (पातं. १ - ४१) । यथा हि निर्मलस्फटिकमणेस्तद्रूपाश्रयवशात्तद्रूपतापत्तिरेवं निर्मलचित्तसत्त्वस्य तत्तद्भावनीयवस्तू परागात्तद्रूपतापत्तिः । ११२ यद्यपि ग्रहीतृग्रहणग्राह्येत्युक्तं तथापि भूमिकाक्रमवशेन व्यत्ययो बोध्यः । यतः प्रथमं ग्राह्यनिष्ठः समाधिः, ततो ग्रहणनिष्ठः, ततोऽस्मितोपरागेण गृहीतृनिष्ठः, केवलस्य पुरुषस्य गृहीतुर्भाव्यत्वासम्भवादिति बोध्यम् ॥१०॥ सङ्कीर्णा सा च शब्दार्थज्ञानैरपि विकल्पतः । सवितर्का परैर्भेदैर्भवतीत्थं चतुर्विधा ॥११॥ सङ्कीर्णेति । सा च समापत्तिः शब्दार्थज्ञानैर्विकल्पतोऽपि सङ्कीर्णा सवितर्का । यदाह - (तत्र) शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का (पातं. १-४२) तत्र श्रोत्रेन्द्रियग्राह्यः स्फोटरूपो वा शब्द:, अर्थो=जात्यादि ज्ञानं= सत्त्वप्रधाना बुद्धिवृत्तिर्विकल्पः = शाब्दज्ञानानुपाती वस्तुशून्योऽर्थः, एतैः सङ्कीर्णा यत्रैते शब्दादयः परस्पराध्यासेन प्रतिभासन्ते- 'गौरिति शब्दो गोरित्यर्थो गौरिति ज्ञानम्' इत्याकारेण । इत्थं परैर्भेदैश्चतुर्विधा इयं भवति । तथाहि(उक्तं) महास्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का (पातं. १४३) यदाह- " उक्तलक्षणविपरीता निर्वितर्केति " । यथा च स्थूलभूतादिविषया सवितर्का तथा सूक्ष्मतन्मात्रेन्द्रियादिकमर्थं शब्दार्थविकल्पसहितत्वेन देशकालधर्मावच्छेदेन च गृह्णन्ती सविचारा भण्यते, धर्मिमात्रतया च गृह्णन्ती निर्विचारेति । यत उक्तम्- "एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता" (पातं. १ - ४४)

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131