________________
योगावतारद्वात्रिंशिका
अनन्तरोक्तो योगविवेकः स्वाभिमतयोगभेदे परोक्तयोगानामवतारे सति व्यवतिष्ठत इत्यतोऽयं निरूप्यते
सम्प्रज्ञातोऽपरश्चेति द्विधाऽन्यैरयमिष्यते ।
सम्यक् प्रज्ञायते येन सम्प्रज्ञातः स उच्यते ॥१॥
सम्प्रज्ञात इति । सम्प्रज्ञातोऽपरोऽसम्प्रज्ञातश्चेति अन्यैः = पातञ्जलैरयं योगो द्विधेष्यते । सम्यक् संशयविपर्ययानध्यवसायरहितत्वेन प्रज्ञायते=प्रकर्षेण ज्ञायते भावस्य स्वरूपं येन स सम्प्रज्ञात उच्यते ॥१॥
वितर्केण विचारेणानन्देनास्मितयाऽन्वितः । भावस्य भावनाभेदात्सम्प्रज्ञातश्चतुर्विधः ॥२॥
वितर्केणेति । वितर्केण विचारेण आनन्देण अस्मितयाऽन्वितः क्रमेण युक्तः । भावस्य भावनाया विषयान्तरपरिहारेण चेतसि पुनः पुन - निवेशनलक्षणाया भेदात् । सम्प्रज्ञातश्चतुर्विधो भवति । तदुक्तं- वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञात इति ( पातं. १-१७) ॥२॥
पूर्वापरानुसन्धानाच्छब्दोल्लेखाच्च भावना । महाभूतेन्द्रियार्थेषु सविकल्पोऽन्यथा ऽपरः ॥ ३ ॥
११०
योगदृष्टिसंग्रह
पूर्वेति । पूर्वापरयोः=अर्थयो: अनुसन्धानाच्छब्दोल्लेखात्=शब्दार्थोपरागाच्च यदा भावना प्रवर्तते महाभूतेन्द्रियलक्षणेषु अर्थेषु स्थूलविषयेषु तदा सवितर्कः समाधिः । अन्यथा = अस्मिन्नेवालम्बने पूर्वापरानुसन्धानशब्दार्थोल्लेखशून्यत्वेन भावनायाम् अपरः निर्वितर्कः ॥३॥
तन्मात्राऽन्तःकरणयोः सूक्ष्मयोर्भावना पुनः । दिक्कालधर्मावच्छेदात् सविचारोऽन्यथा परः || ४ ||
तन्मात्रेति । तन्मात्रान्तःकरणयोः सूक्ष्मयोः भाव्ययोर्दिक्कालधर्मावच्छेदाद् देशकालधर्मावच्छेदेन भावना पुनः सविचारः समाधिः । अन्यथा=तस्मिन्नेवालम्बने देशकालधर्मावच्छेदं विना धर्मिमात्रावभासित्वेन भावनायाम् अपरो निर्विचारः ॥४॥
यदा रजस्तमोलेशानुविद्धं भाव्यते मनः । तदा भाव्यसुखोद्रेकाच्चिच्छक्तेर्गुणभावतः ॥५॥
यदेति । यदा रजस्तमसोर्लेशेन अनुविद्धं मनः=अन्तःकरणतत्त्वं भाव्यते तदा भावस्य = भावनाविषयस्य सुखस्य सुखप्रकाशमयस्य सत्त्वस्य उद्रेकाद्=आधिक्यात् चिच्छक्तेर्गुणभावतः =अनुद्रेकात् ॥५॥
सानन्दोऽत्रैव भण्यन्ते विदेहा बद्धवृत्तयः । देहाहाङ्कारविगमात् प्रधानमुपदर्शिनः ॥६॥
सानन्द इति । सानन्दः समाधिर्भवत्युक्तहेतुतः । अत्रैव समाधौ बद्धवृत्तयो विदेहा भण्यन्ते । देहाहङ्कारविगमाद् =बहिर्विषयावेशनिवृत्तेः । प्रधानमुपदर्शिनः=प्रधानपुरुषतत्त्वाविर्भावकाः ॥६॥