________________
योगावतारद्वात्रिंशिका
सत्त्वं रजस्तमोलेशाऽनाक्रान्तं यत्र भाव्यते । स सास्मितोऽत्र चिच्छक्तिसत्त्वयोर्मुख्यगौणता ॥७॥
सत्त्वमिति । यत्र रजस्तमोलेशेनाऽनाक्रान्तं सत्त्वं भाव्यते, स सास्मितः समाधिः । अत्र चिच्छक्तिसत्त्वयोर्मुख्यगौणता भाव्यस्य शुद्धसत्त्वस्य न्यग्भावाच्चितिशक्तेश्च उद्रेकात् सत्तामात्रावशेषत्वाच्चात्र सास्मितत्वोपपत्तिः ।
१११
न च अहङ्कारास्मितयोरभेदः शङ्कनीयः, यतो यत्रान्तःकरणमहमित्युल्लेखेन विषयं वेदयते सोऽहङ्कारः, यत्रान्तर्मुखतया प्रतिलोमपरिणामेन प्रकृतिलीने चेतसि सत्तामात्रमेव भाति साऽस्मितेति ॥ ७ ॥
अत्रैव कृततोषा ये परमात्माऽनवेक्षिणः ।
चित्ते गते ते प्रकृतिलया हि प्रकृतौ लयम् ॥८॥
अत्रैवेति । अत्रैव = सास्मितसमाधावेव ये कृततोषाः परमात्मानवेक्षिणः=परमपुरुषादर्शिनः, ते हि चित्ते प्रकृतौ लयं गते सति प्रकृतिलया उच्यन्ते ॥८॥
गृहीतृग्रहणग्राह्यसमापत्तित्रयं किल ।
अत्र सास्मितसानन्दनिर्विचारान्तविश्रमम् ॥९॥
गृहीत्रिति । सास्मितसमाधिपर्यन्ते परं पुरुषं ज्ञात्वा भावनायां विवेकख्यातौ गृहीतृसमापत्तिः । सानन्दसमाधिपर्यन्ते ग्रहणसमापत्तिः । निर्विचारसमाधिपर्यन्ते च ग्राह्यसमापत्तिर्विश्रान्तेत्येतदर्थः ॥९॥
मरिवाभिजातस्य क्षीणवृत्तेरसंशयम् ।
तात्स्थ्यात्तदञ्जनत्वाच्च समापत्तिः प्रकीर्तिता ॥१०॥
योगदृष्टिसंग्रह
मणेरिवेति । मणेरिव=स्फटिकादिरत्नस्य अभिजातस्य =जात्यस्य क्षीणवृत्तेः=क्षीणमलस्य । असंशयं निश्चितम् । तात्स्थ्यात्=तत्रैकाग्रत्वात् तदञ्जनत्वाच्च=तन्मयत्वात् । न्यग्भूते चित्ते विषयस्य भाव्यमानस्यैकत्वोत्कर्षात् समापत्तिः प्रकीर्तिता । तदुक्तं - क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः (पातं. १ - ४१) । यथा हि निर्मलस्फटिकमणेस्तद्रूपाश्रयवशात्तद्रूपतापत्तिरेवं निर्मलचित्तसत्त्वस्य तत्तद्भावनीयवस्तू परागात्तद्रूपतापत्तिः ।
११२
यद्यपि ग्रहीतृग्रहणग्राह्येत्युक्तं तथापि भूमिकाक्रमवशेन व्यत्ययो बोध्यः । यतः प्रथमं ग्राह्यनिष्ठः समाधिः, ततो ग्रहणनिष्ठः, ततोऽस्मितोपरागेण गृहीतृनिष्ठः, केवलस्य पुरुषस्य गृहीतुर्भाव्यत्वासम्भवादिति बोध्यम् ॥१०॥
सङ्कीर्णा सा च शब्दार्थज्ञानैरपि विकल्पतः । सवितर्का परैर्भेदैर्भवतीत्थं चतुर्विधा ॥११॥
सङ्कीर्णेति । सा च समापत्तिः शब्दार्थज्ञानैर्विकल्पतोऽपि सङ्कीर्णा सवितर्का । यदाह - (तत्र) शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का (पातं. १-४२) तत्र श्रोत्रेन्द्रियग्राह्यः स्फोटरूपो वा शब्द:, अर्थो=जात्यादि ज्ञानं= सत्त्वप्रधाना बुद्धिवृत्तिर्विकल्पः = शाब्दज्ञानानुपाती वस्तुशून्योऽर्थः, एतैः सङ्कीर्णा यत्रैते शब्दादयः परस्पराध्यासेन प्रतिभासन्ते- 'गौरिति शब्दो गोरित्यर्थो गौरिति ज्ञानम्' इत्याकारेण । इत्थं परैर्भेदैश्चतुर्विधा इयं भवति । तथाहि(उक्तं) महास्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का (पातं. १४३) यदाह- " उक्तलक्षणविपरीता निर्वितर्केति " ।
यथा च स्थूलभूतादिविषया सवितर्का तथा सूक्ष्मतन्मात्रेन्द्रियादिकमर्थं शब्दार्थविकल्पसहितत्वेन देशकालधर्मावच्छेदेन च गृह्णन्ती सविचारा भण्यते, धर्मिमात्रतया च गृह्णन्ती निर्विचारेति । यत उक्तम्- "एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता" (पातं. १ - ४४)